श्रीः
अध्यायः 168
कर्णेन सहदेवस्य पराजयपूर्वकमवहेलनम् ॥ 1 ॥ शल्येन विराटपराजयः ॥ 2 ॥ अर्जुनेनालायुधपराजयः ॥ 3 ॥
सञ्जय उवाच 001
सहदेवमथायान्तं द्रोणप्रेप्सुं विशाम्पते । 001a
कर्णो वैकर्तनो युद्धे वारयामास भारत ॥ 001c
सहदेवस्तु राधेयं विद्ध्वा नवभिराशुगैः । 002a
पुनर्विव्याध दशभिर्विशिखैर्नतपर्वभिः ॥ 002c
तं कर्णः प्रतिविव्याध शतेन नतपर्वणाम् । 003a
सज्यं चास्य धनुः शीघ्रं चिच्छेद लघुहस्तवत् ॥ 003c
ततोऽन्यद्धनुरादाय माद्रीपुत्रः प्रतापवान् । 004a
कर्णं विव्याध विंशत्या तदद्भुतमिवाभवत् ॥ 004c
तस्य कर्णो हयान्हत्वा शरैः सन्नतपर्वभिः । 005a
सारथिं चास्य भल्लेन द्रुतं निन्ये यमक्षयम् ॥ 005c
विरथः सहदेवस्तु खड्गं चर्म समाददे । 006a
तदप्यस्य शरैः कर्णो व्यधमत्प्रहसन्निव ॥ 006c
अथ गुर्वीं महाघोरां हेमचित्रां महागदाम् । 007a
प्रेषयामास सङ्क्रुद्धो वैकर्तनरथं प्रति ॥ 007c
तामापतन्तीं सहसा सहदेवप्रचोदिताम् । 008a
व्यष्टम्भयच्छरैः कर्णो भूमौ चैनामपातयत् ॥ 008c
गदां विनिहतां दृष्ट्वा सहदेवस्त्वरान्वितः । 009a
शक्तिं चिक्षेप कर्णाय तामप्यस्याच्छिनच्छरैः ॥ 009c
ससम्भ्रमं ततस्तूर्णमवप्लुत्य रथोत्तमात् । 010a
सहदेवो महाराज दृष्ट्वा कर्णं व्यवस्थितम् ॥ 010c
रथचक्रं प्रगृह्याजौ मुमोचाधिरथं प्रति । 011a
तदापतद्वै सहसा कालचक्रमिवोद्यतम् । 011c
शरैरनेकसाहस्रैराच्छिनत्सूतनन्दनः ॥ 011e
तस्मिंस्तु निहते चक्रे सूतजेन महात्मना । 012a
ईषादण्डकयोक्त्रांश्च युगानि विविधानि च ॥ 012c
हस्त्यङ्गानि तथाश्वांश्च मृतांश्च पुरुषान्बहून् । 013a
चिक्षेप कर्णमुद्दिश्य कर्णस्तान्व्यधमच्छरैः ॥ 013c
स निरायुधमात्मानं ज्ञात्वा माद्रवतीसुतः । 014a
वार्यमाणस्तु विशिखैः सहदेवो रणं जहौ ॥ 014c
तमभिद्रुत्य राधेयो मुहूर्ताद्भरतर्षभ । 015a
अब्रवीत्प्रहसन्वाक्यं सहदेवं विशाम्पते ॥ 015c
मा युध्यस्व रणेऽधीर विशिष्टै रथिभिः सह । 016a
सदृशैर्युध्य माद्रेय वचो मे मा विशङ्किथाः ॥ 016c
अथैनं धनुषोग्रेण तुदन्भूयोऽब्रवीद्वचः ॥ 017ac
एषोऽर्जुनो रणे तूर्णं युध्यते कुरुभिः सह । 018a
तत्र गच्छस्व माद्रेय गृहं वा यदि मन्यसे ॥ 018c
एवमुक्त्वा तु तं कर्णो रथेन रथिनां वरः । 019a
प्रायात्पाञ्चालपाण्डूनां सैन्यानि प्रदहन्निव ॥ 019c
वधं प्राप्तं तु माद्रेयं नावधीत्समरेऽरिहा । 020a
कुन्त्याःस्मृत्वा वचो राजन्सत्यसन्धो महायशाः ॥ 020c
सहदेवस्ततो राजन्विमनाः शरपीडितः । 021a
कर्णवाक्शरतप्तश्च जीवितान्निरविद्यत ॥ 021c
आरुरोह रथं चापि पाञ्चाल्यस्य महात्मनः । 022a
जनमेजयस्य समरे त्वरायुक्तो महारथः ॥ 022c
विराटं सहसेनं तु द्रोणार्थे द्रुतमागतम् । 023a
मद्रराजः शरौघेण च्छादयामास धन्विनम् ॥ 023c
तयोः समभवद्युद्धं समरे दृढधन्विनोः । 024a
यादृशं ह्यभवद्राजञ्जम्भवासवयोः पुरा ॥ 024c
मद्रराजो महाराज विराटं वाहिनीपतिम् । 025a
आजघ्ने त्वरितस्तूर्णं शतेन नतपर्वणाम् ॥ 025c
प्रतिविव्याध तं राजन्नवभिर्निशितैः शरैः । 026a
पुनश्चैनं त्रिसप्तत्या भूयश्चैव शतेन तु ॥ 026c
तस्य मद्राधिपो हत्वा चतुरो रथवाजिनः । 027a
सूतं ध्वजं च समरे शराभ्यां सन्न्यपातयत् ॥ 027c
हताश्वात्तु रथात्तूर्णमवप्लुत्य महारथः । 028a
तस्थौ विष्फारयंश्चापं विमुञ्चंश्च शिताञ्छरान् ॥ 028c
शतानीकस्ततो दृष्ट्वा भ्रातरं हतवाहनम् । 029a
रथेनाभ्यपतत्तूर्णं सर्वलोकस्य पश्यतः ॥ 029c
शतानीकमथायान्तं मद्राराजो महामृधे । 030a
विशिखैर्बहुभिर्विद्ध्वा ततो निन्ये यमक्षयम् ॥ 030c
तस्मिंस्तु निहते वीरे विराटो रथसत्तमः । 031a
आरुरोह रथं तूर्णं तमेव ध्वजमालिनम् ॥ 031c
ततो विष्फार्य नयने क्रोधाद्द्विगुणविक्रमः । 032a
मद्रराजरथं तूर्णं छादयामास पत्रिभिः ॥ 032c
ततो मद्राधिपः क्रुद्धः शरेणानतपर्वणा । 033a
आजघानोरसि दृढं विराटं वाहिनीपतिम् ॥ 033c
सोऽतिविद्धो महाराज रथोपस्थ उपाविशत् । 034a
कश्मलं चाविशत्तीव्रं विराटो भरतर्षभ । 034c
सारथिस्तमपोवाह समरे शरविक्षतम् ॥ 034e
ततः सा महती सेना प्राद्रवन्निशि भारत । 035a
वध्यमाना शरशतैः शल्येनाहवशोभिना ॥ 035c
तां दृष्ट्वा विद्रुतां सेनां वासुदेवधनञ्जयौ । 036a
प्रयातौ तत्र राजेन्द्र यत्र शल्यो व्यवस्थितः ॥ 036c
तौ तु प्रत्युद्ययौ राजन्राक्षसेन्द्रो ह्यलायुधः । 037a
अष्टचक्रसमायुक्तमास्थाय प्रवरं रथम् ॥ 037c
तुरङ्गममुखैर्युक्तं पिशाचैर्घोरदर्शनैः । 038a
लोहितार्द्रपताकं तं रक्तमाल्यविभूषितम् । 038c
कार्ष्णायसमयं घोरमृक्षचर्मसमावृतम् ॥ 038e
रौद्रेण चित्रपक्षेण विवृताक्षेण कूजता । 039a
ध्वजेनोच्छ्रितदण्डेन गृध्रराजेन राजता । 039c
स बभौ राक्षसो राजन्भिन्नाञ्जनचयोपमः ॥ 039e
रुरोधार्जुनमायान्तं प्रभञ्जनमिवाद्रिराट् । 040a
किरन्बाणगणान्राजञ्शतशोऽर्जुनमूर्धनि ॥ 040c
अतितीव्रं महाद्युद्धं नरराक्षसयोस्तदा । 041a
द्रष्टॄणां प्रीतिजननं सर्वेषां तत्र भारत । 041c
गृध्रकाकबलोलूककङ्कगोमायुहर्षणम् ॥ 041e
तमर्जुनः शतेनैव पत्रिणां समताडयत् । 042a
नवभिश्च शितैर्बाणैर्ध्वजं चिच्छेद भारत ॥ 042c
सारथिं च त्रिभिर्बाणैस्त्रिभिरेव त्रिवेणुकम् । 043a
धनुरेकेन चिच्छेद चतुर्भिश्चतुरो हयान् ॥ 043c
पुनः सज्यं कृतं चापं तदप्यस्य द्विधाऽच्छिनत् । 044a
विरथस्योद्यतं खड्गं शरेणास्य द्विधाऽकरोत् ॥ 044c
अथैनं निशितैर्बाणैश्चतुर्भिर्भरतर्षभ । 045a
पार्थोऽविध्यद्राक्षसेन्द्रं स विद्धः प्राद्रवद्भयात् ॥ 045c
तं विजित्यार्जुनस्तूर्णं द्रोणान्तिकमुपाययौ । 046a
किरञ्शरगणान्राजन्नरवारणवाजिषु ॥ 046c
वध्यमाना महाराज पाण्डवेन यशस्विना । 047a
सैनिका न्यपतन्नुर्व्यां वातनुन्ना इव द्रुमाः ॥ 047c
तेषु तूत्साद्यमानेषु फल्गुनेन महात्मना । 048a
सम्प्राद्रवद्बलं सर्वं पुत्राणां ते विशाम्पते ॥ ॥ 048c
इति श्रीमन्महाभारते द्रोणपर्वणि घटोत्कचवधपर्वणि चतुर्दशरात्रियुद्धे अष्टषष्ट्यधिकशततमोऽध्यायः ॥ 168 ॥