श्रीः अध्यायः 165 सङ्कुलयुद्धम् ॥ 3 ॥ सञ्जय उवाच 001
प्रकाशिते तदा लोके रजसा तमसावृते । 001a
समाजग्मुरथो वीराः परस्परवधैषिणः ॥ 001c
ते समेत्य रणे राजञ्शस्त्रप्रासासिधारिणः । 002a
परस्परमुदैक्षन्त परस्परकृतागसः ॥ 002c
प्रदीपानां सहस्रैश्च दीप्यमानैः समन्ततः । 003a
रत्नाचितैः स्वर्णदण्डैर्गन्धतैलावसिञ्चितैः ॥ 003c
देवगन्धर्वदीपाद्यैः प्रभाभिरधिकोज्ज्वलैः । 004a
विरराज तदा भूमिर्ग्रहैर्द्यौरिव भारत ॥ 004c
उल्काशतैः प्रज्वलितै रणभूमिर्व्यराजत । 005a
दह्यमानेव लोकानामभावे च वसुन्धरा ॥ 005c
व्यदीप्यन्त दिशः सर्वाः प्रदीपैस्तैः समन्ततः । 006a
वर्षाप्रदोषे खद्योतैर्वृता वृक्षा इवाबभुः ॥ 006c
असज्जन्त ततो वीरा वीरेष्वेव पृथक्पृथक् । 007a
नागा नागैः समाजग्मुस्तुरगा हयसादिभिः । 007c
रथा रथवरैरेव समजग्मुर्मुदा युताः ॥ 007e
तस्मिन्रात्रिमुखे घोरे तव पुत्रस्य शासनात् । 008a
चतुरङ्गस्य सैन्यस्य सम्पातश्च महानभूत् ॥ 008c
ततोऽर्जुनो महाराज कौरवाणामनीकिनीम् । 009a
व्यधमत्त्वरया युक्तः क्षपयन्सर्वपार्थिवान् ॥ 009c
धृतराष्ट्र उवाच 010
तस्मिन्प्रविष्टे संरब्धे मम पुत्रस्य वाहिनीम् । 010a
अमृष्यमाणे दुर्धर्षे कथमासीन्मनो हि वः ॥ 010c
किमकुर्वत सैन्यानि प्रविष्टे परपीडने । 011a
दुर्योधनश्च किं कृत्यं प्राप्तकालममन्यत ॥ 011c
के चैनं समरे वीरं प्रत्युद्ययुररिन्दमाः । 012a
द्रोणं च के व्यरक्षन्त प्रविष्टे श्वेतवाहने ॥ 012c
केऽरक्षन्दक्षिणं चक्रं के च द्रोणस्य सव्यतः । 013a
के पृष्ठतश्चाप्यभवन्वीरा वीरान्विनिघ्नतः । 013c
के पुरस्तादगच्छन्त निघ्नन्तः शात्रवान्रणे ॥ 013e
यत्प्राविशन्महेष्वासः पाञ्चालानपराजितः । 014a
नृत्यन्निव नरव्याघ्रो रथमार्गेषु वीर्यवान् ॥ 014c
यो ददाह शरैर्द्रोणः पाञ्चालानां रथव्रजान् । 015a
धूमकेतुरिव क्रुद्धः कथं मृत्युमुपेयिवान् ॥ 015c
अव्यग्रानेव हि परान्कथयस्यपराजितान् । 016a
हृष्टानुदीर्णान्सङ्ग्रामे न तथा सूत मामकान् ॥ 016c
हतांश्चैव विदीर्णांश्च विप्रकीर्णांश्च शंससि । 017a
रथिनो विरथांश्चैव कृतान्युद्धेषु मामकान् ॥ 017c
सञ्जय उवाच 018
द्रोणस्य मतमाज्ञाय योद्वुकामस्य तां निशाम् । 018a
दुर्योधनो महाराज वश्यान्भ्रातॄनुवाच ह ॥ 018c
कर्णं च वृषसेनं च मद्रराजं च कौरव । 019a
दुर्धर्षं दीर्घबाहुं च ये च तेषां पदानुगाः ॥ 019c
द्रोणं यत्ताः पराक्रान्ताः सर्वे रक्षन्तु पृष्ठतः । 020a
हार्दिक्यो दक्षिणं चक्रं शल्यश्चैवोत्तरं तथा ॥ 020c
त्रिगर्तानां च ये शूरा हतशिष्टा महारथाः । 021a
तांश्चैव पुरतः सर्वान्पुत्रस्ते समचोदयत् ॥ 021c
दुर्योधन उवाच 022
आचार्यो हि सुसंयत्तो भृशं यत्ताश्च पाण्डवाः । 022a
तं रक्षत सुसंयत्ता निघ्नन्तं शात्रवान्रणे ॥ 022c
द्रोणो हि बलवान्युद्धे क्षिप्रहस्तः प्रतापवान् । 023a
निर्जयेत्त्रिदशान्युद्धे किमु पार्थान्ससोमकान् ॥ 023c
ते यूयं सहिताः सर्वे भृशं यत्ता महारथाः । 024a
द्रोणं रक्षत पाञ्चालाद्धृष्टद्युम्नान्महारथात् ॥ 024c
पाण्डवीयेषु सैन्येषु न तं पश्याम कञ्चन । 025a
यो योधयेद्रणे द्रोणं धृष्टद्युम्नादृते पुमान् ॥ 025c
तस्मात्सर्वात्मना मन्ये भारद्वाजस्य रक्षणम् । 026a
सुगुप्तः पाण्डवान्हन्यात्सृञ्जयांश्च ससोमकान् ॥ 026c
सृञ्जयेष्वथ सर्वेषु निहतेषु चमूमुखे । 027a
धृष्टद्युम्नं रणे द्रौणिर्हनिष्यति न संशयः ॥ 027c
तथाऽर्जुनं च राधेयो हनिष्यति महारथः । 028a
भीमसेनमहं चापि युद्धे जेष्यामि दीक्षितः । 028c
शेषांश्च पाण्डवान्योधाः प्रसभं हीनतेजसः ॥ 028e
सोयं मम जयो व्यक्तो दीर्घकालं भविष्यति । 029a
तस्माद्रक्षत सङ्ग्रामे द्रोणमेव महारथम् ॥ 029c
इत्युक्त्वा भरतश्रेष्ठ पुत्रो दुर्याधनस्तव । 030a
व्यादिदेश तथा सैन्यं तस्मिंस्तमसि दारुणे ॥ 030c
ततः प्रववृते युद्धं रात्रौ भरतसत्तम । 031a
उभयोः सेनयोर्घोरं परस्परजिगीषया ॥ 031c
अर्जुनः कौरवं सैन्यमर्जुनं चापि कौरवाः । 032a
नानाशस्त्रसमावायैरन्योन्यं समपीडयन् ॥ 032c
द्रौणिः पाञ्चालराजं च भारद्वाजश्च सृञ्जयान् । 033a
छादयाञ्चक्रिरे सङ्ख्ये शरैः सन्नतपर्वभिः ॥ 033c
पाण्डुपाञ्चालसैन्यानां कौरवाणां च भारत । 034a
आसीन्निष्टानको घोरो निघ्नतामितरेतरम् ॥ 034c
नैवास्माभिस्तथा पूर्वैर्दृष्टपूर्वं तथाविधम् । 035a
युद्धं यादृशमेवासीत्तां रात्रि सुभयावहम् ॥ ॥ 035c

इति श्रीमन्महाभारते द्रोणपर्वणि घटोत्कचवधपर्वणि चतुर्दशरात्रियुद्धे पञ्चषष्ट्यधिकशततमोऽध्यायः ॥ 165 ॥