श्रीः अध्यायः 162 सङ्कुलयुद्धवर्णनम् ॥ 1 ॥ सञ्जय उवाच 001
ततो युधिष्ठिरश्चैव भीमसेनश्च पाण्डवः । 001a
द्रोणपुत्रं महाराज समन्तात्पर्यवारयन् ॥ 001c
ततो दुर्योधनो राजा भारद्वाजेन संवृतः । 002a
अभ्ययात्पाण्डवान्सङ्ख्ये ततो युद्धमवर्तत । 002c
घोररूपं महाराज भीरूणां भयवर्धनम् ॥ 002e
अम्बष्ठान्मालवान्वङ्गाञ्छिबींस्त्रैगर्तकानपि । 003a
प्राहिणोन्मृत्युलोकाय गणान्क्रुद्धो वृकोदरः ॥ 003c
अभीषाहाञ्छूरसेनान्क्षत्रियान्युद्धदुर्मदान् । 004a
निकृत्त्य पृथिवीं चक्रे भीमः शोणितकर्दमाम् ॥ 004c
यौधेयानद्रिजान्राजन्मद्रकान्मालवानपि । 005a
प्राहिणोन्मृत्युलोकाय किरीटी निशितैः शरैः ॥ 005c
प्रगाढमञ्जोगतिभिर्नाराचैरभिताडिताः । 006a
निपेतुर्द्विरदा भूमौ द्विशृङ्गा इव पर्वताः ॥ 006c
निकृत्तैर्हस्तिहस्तैश्च चेष्टमानैरितस्ततः । 007a
रराज वसुधाऽऽकीर्णा विसर्पद्भिरिवोरगैः ॥ 007c
क्षिप्तैः कनकचित्रैश्च नृपच्छत्रैः क्षितिर्बभौ । 008a
द्यौरिवादित्यचन्द्राद्यैर्ग्रहैः कीर्णा युगक्षये ॥ 008c
हत प्रहरताभीता विध्यत व्यवकृन्तत । 009a
इत्यासीत्तुमुलः शब्दः शोणाश्वस्य रथं प्रति ॥ 009c
द्रोणस्तु परमक्रुद्धो वायव्यास्त्रेण संयुगे । 010a
व्यधमत्तान्महवायुर्मेघानिव दुरत्ययः ॥ 010c
ते हन्यमाना द्रोणेन पाञ्चालाः प्राद्रवन्भयात् । 011a
पश्यतो भीमसेनस्य पार्थस्य च महात्मनः ॥ 011c
ततः किरीटि भीमश्च सहसा सन्न्यवर्तताम् । 012a
महता रथवंशेन परिगृह्य बलं महत् ॥ 012c
बीभत्सुर्दक्षिणं पार्श्वमुत्तरं तु वृकोदरः । 013a
भारद्वाजं शरौघाभ्यां महद्भ्यामभ्यवर्षताम् ॥ 013c
तौ तथा सृञ्जयाश्चैव पाञ्चालाश्च महौजसः । 014a
अन्वगच्छन्महाराज मात्स्यैश्च सह सोमकैः ॥ 014c
तथैव तव पुत्रस्य रथोदाराः प्रहारिणः । 015a
महत्या सेनया राजञ्जग्मुर्द्रोणरथं प्रति ॥ 015c
ततः सा भारती सेना हन्यमाना किरीटिना । 016a
तमसा निद्रया चैव पुनरेव व्यदीर्यत ॥ 016c
द्रोणेन वार्यमाणास्ते स्वयं तव सुतेन च । 017a
नाशक्यन्त महाराज योधा वारयितुं तदा ॥ 017c
सा पाण्डुपुत्रस्य शरैर्दीर्यमाणा महाचमूः । 018a
तमसा संवृते लोके व्यद्रवत्सर्वतोमुखी ॥ 018c
उत्सृज्य शतशो वाहांस्तत्र केचिन्नराधिपाः । 019a
प्राद्रवन्त महाराज भयाविष्टाः समन्ततः ॥ ॥ 019c

इति श्रीमन्महाभारते द्रोणपर्वणि घटोत्कचवधपर्वणि चतुर्दशरात्रियुद्धे द्विषष्ट्यधिकशततमोऽध्यायः ॥ 162 ॥