श्रीः अध्यायः 161 द्रौणिधृष्टद्युम्नयोर्युद्धम् । द्रौणिपराक्रमः ॥ 1 ॥ सञ्जय उवाच 001
दुर्योधनेनैवमुक्तो द्रौणिराहवदुर्मदः । 001a
चकारारिवधे यत्नमिन्द्रो दैत्यवधे यथा । 001c
प्रत्युवाच महाबाहुस्तव पुत्रमिदं वचः ॥ 001e
सत्यमेतन्महाबाहो यथा वदसि कौरव । 002a
प्रिया हि पाण्डवा नित्यं मम चापि पितुश्च मे ॥ 002c
तथैवावां प्रियौ तेषां न तु युद्धे कुरूद्वह । 003a
शक्तितस्तात युध्यामस्त्यक्त्वा प्राणानभीतवत् ॥ 003c
अहं कर्णश्च शल्यश्च कृपो हार्दिक्य एव च । 004a
निमेषात्पाण्डवीं सेनां क्षपयेम नृपोत्तम ॥ 004c
ते चापि कौरवीं सेनां निमेषार्धात्कुरूद्वह । 005a
क्षपयेयुर्महाबाहो न स्याम यदि संयुगे ॥ 005c
युध्याम पाण्डवाञ्छक्त्या ते चाप्यस्मान्यथाबलम् । 006a
तेजस्तेजः समासाद्य प्रशमं यातु भारत ॥ 006c
अशक्या तरसा जेतुं पाण्डवानामनीकिनी । 007a
जीवत्सु पाण्डुपुत्रेषु तद्धि सत्यं ब्रवीमि ते ॥ 007c
आत्मार्थं युध्यमानास्ते समर्थाः पाण्डुनन्दनाः । 008a
किमर्थं तव सैन्यानि न हनिष्यन्ति भारत ॥ 008c
त्वं तु लुब्धतमो राजन्निकृतिज्ञश्च कौरव । 009a
सर्वाभिशङ्की मानी च ततोऽस्मानभिशङ्कसे ॥ 009c
मन्ये त्वं कुत्सितो राजन्पापात्मा पापपूरुषः । 010a
अन्यानपि स नः क्षुद्र शङ्कसे पापभावितः ॥ 010c
अहं तु यत्नमास्थाय त्वदर्थे त्यक्तजीवितः । 011a
एष गच्छामि सङ्ग्रामं त्वत्कृते कुरुनन्दन । 011c
योत्स्येऽहं शत्रुभिः सार्धं जेष्यामि च वरान्वरान् ॥ 011e
पाञ्चालैः सह योत्स्यामि सोमकैः केकयैस्तथा । 012a
पाण्डवेयैश्च सङ्ग्रामे त्वत्प्रियार्थमरिन्दम ॥ 012c
अद्य मद्बाणनिर्दग्धाः पाञ्चालाः सोमकास्तथा । 013a
सिंहेनेवार्दिता गावो विद्रविष्यन्ति सर्वशः ॥ 013c
अद्य धर्मसुतो राजा दृष्ट्वा मम पराक्रमम् । 014a
अश्वत्थाममयं लोकं मंस्यते सह सोमकैः ॥ 014c
आगमिष्यति निर्वेदं धर्मपुत्रो युधिष्ठिरः । 015a
दृष्ट्वा विनिहतान्सङ्ख्ये पाञ्चालान्सोमकैः सह ॥ 015c
ये मां युद्धेऽभियोत्स्यन्ति तान्हनिष्यामि भारत । 016a
न हि ते वीर मोक्ष्यन्ते मद्बाह्वन्तरमागताः ॥ 016c
एवमुक्त्वा महाबाहुः पुत्रं दुर्योधनं तव । 017a
अभ्यवर्तत युद्धाय त्रासयन्सर्वधन्विनः । 017c
चिकीर्षुस्तव पुत्राणां प्रियं प्राणभृतां वरः ॥ 017e
ततोऽब्रवीत्सकैकेयान्पाञ्चालान्गौतमीसुतः ॥ 018ac
प्रहरध्वमितः सर्वे मम गात्रे महारथाः । 019a
स्थिरीभूताश्च युध्यध्वं दर्शयन्तोऽस्त्रलाघवम् ॥ 019c
एवमुक्तास्तु ते सर्वे शस्त्रवृष्टीरपातयन् । 020a
द्रौणिं प्रति महाराज जलं जलधरा इव ॥ 020c
तान्निहत्य शरान्द्रौणिर्दश वीरानपोथयत् । 021a
प्रमुखे पाण्डुपुत्राणां धृष्टद्युम्नस्य च प्रभो ॥ 021c
ते हन्यमानाः समरे पाञ्चालाः सोमकास्तथा । 022a
परित्यज्य रणे द्रौणिं व्यद्रवन्त दिशो दश ॥ 022c
तान्दृष्ट्वा द्रवतः शूरान्पाञ्चालान्सहसोमकान् । 023a
धृष्टद्युम्नो महाराज द्रौणिमभ्यद्रवद्रणे ॥ 023c
ततः काञ्चनचित्राणां सजलाम्बुदनादिनाम् । 024a
वृतः शतेन शूराणां रथानामनिवर्तिनाम् ॥ 024c
पुत्रः पाञ्चालराजस्य धृष्टद्युम्नो महारथः । 025a
द्रौणिमित्यब्रवीद्वाक्यं दृष्ट्वा योधान्निपातितान् ॥ 025c
आचार्यपुत्र भद्रं ते किमन्यैर्निहतैस्तव । 026a
समागच्छ मया सार्धं यदि शूरोऽसि संयुगे । 026c
अहं त्वां निहनिष्यामि तिष्ठेदानीं ममाग्रतः ॥ 026e
ततस्तमाचार्यसुतं धृष्टद्युम्नः प्रतापवान् । 027a
मर्मभिद्भिः शरैस्तीक्ष्णैर्जघान भरतर्षभ ॥ 027c
ते तु पङ्क्तीकृता द्रौणिं शरा विविशुराशुगाः । 028a
रुक्मपुङ्खाः प्रसन्नाग्राः सर्वकायावदारणाः । 028c
मध्वर्थिन इवोद्दामा भ्रमराः पुष्पितं द्रुमम् ॥ 028e
सोऽतिविद्धो भृशं क्रुद्धः पदाक्रान्त इवोरगः । 029a
मानी द्रौणिरसम्भ्रान्तो बाणपाणिरभाषत ॥ 029c
धृष्टद्युम्न स्थिरो भूत्वा मुहूर्तं प्रतिपालय । 030a
यावत्त्वां निशितैर्बाणैः प्रेषयामि यमक्षयम् ॥ 030c
द्रौणिरेवमथाभाष्य पार्षतं परवीरहा । 031a
छादयामास बाणौघैः समन्ताल्लुघुहस्तवत् ॥ 031c
स बाध्यमानः समरे द्रौणिना युद्धदुर्मदः । 032a
द्रौणिं पाञ्चालतनयो वाग्भिरातर्जयत्तदा ॥ 032c
न जानीषे प्रतिज्ञां मे विप्रोत्पत्तिं तथैव च । 033a
द्रोणं हत्वा किल मया हन्तव्यस्त्वं सुदुर्मते ॥ 033c
ततस्त्वाऽहं न हन्म्यद्य द्रोणे जीवति संयुगे ॥ 034ac
इमां तु रजनीं प्राप्तामप्रभातां सुदुर्मते । 035a
निहत्य पितरं तेऽद्य ततस्त्वामपि संयुगे । 035c
नेष्यामि प्रेतलोकाय ह्येतन्मे मनसि स्थितम् ॥ 035e
यस्ते पार्थेषु विद्वेषो या भक्तिः कौरवेषु च । 036a
तां दर्शय स्थिरो भूत्वा न मे जीवन्विमोक्ष्यसे ॥ 036c
यो हि ब्राह्मण्यमुत्सृज्य क्षत्रधर्मरतो द्विजः । 037a
स वध्यः सर्वलोकस्य यथा त्वं पुरुषाधमः ॥ 037c
इत्युक्तः परुषं वाक्यं पार्षतेन द्विजोत्तमः । 038a
क्रोधमाहारयत्तीव्रं तिष्ठतिष्ठेति चाब्रवीत् ॥ 038c
निर्दहन्निव चक्षुर्भ्यां पार्षतं सोऽभ्यवैक्षत । 039a
छादयामास च शरैर्निःश्वसन्पन्नगो यथा ॥ 039c
स च्छाद्यमानः समरे द्रौणिना राजसत्तम । 040a
सर्वपाञ्चालसेनाभिः संवृतो रथसत्तमः ॥ 040c
नाकम्पत महाबाहुः स्ववीर्यं समुपाश्रितः । 041a
सायकांश्चैव विविधानश्वत्थाम्नि मुमोच ह ॥ 041c
तौ पुनः सन्न्यवर्तेतां प्राणद्यूतपणे रणे । 042a
निपीडयन्तौ बाणौघैः परस्परममर्षिणौ । 042c
उत्सृजन्तौ महेष्वासौ शरवृष्टीः समन्ततः ॥ 042e
द्रौणिपार्षतयोर्युद्धं घोररूपं भयानकम् । 043a
दृष्ट्वा सम्पूजयामासुः सिद्धचारणवादिकाः ॥ 043c
शरौघैः पूरयन्तौ तावाकाशं च दिशस्तथा । 044a
अलक्ष्यौ समयुध्येतां महत्कृत्वा शरैस्तमः ॥ 044c
नृत्यमानाविव रणे मण्डलीकृतकार्मुकौ । 045a
परस्परवधे यत्तौ सर्वभूतभयङ्करौ ॥ 045c
अयुध्येतां महाबाहू चित्रं लघु च सुष्ठु च । 046a
सम्पूज्यमानौ समरे योधमुख्यैः सहस्रशः ॥ 046c
तौ प्रबुद्धौ रणे दृष्ट्वा वने वन्यौ गजाविव । 047a
उभयोः सेनयोर्हर्षस्तुमुलः समपद्यत ॥ 047c
सिंहनादरवाश्चासन्दध्मुः शङ्खांश्च सैनिकाः । 048a
वादित्राण्यभ्यवाद्यन्त शतशोऽथ सहस्रशः ॥ 048c
तस्मिंस्तु तुमुले युद्धे भीरूणां भयवर्धने । 049a
मुहूर्तमपि तद्युद्धं समरूपं तदाऽभवत् ॥ 049c
ततो द्रौणिर्महाराज पार्षतस्य महात्मनः । 050a
ध्वजं धनुस्तथा छत्रमुभौ च पार्ष्णिसारथी । 050c
सूतमश्वांश्च चतुरो निहत्याभ्यद्रवद्रणे ॥ 050e
पाञ्चालांश्चैव तान्सर्वान्बाणैः सन्नतपर्वभिः । 051a
व्यद्रावयदमेयात्मा शतशोऽथ सहस्रशः ॥ 051c
ततस्तु विव्यथे सेना पाण्डवी भरतर्षभ । 052a
दृष्ट्वा द्रौणेर्महत्कर्म वासवस्येव संयुगे ॥ 052c
शतेन च शतं हत्वा पाञ्चालानां महारथः । 053a
त्रिभिश्च निशितैर्बाणैर्हत्वा त्रीन्वै महारथान् ॥ 053c
द्रौणिर्द्रुपदपुत्रस्य फल्गुनस्य च पश्यतः । 054a
नाशयामास पाञ्चालान्भूयिष्ठं ये व्यवस्थिताः ॥ 054c
ते वध्यमानाः पाञ्चालाः समरे सह सृञ्जयैः । 055a
अगच्छन्द्रौणिमुत्सृज्य विप्रकीर्णरथध्वजाः ॥ 055c
स जित्वा समरे शत्रून्द्रोणपुत्रो महारथः । 056a
ननाद सुमहानादं तपान्ते जलदो यथा ॥ 056c
स निहत्य बहूञ्छूरानश्वत्थामा व्यरोचत । 057a
युगान्ते सर्वभूतानि भस्म कृत्वेव पावकः ॥ 057c
सम्पूज्यमानो युधि कौरवेयैर्निर्जित्य सङ्ख्येऽरिगणान्सहस्रशः । 058a
व्यरोचत द्रोणसुतः प्रतापवान्यथा सुरेन्द्रोऽरिगणान्निहत्य वै ॥ ॥ 058c

इति श्रीमन्महाभारते द्रोणपर्वणि घटोत्कचवधपर्वणि चतुर्दशरात्रियुद्धे एकषष्ट्यधिकशततमोऽध्यायः ॥ 161 ॥

5-161-9 निकृतिर्वञ्चनम् ॥ 5-161-43 वादिकाः वन्दिनः ॥ एकषष्ट्यधिकशततमोऽध्यायः ॥