श्रीः अध्यायः 163 सात्यकिना सोमदत्तवधः ॥ 1 ॥ द्रोणयुधिष्ठिरयुद्धम् ॥ 2 ॥ सञ्जय उवाच 001
सोमदत्तं तु सम्प्रेक्ष्य विधुन्वानं महद्धनुः । 001a
सात्यकिः प्राह यन्तारं सोमदत्ताय मां वह ॥ 001c
न ह्यहत्वा रणे शत्रुं सोमदत्तं महाबलम् । 002a
निवर्तिष्ये रणात्सूत सत्यमेतद्वचो मम ॥ 002c
ततः सम्प्रैषयद्यन्ता सैन्धवांस्तान्मनोजवान् । 003a
तुरङ्गामाञ्छङ्खवर्णान्सर्वशब्दातिगान्रणे ॥ 003c
तेऽवहन्युयुधानं तु मनोमारुतरंहसः । 004a
यथेन्द्रं हरयो राजन्पुरा दैत्यवधोद्यतम् ॥ 004c
तमापतन्तं सम्प्रेक्ष्य सात्वतं रभसं रणे । 005a
सोमदत्तो महाबाहुरसम्भ्रान्तो न्यवर्तत ॥ 005c
विमुञ्चञ्छरवर्षाणि पर्जन्य इव वृष्टिमान् । 006a
छादयामास शैनेयं जलदो भास्करं यथा ॥ 006c
असम्भ्रान्तश्च समरे सात्यकिः कुरुपुङ्गवम् । 007a
छादयामास बाणौघैः समन्ताद्भरतर्षभ ॥ 007c
सोमदत्तस्तु तं षष्ट्या विव्याधोरसि माधवम् । 008a
सात्यकिश्चापि तं राजन्नविध्यत्सायकैः शितैः ॥ 008c
तावन्योन्यं शरैः कृत्तौ व्यराजेतां नरर्षभौ । 009a
सुपुष्पौ पुष्पसमये पुष्पिताविव किंशुकौ ॥ 009c
रुधिरोक्षितसर्वाङ्गौ कुरुवृष्णियशस्करौ । 010a
परस्परमवेक्षेतां दहन्ताविव लोचनैः ॥ 010c
रथमण्डलमार्गेषु चरन्तावरिमर्दनौ । 011a
घोररूपौ हितावास्तां वृष्टिमन्ताविवाम्बुदौ ॥ 011c
शरसम्भिन्नगात्रौ तु सर्वतः शकलीकृतौ । 012a
श्वाविधाविव राजेन्द्र दृश्येतां शरविक्षतौ ॥ 012c
सुवर्णपुङ्खैरिषुभिराचितौ तौ व्यराजताम् । 013a
खद्योतैरावृतौ राजन्प्रावृषीव वनस्पती ॥ 013c
सम्प्रदीपितसर्वाङ्गौ सायकैस्तैर्महारथौ । 014a
अदृश्येतां रणे क्रुद्धावुल्काभिरिव कुञ्जरौ ॥ 014c
ततो युधि महारज सोमदत्तो महारथः । 015a
अर्धचन्द्रेण चिच्छेद माधवस्य महद्धनुः ॥ 015c
अथैनं पञ्चविंशत्या सायकानां समार्पयत् । 016a
त्वरमाणस्त्वराकाले पुनश्च दशभिः शरैः ॥ 016c
अथान्यद्धनुरादाय सात्यकिर्वेगवत्तरम् । 017a
पञ्चभिः सायकैस्तूर्णं सोमदत्तमविध्यत ॥ 017c
ततोऽपरेण भल्लेन ध्वजं चिच्छेद काञ्चनम् । 018a
बाह्लीकस्य रणे राजन्सात्यकिः प्रहसन्निव ॥ 018c
सोमदत्तस्त्वसम्भ्रान्तो दृष्ट्वा केतुं निपातितम् । 019a
शैनेयं पञ्चविंशत्या सायकानां समाचिनोत् ॥ 019c
सात्वतोऽपि रणे क्रुद्धः सोमदत्तस्य धन्विनः । 020a
धनुश्छिच्छेद भल्लेन क्षुरप्रेण शितेन ह ॥ 020c
अथैनं रुक्मपुङ्खानां शतेन नतपर्वणाम् । 021a
आचिनोद्बहुधा राजन्भग्नदंष्ट्रमिव द्विपम् ॥ 021c
अथान्यद्धनुरादाय सोमदत्तो महारथः । 022a
सात्यकिं छादयामास शरवृष्ट्या महाबलः ॥ 022c
सोमदत्तं तु सङ्क्रुद्धो रणे विव्याध सात्यकिः । 023a
सात्यकिं शरजालेन सोमदत्तोऽप्यपीडयत् ॥ 023c
दशभिः सात्वतस्यार्थे भीमोऽहन्बाह्लिकात्मजम् । 024a
सोमदत्तोप्यसम्भ्रान्तो भीममार्च्छच्छितैः शरैः ॥ 024c
ततस्तु सात्वतस्यार्थे भीमसेनो नवं दृढम् । 025a
मुमोच परिघं घोरं सोमदत्तस्य वक्षसि ॥ 025c
तमापतन्तं वेगेन परिघं घोरदर्शनम् । 026a
द्विधा चिच्छेद समरे प्रहसन्निव कौरवः ॥ 026c
स पपात द्विधा च्छिन्न आयसः परिघो महान् । 027a
महीधरस्येव महच्छिखरं वज्रदारितम् ॥ 027c
ततस्तु सात्यकी राजन्सोमदत्तस्य संयुगे । 028a
धनुश्चिच्छेद भल्लेन हस्तावापं च पञ्चभिः ॥ 028c
ततश्चतुर्भिश्च शरैस्तूर्णं तांस्तुरगोत्तमान् । 029a
समीपं प्रेषयामास प्रेतराजस्य भारत ॥ 029c
सारथेश्च शिरः कायाद्भल्लेन नतपर्वणा । 030a
जहार नरशार्दूलः प्रहसञ्छिनिपुङ्गवः ॥ 030c
ततः शरं महाघोरं ज्वलन्तमिव पावकम् । 031a
मुमोच सात्वतो राजन्स्वर्णपुङ्खं शिलाशितम् ॥ 031c
स विमुक्तो बलवता शैनेयेन शरोत्तमः । 032a
घोरस्तस्योरसि विभो निपपाताशु भारत ॥ 032c
सोऽतिविद्धो महाराज सात्वतेन महारथः । 033a
सोमदत्तो महाबाहुर्निपपात ममार च ॥ 033c
तं दृष्ट्वा निहतं तत्र सोमदत्तं महारथाः । 034a
महता शरवर्षेण युयुधानमुपाद्रवन् ॥ 034c
छाद्यमानं शरैर्दृष्ट्वा युयुधानं युधिष्ठिरः । 035a
पाण्डवाश्च महाराज सह सर्वैः प्रभद्रकैः । 035c
महत्या सेनया सार्धं द्रोणानीकमुपाद्रवन् ॥ 035e
ततो युधिष्ठिरः क्रुद्धस्तावकानां महाबलम् । 036a
शरैर्विद्रावयामास भारद्वाजस्य पश्यतः ॥ 036c
सैन्यानि द्रावयन्तं तु द्रोणो दृष्ट्वा युधिष्ठिरम् । 037a
अभिदुद्राव वेगेन क्रोधसंरक्तलोचनः ॥ 037c
ततः सुनिशितैर्बाणैः पार्थं विव्याध सप्तभिः । 038a
युधिष्ठिरोऽपि सङ्क्रुद्धः प्रतिविव्याध पञ्चभिः ॥ 038c
सोऽतिविद्धो महाबाहुः सृक्विणी परिसंलिहन् । 039a
युधिष्ठिरस्य चिच्छेद ध्वजं कार्मुकमेव च ॥ 039c
स च्छिन्नधन्वा त्वरितस्त्वराकाले नृपोत्तमः । 040a
अन्यदादत्त वेगेन कार्मुकं समरे दृढम् ॥ 040c
ततः शरसहस्रेण द्रोणं विव्याध पार्थिवः । 041a
साश्वसूतध्वजरथं तदद्भुतमिवाभवत् ॥ 041c
ततो मुहूर्तं व्यथितः शरपातप्रपीडितः । 042a
निषसाद रथोपस्थे द्रोणो भरतसत्तम ॥ 042c
प्रतिलभ्य ततः सञ्ज्ञां मुहूर्ताद्द्विजसत्तमः । 043a
क्रोधेन महताऽऽविष्टो वायव्यास्त्रमवासृजत् ॥ 043c
असम्भ्रान्तस्ततः पार्थो वायव्येनैव वीर्यवान् । 044a
तदस्त्रमस्त्रेण रणे स्तम्भयामास भारत ॥ 044c
चिच्छेद च धनुर्दीर्घं ब्राह्मणस्य च पाण्डवः । 045a
ततोऽन्यद्धनुरादत्त द्रोणः क्षत्रियमर्दनः । 045c
तदप्यस्य शितैर्भल्लैश्चिच्छेद कुरुपुङ्गवः ॥ 045e
ततोऽब्रवीद्वासुदेवः कुन्तीपुत्रं युधिष्ठिरम् ॥ 046ac
युधिष्ठिर महाबाहो यत्त्वां वक्ष्यामि तच्छृणु । 047a
उपारमस्व युद्धे त्वं द्रोणाद्भरतसत्तम ॥ 047c
यतते हि सदा द्रोणो ग्रहणे तव संयुगे । 048a
नानुरूपमहं मन्ये युद्धमस्य त्वया सह ॥ 048c
योऽस्य सृष्टो विनाशाय स एवैनं हनिष्यति । 049a
परिवर्ज्य गुरुं याहि यत्र राजा सुयोधनः ॥ 049c
राजा राज्ञा हि योद्धव्यो नाराज्ञा युद्धमिष्यते । 050a
तत्र त्वं गच्छ कौन्तेय हस्त्यश्वरथसंवृतः ॥ 050c
यावन्मात्रेण च मया सहायेन धनञ्जयः । 051a
भीमश्च रथशार्दूलो युध्यते कौरवैः सह ॥ 051c
वासुदेववचः श्रुत्वा धर्मराजो युधिष्ठिरः । 052a
मुहूर्तं चिन्तयित्वा तु ततो दारुणमाहवम् ॥ 052c
प्रायाद्द्रुतममित्रघ्नो यत्र भीमो व्यवस्थितः । 053a
विनिघ्नंस्तावकान्योधान्व्यादितास्य इवान्तकः ॥ 053c
रथघोषेण महता नादयन्वसुधातलम् । 054a
पर्जन्य इव घर्मान्ते नादयन्वै दिशो दश । 054c
भीमस्य निघ्नतः शत्रून्पार्ष्णिं जग्राह पाण्डवः ॥ 054e
द्रोणोऽपि पाण्डुपाञ्चालान्व्यधमद्रजनीमुखे । 055a
'नादयंस्तलघोषेण तव सैन्यानि मारिष ॥' 055c

इति श्रीमन्महाभारते द्रोणपर्वणि घटोत्कचवधपर्वणि चतुर्दशरात्रियुद्धे त्रिषष्ट्यधिकशततमोऽध्यायः ॥ 163 ॥

5-163-18 बाह्लीकस्य सोमदत्तस्य ॥ त्रिषष्ठ्यधिकशततमोऽध्यायः ॥