श्रीः
अध्यायः 164
सेनाद्वये दीपोद्योजनम् ॥ 1 ॥
सञ्जय उवाच 001
वर्तमाने यथा यद्धे घोररूपे भयावहे । 001a
तमसा संवृते लोके रजसा च महीपते ॥ 001c
नापश्यन्त रणे योधाः परस्परमवस्थिताः । 002a
अनुमानेन सञ्ज्ञाभिर्युद्धं तद्ववृधे महत् ॥ 002c
नरनागाश्वमथनं परमं रोमहर्षणम् । 003a
द्रोणकर्णकृपा वीरा भीमपार्षतसात्यकाः । 003c
अन्योन्यं क्षोभयामासुः सैन्यानि नृपसत्तम ॥ 003e
वध्यमानानि सैन्यानि समन्तात्तैर्महारथैः । 004a
तमसा संवृते चैव समन्ताद्विप्रदुद्रुवुः ॥ 004c
ते सर्वतो विद्रवन्तो योधा विध्वस्तचेतनाः । 005a
अहन्यन्त महाराज धावमानाश्च संयुगे ॥ 005c
महारथसहस्राणि जघ्नुरन्योन्यमाहवे । 006a
अन्ये तमसि मूढानि पुत्रस्य तव मन्त्रिते ॥ 006c
ततः सर्वाणि सैन्यानि सेनागोपाश्च भारत । 007a
व्यमुह्यन्त रणे तत्र तमसा संवृते सति ॥ 007c
धृतराष्ट्र उवाच 008
तेषां संलोड्यमानानां पाण्डवैर्विहतौजसाम् । 008a
अन्धे तमसि मग्नानामासीत्किं वो मनस्तदा ॥ 008c
कथं प्रकाशस्तेषां वा मम सैन्यस्य वा पुनः । 009a
बभूव लोके तमसा तथा सञ्जय संवृते ॥ 009c
सञ्जय उवाच 010
ततः सर्वाणि सैन्यानि हतशिष्टानि यानि वै । 010a
सेनागोप्तॄनथादिश्य पुनर्व्यूहमकल्पयत् ॥ 010c
द्रोणः पुरस्ताज्जघने तु शल्यस्तथा द्रौणिः कृतवर्मा सौबलश्च । 011a
स्वयं तु सर्वाणि बलानि राजन्राजाऽभ्ययाद्गोपयन्वै निशायाम् ॥ 011c
उवाच सर्वांश्च पदातिसङ्घान्दुर्योधनः पार्थिवसान्त्वपूर्वम् । 012a
उत्सृज्य सर्वे परमायुधानि गृह्णीत हस्तैर्ज्वलितान्प्रदीपान् ॥ 012c
ते चोदिताः पार्थिवसत्तमेन ततः प्रहृष्टा जगृहुः प्रदीपान् ॥ 013ac
देवर्षिगन्धर्वसुरर्षिसङ्घा विद्याधराश्चाप्सरसां गणाश्च । 014a
नागाः सयक्षोरगकिन्नराश्च हृष्टा दिविस्था जगृहुः प्रदीपान् ॥ 014c
दिग्दैर्वतेभ्यश्च समापतन्तोऽदृश्यन्त दीपाः ससुगन्धितैलाः । 015a
विशेषतो नारदपर्वताभ्यां सम्बोध्यमानाः कुरुपाण्डवार्थम् ॥ 015c
सा भूय एव ध्वजिनी विभक्ता व्यरोचताग्निप्रभया निशायाम् । 016a
महाधनैराभरणैश्च दिव्यैः शस्त्रैश्च दीप्तैरपि सम्पतद्भिः ॥ 016c
रथेरथे पञ्च विदीपकास्तु प्रदीपकास्तत्र गजे त्रयश्च । 017a
प्रत्यश्वमेकश्च महाप्रदीपः कृतास्तु तैः पाण्डवैः कौरवेयैः ॥ 017c
क्षणेन सर्वे विहिताः प्रदीपा व्यादीपयन्तो ध्वजिनीं तवासु ॥ 018ac
सर्वास्तु सेना व्यतिसेव्यमानाः पदातिभिः पावकतैलहस्तैः । 019a
प्रकाश्यमाना ददृशुर्निशायां यथान्तरिक्षे जलदास्तडिद्भिः ॥ 019c
प्रकाशितायां तु ततो ध्वजिन्यां द्रोणोऽग्निकल्पः प्रतपन्सपत्नान् । 020a
रराज राजेन्द्र सुवर्णवर्मा मध्यं गतः सूर्य इवांशुमाली ॥ 020c
जाम्बूनदेष्वाभरणेषु चैव निष्केषु शुद्धेषु शरासनेषु । 021a
पीतेषु शस्त्रेषु च पावकस्य प्रतिप्रभास्तत्र तदा बभूवुः ॥ 021c
गदाश्च शैक्याः परिघाश्च शुभ्रा रथेषु शक्त्यश्च विवर्तमानाः । 022a
प्रतिप्रभारश्मिभिराजमीढ पुनःपुनः सञ्जनयन्ति दीपान् ॥ 022c
छत्राणि वालव्यजनानि खड्गा दीप्ता महोल्काश्च तथैव राजन् । 023a
व्याघूर्णमानाश्च सुवर्णमाला व्यायच्छतां तत्र तदा विरेजुः ॥ 023c
शस्त्रप्रभाभिश्च विराजमानं दीपप्रभाभिश्च तदा बलं तत् । 024a
प्रकाशितं चाभरणप्रभाभिर्भृशं प्रकाशं नृपते बभूव ॥ 024c
पीतानि शस्त्राण्यसृगुक्षितानि वीरावधूतानि तनुच्छदानि । 025a
दीप्तां प्रभां प्राजनयन्त तत्र तपात्यये विद्युदिवान्तरिक्षे ॥ 025c
प्रकम्पितानामभिधातवेगैरभिघ्नतां चापततां जवेन । 026a
वक्त्राण्यकाशन्त तदा नराणां वाय्वीरितानीव महाम्बुजानि ॥ 026c
महावने दारुमये प्रदीप्ते यथा प्रभा भास्करस्यापि नश्येत् । 027a
तथा तदाऽऽसीद्ध्वजिनी प्रदीप्ता महाभया भारत भीमरूपा ॥ 027c
तत्सम्प्रदीप्तं बलमस्मदीयं निशाम्य पार्थास्त्वरितास्तथैव । 028a
सर्वेषु सैन्येषु पदातिसङ्घानचोदयंस्तेऽपि चक्रुः प्रदीपान् ॥ 028c
गजेगजे सप्त कृपाः प्रदीपा रथेरथे चैव दश प्रदीपाः । 029a
द्वावश्वपृष्ठे परिपार्श्वतोऽन्ये ध्वजेषु चान्ये जघनेषु चान्ये ॥ 029c
सेनासु सर्वासु च पार्श्वतोऽन्ये पश्चात्पुरस्ताच्च समन्ततश्च । 030a
मध्ये तथाऽन्ये ज्वलिताग्निहस्ता व्यदीपयन्पाण्डुसुतस्य सेनाम् ॥ 030c
मध्ये तथाऽन्ये ज्वलिताग्निहस्ताः सेनाद्वयेऽपि स्म नरा विचेरुः ॥ 031ac
सर्वेषु सैन्येषु पदातिसङ्घा विमिश्रिता हस्तिरथाश्ववृन्दैः । 032a
व्यदीपयंस्ते ध्वजिनीं प्रदीप्तास्तथा बलं पाण्डवेयाभिगुप्तम् ॥ 032c
तेन प्रदीप्तेन तथा प्रदीप्तं बलं तवासीद्बलवद्बलेन । 033a
भाः कुर्वता भानुमता ग्रहेण दिवाकरेणाग्निरिवाभिगुप्तः ॥ 033c
तयोः प्रभाः पृथिवीमन्तरिक्षं सर्वा व्यतिक्रम्य दिशश्च वृद्धाः । 034a
तेन प्रकाशेन भृशं प्रकाशं बभूव तेषां तव चैव सैन्यम् ॥ 034c
तेन प्रकाशेन दिवं गतेन सम्बोधिता देवगणाश्च राजन् । 035a
गन्धर्वयक्षासुरसिद्धसङ्घाः समागमन्नप्सरसश्च सर्वाः ॥ 035c
तद्देवगन्धर्वसमाकुलं च यक्षासुरेन्द्राप्सरसां गणैश्च । 036a
हतैश्च शूरैर्दिवमारुहद्भिरायोधनं दिव्यकल्पं बभूव ॥ 036c
रथाश्वनागाकुलदीपदीप्तं संरब्धयोधं हतविद्रुताश्वम् । 037a
महद्बलं व्यूढरथाश्वनागं सुरासुरव्यूहसमं बभूव ॥ 037c
तच्छक्तिसङ्घाकुलचण्डवातं महारथाभ्रं गजवाजिघोषम् । 038a
शस्त्रौघवर्षं रुधिराम्बुधारं निशि प्रवृत्तं रथदुर्दिनं तत् ॥ 038c
तस्मिन्महाग्निप्रतिमो महात्मा सन्तापयन्पाण्डवान्विप्रमुख्यः । 039a
गभस्तिभिर्मध्यगतो यथाऽर्को वर्षात्यये तद्वदभून्नरेन्द्र ॥ ॥ 039c
इति श्रीमन्महाभारते द्रोणपर्वणि घटोत्कचवधपर्वणि चतुर्दशरात्रियुद्धे चतुःषष्ट्यधिकशततमोऽध्यायः ॥ 164 ॥
5-164-6 अन्धे आन्ध्यहेतौ ॥ 5-164-8 वो युष्मत्सम्बन्धिनां मनः किं किंविधम् । कातरं धृष्टं वेत्यर्थः ॥ 5-164-10 तत इति । द्रोण इत्यपकृष्यते । तेषां सैन्यानां व्यूहमित्याहृत्य योज्यम् ॥ 5-164-14 देवर्षीति । भुवि पदातिभिर्दीपेषु गृहीतेषु दिविस्था देवा अपि दीपान् जगृहुर्युद्धोत्सवप्रेक्षकाः ॥ चतुःषष्ट्यधिकशततमोऽध्यायः ॥