श्रीः अध्यायः 170 नकुलकृपाभ्यां शकुनिशिखण्डिपराजयः ॥ 1 ॥ सञ्जय उवाच 001
नकुलं रभसं युद्धे निघ्नन्तं वाहिनीं तव । 001a
अभ्ययात्सौबलः क्रुद्धस्तिष्ठतिष्ठेति चाब्रवीत् ॥ 001c
कृतवैरौ तु तौ वीरावन्योन्यवधकाङ्क्षिणौ । 002a
शरैः पूर्णायतोत्सृष्टैरन्योन्यमभिजघ्नतुः ॥ 002c
यथैव नकुलो राजञ्शरवर्षाण्यमुञ्चत । 003a
तथैव सौबलश्चापि शिक्षां सन्दर्शयन्युधि ॥ 003c
तावुभौ समरे शूरौ शरकण्टकिनौ तदा । 004a
व्यराजेतां महाराज श्वाविधौ शललैरिव ॥ 004c
रुक्मपुङ्खैरजिह्माग्रैः शरैश्छिन्नतनुच्छदौ । 005a
रुधिरौघपरिक्लिन्नौ व्यभ्राजेतां महामृधे ॥ 005c
तपनीयनिभौ चित्रो कल्पवृक्षाविव द्रुमौ । 006a
किंशुकाविव चोत्फुल्लौ प्रकाशेते रणाजिरे ॥ 006c
तावुभौ समरे शूरौ शरकण्टकिनौ तदा । 007a
व्यराजेतां महाराज कण्टकैरिव शाल्मली ॥ 007c
सुजिह्मं प्रेक्षमाणौ च राजन्विवृतलोचनौ । 008a
क्रोधसंरक्तनयनौ निर्दहन्तौ परस्परम् ॥ 008c
श्यालस्तु तव सङ्क्रुद्धो माद्रीपुत्रं हसन्निव । 009a
कर्णिनैकेन विव्याध हृदये निशितेन ह ॥ 009c
नकुलस्तु भृशं विद्धः श्यालेन तव धन्विना । 010a
निषसाद रथोपस्थे कश्मलं चाविशन्महत् ॥ 010c
अत्यन्तवैरिणं दृप्तं दृष्ट्वा शत्रुं तथाऽऽगतम् । 011a
ननाद शकुनी राजंस्तपान्ते जलदो यथा ॥ 011c
प्रतिलभ्य ततः सञ्ज्ञां नकुलः पाण्डुनन्दनः । 012a
अभ्ययात्सौबलं भूयो व्यात्तानन इवान्तकः ॥ 012c
सङ्क्रुद्धः शकुनिं षष्ट्या विव्याध भरतर्षभ । 013a
पुनश्चैनं शतेनैव नाराचानां स्तनान्तरे ॥ 013c
अथास्य सशरं चापं मुष्टिदेशेऽच्छिनत्तदा । 014a
ध्वजं च त्वरितं छित्त्वा रथाद्भूमावपातयत् ॥ 014c
विशिखेन च तीक्ष्णेन पीतेन निशितेन च । 015a
ऊरू निर्भिद्य चैकेन नकुलः पाण्डुनन्दनः । 015c
श्येनं सपक्षं व्याधेन पातयामास तं तदा ॥ 015e
सोऽतिविद्धो महाराज रथोपस्थ उपाविशत् । 016a
ध्वजयष्टिं परिक्लिश्य कामुकः कामिनीं यथा ॥ 016c
तं विसञ्ज्ञं निपतितं दृष्ट्वा श्यालं तवानघ । 017a
अपोवाह रथेनाशु सारथिर्ध्वजिनीमुखात् ॥ 017c
ततः सञ्चुक्रुशुः पार्था ये च तेषां पदानुगाः ॥ 018ac
निर्जित्य च रणे शत्रुं नकुलः शत्रुतापनः । 019a
अब्रवीत्सारथिं क्रुद्धो द्रोणानीकाय मां वह ॥ 019c
तस्य तद्वचनं श्रुत्वा माद्रीपुत्रस्य सारथिः । 020a
प्रायात्तेन तदा राजन्यत्र द्रोणो व्यवस्थितः ॥ 020c
शिखण्डिनं तु समरे द्रोणप्रेप्सुं विशाम्पते । 021a
कृपः शारद्वतो यत्तः प्रत्यगच्छत्स वेगितः ॥ 021c
गौतमं द्रुतमायान्तं द्रोणानीकमरिन्दमम् । 022a
विव्याध नवभिर्भल्लैः शिखण्डी प्रहसन्निव ॥ 022c
तमाचार्यो महाराज विद्ध्वा पञ्चभिराशुगैः | 023a
पुनर्विव्याध विंशत्या पुत्राणां प्रियकृत्तव ॥ 023c
महद्युद्धं तयोरासीद्घोररूपं भयानकम् | 024a
यथा देवासुरे युद्धे शम्बरामरराजयोः ॥ 024c
शरजालावृतं व्योम चक्रतुस्तौ महारथौ । 025a
मेघाविव तपापाये वीरौ समरदुर्मदौ । 025c
प्रकृत्या घोररूपं तदासीद्घोरतरं पुनः ॥ 025e
रात्रिश्च भरतश्रेष्ठ योधानां युद्धशालिनाम् । 026a
कालरात्रिनिभा ह्यासीद्घोररूपा भयानका ॥ 026c
शिखण्डी तु महाराज गौतमस्य महद्धनुः । 027a
अर्धचन्द्रेण चिच्छेद सज्यं सविशिखं तदा ॥ 027c
तस्य क्रुद्धः कृपो राजञ्शक्तिं चिक्षेप दारुणाम् । 028a
स्वर्णदण्डामकुण्ठाग्रां कर्मारपरिमार्जिताम् ॥ 028c
तामापतन्तीं चिच्छेद शिखण्डी बहुभिः शरैः । 029a
सापतन्मेदिनीं कृत्ता भासयन्ती महाप्रभा ॥ 029c
अथान्यद्धनुरादाय गौतमो रथिनां वरः । 030a
प्राच्छादयच्छितैर्बाणैर्महाराज शिखण्डिनम् ॥ 030c
स च्छाद्यमानः समरे गौतमेन यशस्विना । 031a
न्यषीदत रथोपस्थे शिखण्डी रथिनां वरः ॥ 031c
सीदन्तं चैनमालोक्य कृपः शारद्वतो युधि । 032a
आजघ्ने बहुभिर्बाणैर्जिघांसन्निव भारत ॥ 032c
विमुखं तु रणे दृष्ट्वा याज्ञसेनिं महारथम् । 033a
पाञ्चालाः सोमकाश्चैव परिवव्रुः समन्ततः ॥ 033c
तथैव तव पुत्राश्च परिवव्रुर्द्विजोत्तमम् । 034a
महत्या सेनया सार्धं ततो युद्धमवर्तत ॥ 034c
रथानां च रणे राजन्नन्योन्यमभिधावताम् । 035a
बभूव तुमुलः शब्दो मेघानां गर्जतामिव ॥ 035c
द्रवतां सादिनां चैव गजानां च विशाम्पते । 036a
अन्योन्यमभितो राजन्क्रूरमायोधनं बभौ ॥ 036c
पत्तीनां द्रवतां चैव पादशब्देन मेदिनी । 037a
अकम्पत महाराज भयत्रस्तेव चाङ्गना ॥ 037c
रथिनो रथमारुह्य प्रद्रुता वेगवत्तरम् । 038a
अगृह्णन्बहवो राजञ्शलभान्वायसा इव ॥ 038c
तथा गजान्प्रभिन्नांश्च सम्प्रभिन्ना महागजाः । 039a
तस्मिन्नेव पदे यत्ता निगृह्णन्ति स्म भारत ॥ 039c
सादी सादिनमासाद्य पत्तयश्च पदातिनम् । 040a
समासाद्य रणेऽन्योन्यं संरब्धा नातिचक्रमुः ॥ 040c
धावतां द्रवतां चैव पुनरावर्ततामपि । 041a
बभूव तत्र सैन्यानां शब्दः सुविपुलो निशि ॥ 041c
दीप्यमानाः प्रदीपाश्च रथवारणवाजिषु । 042a
अदृश्यन्त महाराज महोल्का इव खाच्च्युताः ॥ 042c
सा निशा भरतश्रेष्ठ प्रदीपैरवभासिता । 043a
दिवसप्रतिमा राजन्बभूव रणमूर्धनि ॥ 043c
आदित्येन यथा व्याप्तं तमो लोके प्रणश्यति । 044a
तथा नष्टं तमो घोरं दीपैर्दीप्तैरितस्ततः ॥ 044c
दिवं च पृथिवीं चैव दिशश्च प्रदिशस्तथा । 045a
रजसा तमसा व्याप्ता द्योतिताः प्रभया पुनः ॥ 045c
अस्त्राणां कवचानां च मणीनां च महात्मनाम् । 046a
अन्तर्दधुः प्रभाः सर्वा दीपैस्तैरवभासिताः ॥ 046c
तस्मिन्कोलाहले युद्धे वर्तमाने निशामुखे । 047a
न किञ्चिद्विदुरात्मानमयमस्मीति भारत ॥ 047c
अवधीत्समरे पुत्रं पिता भरतसत्तम । 048a
पुत्रश्च पितरं मोहात्सखायं च सखा तथा । 048c
स्वस्रीयं मातुलश्चापि स्वस्रीयश्चापि मातुलम् ॥ 048e
स्वे स्वान्परे परांश्चापि निजघ्नुरितरेतरम् । 049a
निर्मर्यादमभूद्युद्धं रात्रौ भीरुभयानकम् ॥ ॥ 049c

इति श्रीमन्महाभारते द्रोणपर्वणि घटोत्कचवधपर्वणि चतुर्दशरात्रियुद्धे सप्तत्यधिकशततमोऽध्यायः ॥ 170 ॥

5-169-15 ऊरू इति । मण्डलं चरतः शकुनेर्द्वावूरू एकेनैव बाणेन बिभेद यथा खे श्येनां पक्षाभ्यां सहितं वामदक्षिणगामिनं पातयेदेवमिति लुप्तोपमा । व्याधेन बाणेन । विध्यत्यनेनेति व्याधो बाणः ॥ 5-170-16 परिक्लिश्य क्लेशेन ध्वजयष्टिं श्रित इति शेषः ॥ 5-170-38 प्रद्रुता रथिनो वेगवत्तरं रथमारुह्य तत्पतिमगृह्णन् ॥ सप्तत्यधिकशततमोऽध्यायः ॥