श्रीः
अध्यायः 169
सङ्कुलयुद्धम् ॥ 1 ॥
सञ्जय उवाच 001
शतानीकं शरैस्तूर्णं निर्दहन्तं चमूं तव । 001a
चित्रसेनस्तव सुतो वारयामास भारत ॥ 001c
नाकुलिश्चित्रसेनं तु विद्ध्वा पञ्चभिराशुगैः । 002a
स तु तं प्रतिविव्याध दशभिर्निशितैः शरैः ॥ 002c
चित्रसेनो महाराज शतानीकं पुनर्युधि । 003a
नवभिर्निशितैर्बाणैराजघान स्तनान्तरे ॥ 003c
नाकुलिस्तस्य विशिखैर्वर्म सन्नतपर्वभिः । 004a
गात्रात्सञ्च्यावयामास तदद्भुतमिवाभवत् ॥ 004c
सोपेतवर्मा पुत्रस्ते विरराज भृशं नृप । 005a
उत्सृज्य काले राजेन्द्र निर्मोकमिव पन्नगः ॥ 005c
ततोऽस्य निशितैर्बाणैर्ध्वजं चिच्छेद नाकुलिः । 006a
धनुश्चैव महाराज यतमानस्य संयुगे ॥ 006c
स च्छिन्नधन्वा समरे विवर्मा च महारथः । 007a
धनुरन्यन्महाराज जग्राहारिविदारणम् ॥ 007c
ततस्तूर्णं चित्रसेनो नाकुलिं नवभिः शरैः । 008a
विव्याध समरे क्रुद्धो भरतानां महारथः ॥ 008c
शतानीकोऽथ सङ्क्रुद्धश्चित्रसेनस्य मारिष । 009a
जघान चतुरो वाहान्सारथिं च नरोत्तमः ॥ 009c
अवप्लुत्य रथात्तस्माच्चित्रसेनो महारथः । 010a
नाकुलिं पञ्चविंशत्या शराणामार्दयद्बली ॥ 010c
तस्य तत्कुर्वतः कर्म नकुलस्य सुतो रणे । 011a
अर्धचन्द्रेण चिच्छेद चापं रत्नविभूषितम् ॥ 011c
स च्छिन्नधन्वा विरथो हताश्वो हतसारथिः । 012a
आरुरोह रथं तूर्णं हार्दिक्यस्य महात्मनः ॥ 012c
द्रुपदं तु सहानीकं द्रोणप्रेप्सुं महारथम् । 013a
वृषसेनोऽभ्ययात्तूर्णं किरञ्शरशतैस्तदा ॥ 013c
यज्ञसेनस्तु समरे कर्णपुत्रं महारथम् । 014a
षष्ट्या शराणां विव्याध बाह्वोरुरसि चानघ ॥ 014c
वृषसेनस्तु सङ्क्रुद्धो यज्ञसेनं रथे स्थितम् । 015a
बहुभिः सायकैस्तीक्ष्णैराजघान स्तनान्तरे ॥ 015c
तावुभौ शरनुन्नाङ्गौ शरकण्टकितौ रणे । 016a
व्यभ्राजेतां महाराज श्वाविधौ शललैरिव ॥ 016c
रुक्मपुङ्खैः प्रसन्नाग्रैः शरैश्छिन्नतनुच्छदौ । 017a
रुधिरौघपरिक्लिन्नौ व्यभ्राजेतां महामृधे ॥ 017c
तपनीयनिभौ चित्रौ कल्पवृक्षाविवाद्भुतौ । 018a
किंशुकाविव चोत्फुल्लौ व्यकाशेतां रणाजिरे ॥ 018c
वृषसेनस्ततो राजन्द्रुपदं नवभिः शरैः । 019a
विद्ध्वा विव्याध सप्तत्या पुनरन्यैस्त्रिभिस्त्रिभिः ॥ 019c
ततः शरसहस्राणि विमुञ्चन्विबभौ तदा । 020a
कर्णपुत्रो महाराज वर्षमाण इवाम्बुदः ॥ 020c
[द्रुपदस्तु ततः क्रुद्धो वृषसेनस्य कार्मुकम् । 021a
द्विधा चिच्छेद भल्लेन पीतेन निशितेन च ॥ 021c
सोऽन्यत्कार्मुकमादाय रुक्मबद्धं नवं दृढम् । 022a
तूणादाकृष्य विमलं भल्लं पीतं शितं दृढम् ॥ 022c
कार्मुके योजयित्वा तं द्रुपदं सन्निरीक्ष्य च । 023a
आकर्णपूर्णं मुमुचे त्रासयन्सर्वसोमकान् ॥ 023c
हृदयं तस्य भित्त्वा च जगाम वसुधातलम् । 024a
कश्मलं प्राविशद्राजा वृषसेनशराहतः ॥ 024c
सारथिस्तमपोवाह स्मरन्सारथिचेष्टितम् । 025a
तस्मिन्प्रभग्ने राजेन्द्र पाञ्चालानां महारथे ॥] 025c
ततस्तु द्रुपदानीकं शरैश्छिन्नतनुच्छदम् । 026a
सम्प्राद्रवद्रणाद्राजन्निशीथे भैरवे सति ॥ 026c
प्रदीपैरपरित्यक्तैर्ज्वलद्भिस्तैः समन्ततः । 027a
व्यराजद्वसुधा तत्र वीताभ्रा द्यौरिव ग्रहैः ॥ 027c
तथाङ्गदैर्निपतितैर्व्यराजत वसुन्धरा । 028a
प्रावृट्काले महाराज विद्युद्भिरिव तोयदः ॥ 028c
ततः कर्णसुतात्त्रस्ताः सोमका विप्रदुद्रुवुः । 029a
यथेन्द्रभयवित्रस्ता दानवास्तारकामये ॥ 029c
तेनार्द्यमानाः समरे द्रवमाणाश्च सोमकाः । 030a
व्यराजन्त महाराज प्रदीपैरवभासिताः ॥ 030c
तांस्तु निर्जित्य समरे कर्णपुत्रो व्यरोचत । 031a
मध्यन्दिनमनुप्राप्तो घर्मांशुरिव भारत ॥ 031c
तेषु राजसहस्रेषु तावकेषु परेषु च । 032a
एक एव ज्वलंस्तस्थौ वृषसेनः प्रतापवान् ॥ 032c
स विजित्य रणे शूरान्सोमकानां महारथान् । 033a
जगाम त्वरितस्तत्र यत्र राजा युधिष्ठिरः ॥ 033c
प्रतिविन्ध्यमथ क्रुद्धं प्रदहन्तं रणे रिपून् । 034a
दुःशासनस्तव सुतः प्रत्यगच्छन्महारथः ॥ 034c
तयोः समागमो राजंश्चित्ररूपो बभूव ह । 035a
व्यपेतजलदे व्योम्नि बुधभास्करयोरिव ॥ 035c
प्रतिविन्ध्यं तु समरे कुर्वाणं कर्म दुष्करम् । 036a
'अपूजयन्महाराज तव सैन्ये महारथाः ।' 036c
दुःशासनस्त्रिभिर्बाणैर्ललाटे समविध्यत ॥ 036e
सोऽतिविद्धो बलवता तव पुत्रेण धन्विना । 037a
विरराज महाबाहुः सशृङ्ग इव पर्वतः ॥ 037c
दुःशासनं तु समरे प्रतिविन्ध्यो महारथः । 038a
नवभिः सायकैर्विद्ध्वा पुनर्विव्याध सप्तभिः ॥ 038c
तत्र भारत पुत्रस्ते कृतवान्कर्म दुष्करम् । 039a
प्रतिविन्ध्यहयानुग्रैः पातयामास सायकैः ॥ 039c
सारथिं चास्य भल्लेन ध्वजं च समपातयत् । 040a
रथं च तिलशो राजन्व्यधमत्तस्य धन्विनः ॥ 040c
पताकाश्च सतूणीरा रश्मीन्योक्त्राणि च प्रभो । 041a
चिच्छेद तिलशः क्रुद्धःशरैः सन्नतपर्वभिः ॥ 041c
विरथः स तु धर्मात्मा धनुष्पाणिरवस्थितः । 042a
अयोधयत्तव सुतं किरञ्शरशतान्बहून् ॥ 042c
क्षुरप्रेण धनुस्तस्य चिच्छेद तनयस्तव । 043a
अथैनं दशभिर्बाणेश्छिन्नधन्वानमार्दयत् ॥ 043c
तं दृष्ट्वा विरथं तत्र भ्रातरोऽस्य महारथाः । 044a
अन्ववर्तन्त सङ्ग्रामे महत्या सेनया सह ॥ 044c
आप्लुतः स ततो यानं सुतसोमस्य भास्वरम् । 045a
धनुर्गृह्य महाराज विव्याध तनयं तव ॥ 045c
ततस्तु तावकाः सर्वे परिवार्य सुतं तव । 046a
अभ्यवर्तन्त वेगेन महत्या सेनया वृताः ॥ 046c
ततः प्रववृते युद्धं तव तेषां च भारत । 047a
निशीथे दारुणे काले यमराष्ट्रविवर्धनम् ॥ ॥ 047c
इति श्रीमन्महाभारते द्रोणपर्वणि घटोत्कचवधपर्वणि चतुर्दशरात्रियुद्धे एकोनसप्तत्यधिकशततमोऽध्यायः ॥ 169 ॥
5-169-20 कुण्डलिताः पञ्च श्लोकाः घ.ङ.झ.पुस्तकेष्वेव सन्ति ॥