श्रीः
अध्यायः 166
कृतवर्मणा युधिष्ठिरपराजयः ॥ 1 ॥
सञ्जय उवाच 001
वर्तमाने तदा रौद्रे रात्रियुद्धे विशाम्पते । 001a
सर्वभूतक्षयकरे धर्मपुत्रो युधिष्ठिरः ॥ 001c
अब्रवीत्पाण्डवांश्चैव पाञ्चालांश्चैव सोमकान् । 002a
अभिद्रवत संयात द्रोणमेव जिघांसया ॥ 002c
राज्ञस्ते वचनाद्राजन्पाञ्चालाः सृञ्जयास्तथा । 003a
द्रोणमेवाभ्यवर्तन्त नदन्तो भैरवान्रवान् ॥ 003c
तान्वयं प्रतिगर्जन्तः प्रत्युद्याताः स्म हर्षिताः । 004a
यथाशक्ति यथोत्साहं यथासत्वं च संयुगे ॥ 004c
कृतवर्मा तु हार्दिक्यो युधिष्ठिरमुपाद्रवत् । 005a
द्रोणं प्रति समायान्तं मत्तो मत्तमिव द्विपम् ॥ 005c
शैनेयं शरवर्षाणि विकिरन्तं समन्ततः । 006a
अभ्ययात्कौरवो राजन्भूरिः सङ्ग्राममूर्धनि ॥ 006c
सहदेवमथायान्तं द्रोणप्रेप्सुं महारथम् । 007a
कर्णो वैकर्तनो राजन्वारयामास पाण्डवम् ॥ 007c
भीमसेनमथायान्तं व्यादितास्यामिवान्तकम् । 008a
स्वयं दुर्योधनो राजा प्रतीपं मृत्युमाव्रजत् ॥ 008c
नकुलं च युधां श्रेष्ठं सर्वयुद्धविशारदम् । 009a
शकुनिः सौबलो राजन्वारयामास सत्वरः ॥ 009c
शिखण्डिनमथायान्तं रथेन रथिनां वरम् । 010a
कृपः शारद्वतो राजन्वारयामास संयुगे ॥ 010c
प्रतिविन्ध्यमथायान्तं मयूरसदृशैर्हयैः । 011a
दुःशासनो महाराज यत्तो यत्तमवारयत् ॥ 011c
भैमसेनिमथायान्तं मायाशतविशारदम् । 012a
अश्वत्थामा महाराज राक्षसं प्रत्यषेधयत् ॥ 012c
द्रुपदं वृषसेनस्तु ससैन्यं सपदानुगम् । 013a
वारयामास समरे द्रोणप्रेप्सुं महारथम् ॥ 013c
विराटं द्रुतमायान्तं द्रोणस्य निधनं प्रति । 014a
मद्रराजः सुसङ्क्रुद्धो वारयामास भारत ॥ 014c
शतानीकमथायान्तं नाकुलिं रभसं रणे । 015a
चित्रसेनो रुरोधाशु शरैर्द्रोणपरीप्सया ॥ 015c
अर्जुनं च युधांश्रेष्ठं प्राद्रवन्तं महारथम् । 016a
अलायुधो महाराज राक्षसेन्द्रो न्यवारयत् ॥ 016c
तथा द्रोणं महेष्वासं निघ्नन्तं शात्रवान्रणे । 017a
धृष्टद्युम्नोऽथ पाञ्चाल्यो हृष्टरूपमवारयत् ॥ 017c
तथाऽन्यान्पाण्डुपुत्राणां समायातान्महारथान् । 018a
तावका रथिनो राजन्वारयामासुरोजसा ॥ 018c
गजारोहा गजैस्तूर्णं सन्निपत्य महामृधे । 019a
योधयन्तः स्म दृश्यन्ते शतशोऽथ सहस्रशः ॥ 019c
निशीथे तुरगा राजन्द्रावयन्तः परस्परम् । 020a
समदृश्यन्त वेगेन पक्षवन्तो यथाऽद्रयः ॥ 020c
सादिनः सादिभिः सार्धं प्रासशक्त्यृष्टिपाणयः । 021a
समागच्छन्महाराज विनदन्तः पृथक्पृथक् ॥ 021c
नरास्तु बहवस्तत्र समाजग्मुः परस्परम् । 022a
गदाभिर्मुसलैश्चैव नानाशस्त्रैश्च संयुगे ॥ 022c
कृतवर्मा तु हार्दिक्यो धर्मपुत्रं युधिष्ठिरम् । 023a
वारयामास सङ्क्रुद्धो वेलेवोद्वृत्तमर्णवम् ॥ 023c
युधिष्ठिरस्तु हार्दिक्यं विद्ध्वा पञ्चभिराशुगैः । 024a
पुनर्विव्याध विंशत्या तिष्ठतिष्ठेति चाब्रवीत् ॥ 024c
कृतवर्मा तु सङ्क्रुद्धो धर्मपुत्रस्य मारिष । 025a
धनुश्चिच्छेद भल्लेन तं च विव्याध सप्तभिः ॥ 025c
अथान्यद्धनुरादाय धर्मपुत्रो महारथः । 026a
हार्दिक्यं दशभिर्बाणैर्बाह्वोरुरसि चार्पयत् ॥ 026c
माधवस्तु रणे विद्धो धर्मपुत्रेण मारिष । 027a
प्राकम्पत च रोषेण सप्तभिश्चार्दयच्छरैः ॥ 027c
तस्य पार्थो धनुश्छित्त्वा हस्तावापं निकृत्य च । 028a
प्राहिणोन्निशितान्बाणान्पञ्च राजञ्छिलाशितान् ॥ 028c
ते तस्य कवचं भित्त्वा हेमचित्रं महाधनम् । 029a
प्राविशन्धरणीं भित्त्वा वल्मीकमिव पन्नगाः ॥ 029c
अक्ष्णोर्निमेषमात्रेण सोऽन्यदादाय कार्मुकम् । 030a
विव्याध पाण्डवं षष्ट्या सूतं च नवभिः शरैः ॥ 030c
तस्य शक्तिममेयात्मा पाण्डवो भुजगोपमाम् । 031a
चिक्षेप भरतश्रेष्ठ रथे न्यस्य महद्धनुः ॥ 031c
सा हेमचित्रा महती पाण्डवेयेन प्रेरिता । 032a
निर्भिद्य दक्षिणं बाहुं प्राविशद्धरणीतलम् ॥ 032c
एतस्मिन्नेव काले तु गृह्य पार्थः पुनर्धनुः । 033a
हार्दिक्यं छादयामास शरैः सन्नतपर्वभिः ॥ 033c
ततस्तु समरे शूरो वृष्णीनां प्रवरो रथी । 034a
व्यश्वसूतरथं चक्रे निमेषार्धाद्युधिष्ठिरम् ॥ 034c
ततस्तु पाण्डवो ज्येष्ठः खड्गं चर्म समाददे । 035a
तदस्य निशितैर्बाणैर्व्यधमन्माधवो रणे ॥ 035c
तोमरं तु ततो गृह्य स्वर्णदण्डं दुरासदम् । 036a
प्रैषयत्समरे तूर्णं हार्दिक्यस्य युधिष्ठिरः ॥ 036c
तमापतन्तं सहसा धर्मराजभुजच्युतम् । 037a
द्विधा चिच्छेद हार्दिक्यः कृतहस्तः स्मयन्निव ॥ 037c
ततः शरशतेनाजौ धर्मपुत्रमवाकिरत् । 038a
कवचं चास्य सङ्क्रुद्धः शरैस्तीक्ष्णैरदारयत् ॥ 038c
हार्दिक्यशरसञ्छन्नं कवचं तन्महाधनम् । 039a
व्यशीर्यत रणे राजंस्ताराजालमिवाम्बरात् ॥ 039c
स च्छिन्नधन्वा विरथः शीर्णवर्मा शरार्दितः । 040a
अपायासीद्रणात्तूर्णं धर्मपुत्रो युधिष्ठिरः ॥ 040c
कृतवर्मा तु निर्जित्य धर्मात्मानं युधिष्ठिरम् । 041a
पुनर्द्रोणस्य जुगुपे चक्रमेव महात्मनः ॥ ॥ 041c
इति श्रीमन्महाभारते द्रोणपर्वणि घटोत्कचवधपर्वणि चतुर्दशरात्रियुद्धे षट्षष्ट्यधिकशततमोऽध्यायः ॥ 166 ॥
5-166-12 भैमसेनिं घटोत्कचम् ॥ 5-166-27 माधवः कृतवर्मा ॥ षट्षष्ठ्यधिकशततमोऽध्यायः ॥