श्रीः
अध्यायः 167
सात्यकिना भूरिनाम्नो राज्ञो वधः ॥ 1 ॥ द्रौणिना घटोत्कचपराजयः ॥ 2 ॥ भीमेन दुर्योधनपराभवः ॥ 3 ॥
सञ्जय उवाच 001
भूरिस्तु समरे राजञ्शैनेयं रथिनां वरम् । 001a
आपतन्तमपासेधत्प्रयाणादिव कुञ्जरम् ॥ 001c
अथैनं सात्यकिः क्रुद्धः पञ्चभिर्निशितैः शरैः । 002a
विव्याध हृदये तस्य प्रास्रवत्तस्य शोणितम् ॥ 002c
तथैव कौरवो युद्धे शैनेयं युद्धदुर्मदम् । 003a
दशिभिर्निशितैस्तीक्ष्णैरविध्यत भुजान्तरे ॥ 003c
तावन्योन्यं महाराज ततक्षाते शरैर्भृशम् । 004a
क्रोधसंरक्तनयनौ क्रोधाद्विष्फार्य कार्मुके ॥ 004c
तयोरासीन्महाराज शस्त्रवृष्टिः सुदारुणा । 005a
क्रुद्धयोः सायकमुचोर्यमान्तकनिकाशयोः ॥ 005c
तावन्योन्यं शरैः राजन्सञ्छाद्य समवस्थितौ । 006a
मुहूर्तं चैव तद्युद्धं समरूपमिवाभवत् ॥ 006c
ततः क्रुद्धो महाराज शैनेयः प्रहसन्निव । 007a
धनुश्चिच्छेद समरे कौरव्यस्य महात्मनः ॥ 007c
अथैनं छिन्नधन्वानं नवभिर्निशितैः शरैः । 008a
विव्याध हृदये तूर्णं तिष्ठतिष्ठेति चाब्रवीत् ॥ 008c
सोऽतिविद्धो बलवता शत्रुणा शत्रुतापनः । 009a
धनुरन्यत्समादाय सात्वतं प्रत्यविध्यत ॥ 009c
स विद्ध्वा सात्वतं बाणैस्त्रिभिरेव विशाम्पते । 010a
धनुश्चिच्छेद भल्लेन सुतीक्ष्णेन हसन्निव ॥ 010c
छिन्नधन्वा महाराज सात्यकिः क्रोधमूर्च्छितः । 011a
प्रजहार महावेगां शक्तिं तस्य महोरसि ॥ 011c
स तु शक्त्या विभिन्नाङ्गो निपपात रथोत्तमात् । 012a
लोहिताङ्ग इवाकाशाद्दीप्तरश्मिर्यदृच्छया ॥ 012c
तं तु दृष्ट्वा हतं शूरमश्वत्थामा महारथः । 013a
अभ्यधावत वेगेन शैनेयं प्रति संयुगे ॥ 013c
तिष्ठतिष्ठेति चाभाष्य शैनेयं स नराधिप । 014a
अभ्यवर्षच्छरौघेण मेरुं वृष्ट्या यथाम्बुदः ॥ 014c
तमापतन्तं संरब्धं शैनेयस्य रथं प्रति । 015a
घटोत्कचोऽब्रवीद्राजन्नादं मुक्त्वा महारथः ॥ 015c
तिष्ठतिष्ठ न मे जीवन्द्रोणपुत्र गमिष्यसि । 016a
एष त्वां निहनिष्यामि महिषं मृगराडिव ॥ 016c
युद्धश्रद्धामहं तेऽद्य विनेष्यामि रणाजिरे । 017a
इत्युक्त्वा क्रोधताम्राक्षो राक्षसः परवीरहा । 017c
द्रोणिमभ्यद्रवत्क्रुद्धो गजेन्द्रमिव केसरी ॥ 017e
रथाक्षमात्रैरिषुभिरभ्यवर्षद्घटोत्कचः । 018a
रथिनामृषभं द्रौणिं धाराभिरिव तोयदः ॥ 018c
शरवृष्टिं तु तां प्राप्तां शरैराशीविषोपमैः । 019a
शातयामास समरे तरसा द्रौणिरुत्स्मयन् ॥ 019c
ततः शरशतैस्तीक्ष्णैर्मर्मभेदिभिराशुगैः । 020a
समाचिनोद्राक्षसेन्द्रं घटोत्कचमरिन्दमम् ॥ 020c
स शरैराचितस्तेन राक्षसो रणमूर्धनि । 021a
व्यकाशत महाराज श्वाविच्छललतो यथा ॥ 021c
ततः क्रोधसमाविष्टो भैमसेनिः प्रतापवान् । 022a
शरैरवचकर्तोग्रैर्द्रौणिं वज्राशनिप्रभैः ॥ 022c
क्षुरप्रैरर्धचन्द्रैश्च नाराचैः सशिलीमुखैः । 023a
वराहकर्णैर्नालीकैर्विकर्णैश्चाभ्यवीवृषत् ॥ 023c
तां शस्त्रवृष्टिमतुलां वज्राशनिसमस्वनाम् । 024a
पतन्तीमुपरि क्रुद्धो द्रौणिरव्यथितेन्द्रियः ॥ 024c
सुदुःसहां शरैर्घोरैर्दिव्यास्त्रप्रतिमन्त्रितैः । 025a
व्यधमत्सुमहातेजा महाभ्राणीव मारुतः ॥ 025c
ततोऽन्तरिक्षे बाणानां सङ्ग्रामोऽन्य इवाभवत् । 026a
घोररूपो महाराज योधानां हर्षवर्धनः ॥ 026c
ततोऽस्त्रसङ्घर्षकृतैर्विस्फुलिङ्गैः समन्ततः । 027a
बभौ निशामुखे व्योम खद्योतैरिव संवृतम् ॥ 027c
स मार्गणगणैर्द्रौणिर्दिशः प्रच्छाद्य सर्वतः | 028a
प्रियार्थं तव पुत्राणां राक्षसं समवाकिरत् ॥ 028c
ततः प्रववृते युद्धं द्रौणिराक्षसयोर्मृधे । 029a
विगाढे रजनीमध्ये शक्रप्रह्लादयोरिव ॥ 029c
ततो घटोत्कचो बाणैर्दशभिर्द्रौणिमाहवे । 030a
जघानोरसि सङ्क्रुद्धः कालज्वलनसन्निभैः ॥ 030c
स तैरभ्यायतैर्विद्धो राक्षसेन महाबलः । 031a
चचाल समरे द्रौणिर्वातनुन्न इव द्रुमः ॥ 031c
स मोहं समरे प्राप्तो ध्वजयष्टिं समाश्रितः ॥ 032ac
ततो हाहाकृतं सैन्यं तव सर्वं जनाधिप । 033a
हतं स्म मेनिरे सर्वे द्रोणसूनुं जनाधिपाः ॥ 033c
तं तु दृष्ट्वा तथावस्थमश्वत्थामानमाहवे । 034a
पाञ्चालाः सृञ्जयाश्चैव सिंहनादं प्रचक्रिरे ॥ 034c
प्रतिलभ्य ततः सञ्ज्ञामश्वत्थामा महाबलः । 035a
धनुः प्रपीड्य वामेन करेणामित्रकर्शनः ॥ 035c
मुमोचाकर्णपूर्णेन धनुषा शरमुत्तमम् । 036a
यमदण्डोपमं घोरमुद्दिश्याशु घटोत्कचम् ॥ 036c
स भित्त्वा हृदयं तस्य राक्षसस्य शरोत्तमः । 037a
विवेश वसुधामुग्रः सपुङ्खः पृथिवीपते ॥ 037c
सोऽतिविद्धो महाराज रथोपस्थ उपाविशत् । 038a
राक्षसेन्द्रः सुबलवान्द्रौणिना रणशालिना ॥ 038c
दृष्ट्वा विमूढं हैडिम्बं सारथिस्तु रणाजिरात् । 039a
द्रौणेः सकाशात्सम्भ्रान्तस्त्वपनिन्ये त्वरान्वितः ॥ 039c
तथा तु समरे विद्ध्वा राक्षसेन्द्रं घटोत्कचम् । 040a
ननाद सुमहानादं द्रोणपुत्रो महारथः ॥ 040c
पूजितस्तव पुत्रैश्च सर्वयोधैश्च भारत । 041a
वपुषाऽतिप्रजज्वाल मध्याह्न इव भास्करः ॥ 041c
भीमसेनं तु युध्यन्तं भारद्वाजरथं प्रति । 042a
स्वयं दुर्योधनो राजा प्रत्यविध्यच्छितैः शरैः ॥ 042c
तं भीमसेनो दशभिः शरैर्विव्याध मारिष । 043a
दुर्योधनोऽपि विंशत्या शराणां प्रत्यविध्यत ॥ 043c
तौ सायकैरवच्छिन्नावदृश्येतां रणाजिरे । 044a
मेघजालसमाच्छन्नौ नभसीवेन्दुभास्करौ ॥ 044c
अथ दुर्योधनो राजा भीमं विव्याध पत्रिभिः । 045a
पञ्चभिर्भरतश्रेष्ठ तिष्ठतिष्ठेति चाब्रवीत् ॥ 045c
तस्य भीमो धनुश्छित्त्वा ध्वजं च दशभिः शरैः । 046a
विव्याध कौरवश्रेष्ठं नवत्या नतपर्वणाम् ॥ 046c
ततो दुर्योधनः क्रुद्धो धनुरन्यन्महत्तरम् । 047a
गृहीत्वा भरतश्रेष्ठो भीमसेनं शितैः शरैः । 047c
अपीडयद्रणमुखे पश्यतां सर्वधन्विनाम् ॥ 047e
तान्निहत्य शरान्भीमो दुर्योधनधनुश्च्युतान् । 048a
कौरवं पञ्चविंशत्या क्षुद्रकाणां समार्पयत् ॥ 048c
दुर्योधनस्तु सङ्क्रुद्धो भीमसेनस्य मारिष । 049a
क्षुरप्रेण धनुश्छित्त्वा दशभिः प्रत्यविध्यत ॥ 049c
अथान्यद्धनुरादाय भीमसेनो महाबलः । 050a
विव्याध नृपतिं तूर्णं सप्तभिर्निशितैः शरैः ॥ 050c
तदप्यस्य धनुः क्षिप्रं चिच्छेद लघुहस्तवत् । 051a
द्वितीयं च तृतीयं च चतुर्थं पञ्चमं तथा ॥ 051c
आत्तमात्तं महाराज भीमस्य धनुराच्छिनत् । 052a
तव पुत्रो महाराज जितकाशी मदोत्कटः ॥ 052c
स तथा भिद्यमानेषु कार्मुकेषु पुनः पुनः । 053a
शक्तिं चिक्षेप समरे सर्वपारशवीं शुभाम् ॥ 053c
मृत्योरिव स्वसारं हि दीप्तां वह्निशिखामिव । 054a
सीमन्तमिव कुर्वन्तीं नभसोऽग्निसमप्रभाम् ॥ 054c
अप्राप्तामेव तां शक्तिं त्रिधा चिच्छेद कौरवः । 055a
पश्यतः सर्वलोकस्य भीमस्य च महात्मनः ॥ 055c
ततो भीमो महाराज गदां गुर्वीं महाप्रभाम् । 056a
चिक्षेपाविध्य वेगेन दुर्योधनरथं प्रति ॥ 056c
ततः सा सहसा वाहांस्तव पुत्रस्य संयुगे । 057a
सारथिं च गदा गुर्वी ममर्दास्य रथं पुनः ॥ 057c
पुत्रस्तु तव राजेन्द्र भीमाद्भीतः प्रणश्य च । 058a
आरुरोह रथं चान्यं नन्दकस्य महात्मनः ॥ 058c
ततो भीमो हतं मत्वा तव पुत्रं महारथम् । 059a
सिंहनादं महच्चक्रे तर्जयन्निशि कौरवान् ॥ 059c
तावकाः सैनिकाश्चापि मेनिरे निहतं नृपम् । 060a
ततोऽतिचुक्रुशुः सर्वे ते हाहेति समन्ततः ॥ 060c
तेषां तु निनदं श्रुत्वा त्रस्तानां सर्वयोधिनाम् । 061a
भीमसेनस्य नादं च श्रुत्वा राजन्महात्मनः ॥ 061c
ततो युधिष्ठिरो राजा हतं मत्वा सुयोधनम् । 062a
अभ्यवर्तत वेगेन यत्र पार्थो वृकोदरः ॥ 062c
पाञ्चालाः केकया मात्स्याः सृञ्जयाश्च विशाम्पते । 063a
सर्वोद्योगेनाभिजग्मुर्द्रोणमेव युयुत्सया ॥ 063c
तत्रासीत्सुमहद्युद्धं द्रोणस्याथ परैः सह । 064a
घोरे तमसि मग्नानां निघ्नतामितरेतरम् ॥ ॥ 064c
इति श्रीमन्महाभारते द्रोणपर्वणि घटोत्कचवधपर्वणि चतुर्दशरात्रियुद्धे सप्तषष्ट्यधिकशततमोऽध्यायः ॥ 167 ॥
5-167-1 प्रयाणाद्यानस्थानात् । प्रवणादिति पाठे प्रवणं प्रकृष्टं वनं जलम् ॥ 5-167-2 तस्य सात्यकेः । तस्य तस्माद्धृदयात् ॥ 5-167-12 लोहिताङ्गः कुजः । यदृच्छया दैवेनेत्यभूतोपमा ॥ 5-167-16 महिषमसुरम् । महिषं षण्मुखो यथा इति घ. ङ. झ. पाठः ॥ 5-167-21 श्वाविच्छल्यकः । शललतः शललीभिः ॥ 5-167-58 प्रणश्य निलीनो भूत्वा ॥ सप्तषष्ट्यधिकशततमोऽध्यायः ॥ 167 ॥