श्रीः
अध्यायः 172
सङ्कुलयुद्धम् ॥ 1 ॥ धृष्टद्युम्नादीनां हर्षात्सिंहनादः ॥ 2 ॥
सञ्जय उवाच 001
ततस्ते प्राद्रवन्सर्वे त्वरिता युद्धदुर्मदाः । 001a
अमृष्यमाणाः संरब्धा युयुधानरथं प्रति ॥ 001c
ते रथैः कल्पितै राजन्हेमरूप्यविभूषितैः । 002a
सादिभिश्च गजैश्चैव परिवव्रुः समन्ततः ॥ 002c
अथैनं कोष्ठकीकृत्य सर्वतस्ते महारथाः । 003a
सिंहनादांस्ततश्चक्रुस्तर्जयन्ति स्म सात्यकिम् ॥ 003c
तेऽभ्यवर्षञ्छरैस्तीक्ष्णैः सात्यकिं सत्यविक्रमम् । 004a
त्वरमाणा महावीरा माधवस्य वधैषिणः ॥ 004c
तान्दृष्ट्वा पततस्तूर्णं शैनेयः परवीरहा । 005a
प्रत्यगृह्णान्महाबाहुः प्रमुञ्चन्विशिखान्बहून् ॥ 005c
तत्र वीरो महेष्वासः सात्यकिर्युद्धदुर्मदः । 006a
निचकर्त शिरांस्युग्रैः शरैः सन्नतपर्वभिः ॥ 006c
हस्तिहस्तान्हयग्रीवा बाहूनपि च सायुधान् । 007a
क्षुरप्रैः शातयामास तावकानां स माधवः ॥ 007c
पतितैश्चामरैश्चैव श्वेतच्छत्रैश्च भारत । 008a
बभूव धरणी पूर्णा नक्षत्रैर्द्यौरिव प्रभो ॥ 008c
एतेषां युयुधानेन युध्यतां युधि भारत । 009a
बभूव तुमुलः शब्दः प्रेतानां क्रन्दतामिव ॥ 009c
तेन शब्देन महता पूरिताऽभूद्वसुन्धरा । 010a
रात्रिः समभवच्चैव तीव्ररूपा भयावहा ॥ 010c
दीर्यमाणं बलं दृष्ट्वा युयुधानशराहतम् । 011a
श्रुत्वा च विपुलं नादं निशीथे रोमहर्षणे ॥ 011c
सुतस्तवाब्रवीद्राजन्सारथिं रथिनां वरः । 012a
यत्रैष शब्दस्तत्राश्वांश्चोदयेति पुनःपुनः ॥ 012c
तेन सञ्चोद्यमानस्तु ततस्तांस्तुरगोत्तमान् । 013a
सूतः सञ्चोदयामास युयुधानरथं प्रति ॥ 013c
ततो दुर्योधनः क्रुद्धो दृढधन्वा जितक्लमः । 014a
शीघ्रहस्तश्चित्रयोधी युयुधानमुपाद्रवत् ॥ 014c
ततः पूर्णायतोत्सृष्टैः शरैः शोणितभोजनैः । 015a
दुर्योधनं द्वादशभिर्माधवः प्रत्यविध्यत ॥ 015c
दुर्योधनस्तेन तथा पूर्वमेवार्दितः शरैः । 016a
शैनेयं दशभिर्बाणैः प्रत्यविध्यदमर्षितः ॥ 016c
ततः समभवद्युद्धं तुमुलं भरतर्षभ । 017a
पाञ्चालानां च सर्वेषां भरतानां च दारुणम् ॥ 017c
शैनेयस्तु रणे क्रुद्धस्तव पुत्रं महारथम् । 018a
सायकानामशीत्या तु विव्याधोरसि भारत ॥ 018c
ततोऽस्य वाहान्समरे शरैर्निन्ये यमक्षयम् । 019a
सारथिं च रथात्तूर्णं पातयामास पत्रिणा ॥ 019c
हताश्वे तु रथेऽतिष्ठन्पुत्रस्तव विशाम्पते । 020a
मुमोच निशितान्बाणाञ्शैनेयस्य रथं प्रति ॥ 020c
शरान्पञ्चशतांस्तस्मै शैनेयः कृतहस्तवत् । 021a
चिच्छेद समरे राजन्प्रेषितांस्तनयेन ते ॥ 021c
अथापरेण भल्लेन मुष्टिदेशे महद्धनुः । 022a
चिच्छेद तरसा युद्धे तव पुत्रस्य माधव ॥ 022c
विरथो विधनुष्कश्च सर्वलोकेश्वरः प्रभुः । 023a
आरुरोह रथं तूर्णं भास्वरं कृतवर्मणः ॥ 023c
दुर्योधने परावृत्ते शैनेयस्तव वाहिनीम् । 024a
द्रावयामास विशिखैर्निशामध्ये विशाम्पते ॥ 024c
शकुनिश्चार्जुनं राजन्परिवार्य समन्ततः । 025a
रथैरनेकसाहस्रैर्गजैश्चापि सहस्रशः । 025c
तथा हयसहस्रैश्च नानाशस्त्रैरवाकिरत् ॥ 025e
ते महास्त्राणि सर्वाणि विकिरन्तोऽर्जुनं प्रति । 026a
अर्जुनं योधयन्ति स्म क्षत्रियाः कालचोदिताः ॥ 026c
तान्यर्जुनः सहस्राणि रथवारणवाजिनाम् । 027a
प्रत्यवारयदायस्तः प्रकुर्वन्विपुलं क्षयम् ॥ 027c
ततस्तु समरे शूरः शकुनिः सौबलस्तदा । 028a
विव्याध निशितैर्बाणैरर्जुनं प्रहसन्निव ॥ 028c
पुनश्चैव शतेनास्य संरुरोध महारथम् ॥ 029ac
तमर्जुनस्तु विंशत्या विव्याध युधि भारत । 030a
अथेतरान्महेष्वासांस्त्रिभिस्त्रिभिरविध्यत ॥ 030c
निवार्य तान्बाणगणैर्युधि राजन्धनञ्जयः । 031a
जघान तावकान्योधान्वज्रपाणिरिवासुरान् ॥ 031c
भुजैश्छिन्नैर्महीपाल हस्तिहस्तोपमैर्मृधे । 032a
समाकीर्णा मही भाति पञ्चास्यैरिव पन्नगैः ॥ 032c
शिरोभिः सकिरीटैश्च सुनसैश्चारुकुण्डलैः । 033a
सन्दष्टौष्ठपुटैः क्रुद्धैस्तथैवोद्वृत्तलोचनैः ॥ 033c
निष्कचूडामणिधरैः क्षत्रियाणां प्रियंवदैः । 034a
पङ्कजैरिव विन्यस्तैः पर्वतैर्विबभौ मही ॥ 034c
कृत्वा तत्कर्म बीभत्सुरुग्रमुग्रपराक्रमः । 035a
विव्याध शकुनिं भूयः पञ्चभिर्नतपर्वभिः ॥ 035c
अताडयदुलूकं च त्रिभिरेव तथा शरैः । 036a
उलूकं पुनराजघ्ने त्रिभिरेव महायशाः ॥ 036c
स तु तेन समाविद्धः क्रोधाद्द्विगुणविक्रमः । 037a
शरैरनेकसाहस्रैः सोऽर्जुनं प्रत्यविध्यत ॥ 037c
तमुलूकस्तथा विद्धा वासुदेवमताडयत् । 038a
ननाद च महानादं पूरयन्निव मेदिनीम् ॥ 038c
अर्जुनः शकुनेश्चापं सायकैरच्छिनद्रणे । 039a
निन्ये च चतुरो वाहान्यमस्य सदनं प्रति ॥ 039c
ततो रथादवप्लुत्य सौबलो भरतर्षभ । 040a
उलूकस्य रथं तूर्णमारुरोह विशाम्पते ॥ 040c
तावेकरथमारूढौ पितापुत्रौ महारथौ । 041a
पार्थं सिषिचतुर्बाणैर्गिरिं मेघाविवाम्बुभिः ॥ 041c
तौ तु विद्ध्वा महाराज पाण्डवो निशितैः शरैः । 042a
विद्रावयंस्तव चमूं शतशो व्यधमच्छरैः ॥ 042c
अनिलेन यथाऽभ्राणि विच्छिन्नानि समन्ततः । 043a
विच्छिन्नानि तथा राजन्बलान्यासन्विशाम्पते ॥ 043c
तद्बलं भरतश्रेष्ठ वध्यमानं तदा निशि । 044a
प्रदुद्राव दिशः सर्वा वीक्षमाणं भयार्दितम् ॥ 044c
उत्सृज्य वाहान्समरे चोदयन्तस्तथाऽपरे । 045a
सम्भ्रान्ताः पर्यधावन्त तस्मिंस्तमसि दारुणे ॥ 045c
विजित्य समरे योधांस्तावकान्भरतर्षभ । 046a
दध्मतुर्मुदितौ शङ्खौ वासुदेवधनञ्जयौ ॥ 046c
धृष्टद्युम्नो महाराज द्रोणं विद्ध्वा त्रिभिः शरैः । 047a
चिच्छेद धनुषस्तूर्णं ज्यां शरेण शितेन ह ॥ 047c
तन्निधाय धनुर्भूमौ द्रोणः क्षत्रियमर्दनः । 048a
आददेऽन्यद्धनुः शूरो वेगवत्सारवत्तरम् ॥ 048c
धृष्टद्युम्नं ततो द्रोणो विद्ध्वा सप्तभिराशुगैः । 049a
सारथिं पञ्चभिर्बाणै राजन्विव्याध संयुगे ॥ 049c
तं निवार्य शरैस्तूर्णं धृष्टद्युम्नो महारथः । 050a
व्यधमत्कौरवीं सेनामासुरीं मघवानिव ॥ 050c
वध्यमाने बले तस्मिंस्तव पुत्रस्य मारिष । 051a
प्रावर्तत नदी घोरा शोणितौघतरङ्गिणी ॥ 051c
उभयोः सेनयोर्मध्ये नराधद्विपवाहिनी । 052a
तथा वैतरणी राजन्यमराजुपुरं प्रति ॥ 052c
द्रावयित्वा तु तत्सैन्यं धृष्टद्युम्नः प्रतापवान् । 053a
अभ्यराजत तेजस्वी शक्रो देवगणेष्विव ॥ 053c
अथ दध्मुर्महाशङ्खान्धृष्टद्युम्नशिखण्डिनौ । 054a
यमौ च युयुधानश्च पाण्डवश्च वृकोदरः ॥ 054c
जित्वा रथसहस्राणि तावकानां महारथाः । 055a
सिंहनादरवांश्चक्रुः पाण्डवा जितकाशिनः ॥ 055c
पश्यतस्तव पुत्रस्य कर्णस्य च रणोत्कटाः । 056a
तथा द्रोणस्य शूरस्य द्रौणेश्चैव विशाम्पते ॥ ॥ 056c
इति श्रीमन्महाभारते द्रोणपर्वणि घटोत्कचवधपर्वणि चतुर्दशरात्रियुद्धे द्विसप्तत्यधिकशततमोऽध्यायः ॥ 172 ॥