श्रीः अध्यायः 160 कृपगर्हणातितिक्षया कर्णवधायाभ्युत्तिष्ठतोऽश्वत्थाम्नः कृपदुर्योधनाभ्यां निवारणम् ॥ 1 ॥ अर्जुनेन कर्णपराजयो दुर्योधनेन रणाय द्रौणिचोदना च ॥ 2 ॥ सञ्जय उवाच 001
तथा परुषितं दृष्ट्वा सूतपुत्रेण मातुलम् । 001a
खड्गमुद्यम्य वेगेन द्रौणिरभ्यपतद्द्रुतम् ॥ 001c
ततः परमसङ्क्रुद्धः सिंहो मत्तमिव द्विपम् । 002a
प्रेक्षतः कुरुराजस्य द्रौणिः कर्णं समभ्ययात् ॥ 002c
अश्वत्थामोवाच 003
यदर्जुनगुणांस्तथ्यान्कीर्तयानं नराधम । 003a
शूरं द्वेषात्सुदुर्बुद्धे त्वं भर्त्सयसि मातुलम् ॥ 003c
विकत्थमानः शौर्येण सर्वलोकधनुर्धरम् | 004a
दर्पोत्सेधगृहीतोऽद्य न कञ्चिद्गणयन्मृधे ॥ 004c
क्व ते वीर्यं क्व चास्त्राणि यं त्वां निर्जित्य संयुगे । 005a
गाण्डीवधन्वा हतवान्प्रेक्षतस्ते जयद्रथम् ॥ 005c
येन साक्षान्महादेवो योधितः समरे पुरा । 006a
तमिच्छसि वृथा जेतुं सूताधम मनोरथैः ॥ 006c
यं हि कृष्णेन सहितं सर्वशस्त्रभृतां वरम् । 007a
जेतुं न शक्ताः सहिताः सेन्द्रा अपि सुरासुराः ॥ 007c
लोकैकवीरमजितमर्जुनं सूत संयुगे । 008a
किं पुनस्त्वं सुदुर्बुद्धे सहैभिर्वसुधाधिपैः ॥ 008c
कर्ण पश्य सुदुर्बुद्धे तिष्ठेदानीं नराधम । 009a
एष तेऽद्य शिरः कायादुद्धरामि सुदुर्मते ॥ 009c
सञ्जय उवाच 010
तमुद्यतं तु वेगेन राजा दुर्योधनः स्वयम् । 010a
न्यवारयन्महातेजाः कृपश्च द्विपदां वरः ॥ 010c
कर्ण उवाच 011
शूरोऽयं समरश्लाघी दुर्मतिश्च द्विजाधमः । 011a
आसादयतु मद्वीर्यं मुञ्चेमं कुरुसत्तम ॥ 011c
अश्वत्थामोवाच 012
तवैतत्क्षम्यतेऽस्माभिः सूतात्मज सुदुर्मते । 012a
दर्पमुत्सिक्तमेतत्ते फल्गुनो नाशयिष्यति ॥ 012c
दुर्योधन उवाच 013
अश्वत्थामन्प्रसीदस्व क्षन्तुमर्हसि मानद । 013a
कोपः खलु न कर्तव्यः सूतपुत्रं कथञ्चन ॥ 013c
त्वयि कर्णे कृपे द्रोणे मद्रराजेऽथ सौबले । 014a
महत्कार्यं समासक्तं प्रसीद द्विजसत्तम ॥ 014c
एते ह्यभिमुखाः सर्वे राधेयेन युयुत्सवः । 015a
आयान्ति पाण्डवा ब्रह्मन्नाह्वयन्तः समन्ततः ॥ 015c
सञ्जय उवाच 016
प्रसाद्यमानस्तु ततो राज्ञा द्रौणिर्महामनाः । 016a
प्रससाद महाराज क्रोधवेगसमन्वितः ॥ 016c
ततः कृपोऽप्युवाचेदमाचार्यः सुमहामनाः । 017a
सौम्यस्वभावाद्राजेन्द्र क्षिप्रमागतमार्दवः ॥ 017c
कृप उवाच 018
तवैतत्क्षम्यतेऽस्माभिः सूतात्मज सुदुर्मते । 018a
दर्पमुत्सिक्तमेतत्ते फल्गुनो नाशयिष्यति ॥ 018c
सञ्जय उवाच 019
ततस्ते पाण्डवा राजन्पाञ्चालाश्च यशस्विनः । 019a
आजग्मुः सहिताः कर्णं तर्जयन्तः समन्ततः ॥ 019c
कर्णोऽपि रथिनां श्रेष्ठश्चापमुद्यम्य वीर्यवान् । 020a
कौरवाग्र्यैः परिवृतः शक्रो देवगणैरिव । 020c
पर्यतिष्ठत तेजस्वी स्वबाहुबलमाश्रितः ॥ 020e
ततः प्रववृते युद्धं कर्णस्य सह पाण्डवैः । 021a
भीषणं सुमहाराज सिंहनादविराजितम् ॥ 021c
ततस्ते पाण्डवा राजन्पाञ्चालाश्च यशस्विनः । 022a
दृष्ट्वा कर्णं महाबाहुमुच्चैः शब्दमथानदन् ॥ 022c
अयं कर्णः कुतः कर्णस्तिष्ठ कर्ण महारणे । 023a
युध्यस्व सहितोऽस्माभिर्दुरात्मन्पुरुषाधम ॥ 023c
अन्ये तु दृष्ट्वा राधेयं क्रोधरक्तेक्षणाऽब्रुवन् । 024a
हन्यतामयमुत्सिक्तः सूतपुत्रोऽल्पचेतनः । 024c
सर्वैः पार्थिवशार्दूलैर्नानेनार्थोऽस्ति जीवता || 024e
अत्यन्तवैरी पार्थानां सततं पापपूरुषः । 025a
एष मूलमनर्थानां दुर्योधनमते स्थितः ॥ 025c
घ्नतैनमिति जल्पन्तः क्षत्रियाः समुपाद्रवन् । 026a
महता शरवर्षेण च्छादयन्तो महारथाः । 026c
वधार्थं सूतपुत्रस्य पाण्डवेयेन चोदिताः ॥ 026e
तांस्तु सर्वांस्तथा दृष्ट्वा धावमानान्महारथान् । 027a
न विव्यथे सूतपुत्रो न च त्रासमगच्छत ॥ 027c
दृष्ट्वा सागरकल्पं तमुद्धूतं सैन्यसागरम् । 028a
पिप्रीषुस्तव पुत्राणां सङ्ग्रामेष्वपराजितः ॥ 028c
सायकौघेन बलवान्क्षिप्रकारी महाबलः । 029a
वारयामास तत्सैन्यं समन्ताद्भरतर्षभ ॥ 029c
ततस्तु शरवर्षेण पार्थिवास्तमवारयन् । 030a
धनूंषि ते विधुन्वानाः शतशोऽथ सहस्रशः । 030c
अयोधयन्त राधेयं शक्रं दैत्यगणा इव ॥ 030e
शरवर्षं तु तत्कर्णः पार्थिवैः समुदीरितम् । 031a
शरवर्षेण महता समन्ताद्व्यकिरत्प्रभो ॥ 031c
तद्युद्धमभवत्तेषां कृतप्रतिकृतैषिणाम् । 032a
यथा देवासुरे युद्धे शक्रस्य सह दानवैः ॥ 032c
तत्राद्भुतमपश्याम सूतपुत्रस्य लाघवम् । 033a
यदेनं सर्वतो यत्ता नाप्नुवन्ति परे युधि ॥ 033c
निवार्य च शरौघांस्तान्पार्थिवानां महारथः । 034a
युगेष्वीषासु च्छत्रेषु ध्वजेषु च हयेषु च । 034c
आत्मनामाङ्कितान्घोरान्राधेयः प्राहिणोच्छरान् ॥ 034e
ततस्ते व्याकुलीभूता राजानः कर्णपीडिताः । 035a
बभ्रमुस्तत्र तत्रैव गावः शीतार्दिता इव ॥ 035c
हयानां वध्यमानानां गजानां रथिनां तथा । 036a
तत्रतत्राभ्यवेक्षाम सङ्घान्कर्णेन ताडितान् ॥ 036c
शिरोभिः पतितै राजन्बाहुभिश्च समन्ततः । 037a
आस्तीर्णा वसुधा सर्वा शूराणामनिवर्तिनाम् ॥ 037c
हतैश्च हन्यमानैश्च निष्टनद्भिश्च सर्वशः । 038a
बभूवायोधनं रौद्रं वैवस्वतपुरोपमम् ॥ 038c
ततो दुर्योधनो राजा दृष्ट्वा कर्णस्य विक्रमम् । 039a
अश्वत्थामानमासाद्य वाक्यमेतदुवाच ह ॥ 039c
युध्यतेऽसौ रणे कर्णो दंशितः सर्वपार्थिवैः ॥ 040ac
पश्यैतां द्रवतीं सेनां कर्णसायकपीडिताम् । 041a
कार्तिकेयेन विध्वस्तामासुरीं पृतनामिव ॥ 041c
दृष्ट्वैतां निर्जितां सेनां रणे कर्णेन धीमता । 042a
अभियात्येष बीभत्सुः सूतपुत्रजिघांसया ॥ 042c
तद्यथा प्रेक्षमाणानां सूतपुत्रं महारथम् । 043a
न हन्यात्पाण्डवः सङ्ख्ये तथा नीतिर्विधीयताम् ॥ 043c
ततो द्रौणिः कृपः शल्यो हार्दिक्यश्च महारथः । 044a
प्रत्युद्ययुस्तदा पार्थं सूतपुत्रपरीप्सया । 044c
आयान्तं वीक्ष्य कौन्तेयं शक्रं दैत्यचमूमिव ॥ 044e
बीभत्सुरपि राजेन्द्र पाञ्चालैरभिसंवृतः । 045a
प्रत्युद्ययौ तदा कर्णं यथा वृत्रं शतक्रतुः ॥ 045c
धृतराष्ट्र उवाच 046
संरब्धं फल्गुनं दृष्ट्वा कालान्तकयमोपमम् । 046a
कर्णो वैकर्तनः सूत प्रत्यपद्यत्किमुत्तरम् ॥ 046c
यो ह्यस्पर्धत पार्थेन नित्यमेव महारथः । 047a
आशंसते च बीभत्सुं युद्धे जेतुं सुदारुणम् ॥ 047c
स तु तं सहसा प्राप्तं नित्यमत्यन्तवैरिणम् । 048a
कर्णो वैकर्तनः सूत किमुत्तरमपद्यत ॥ 048c
सञ्जय उवाच 049
आयान्तं पाण्डवं दृष्ट्वा गजं प्रतिगजो यथा । 049a
असम्भ्रान्तो रणे कर्णः प्रत्युदीयाद्धनञ्जयम् ॥ 049c
तमापतन्तं वेगेन वैकर्तनमजिह्मगैः । 050a
छादयामास पार्थोऽथ कर्णस्तु विजयं शरैः ॥ 050c
स कर्णं शरजालेन च्छादयामास पाण्डवः । 051a
ततः कर्णः सुसंरब्धः शरैस्त्रिभिरविध्यत ॥ 051c
तस्य तल्लाघवं पार्थो नामृष्यत महाबलः ॥ 052ac
तस्मै बाणाञ्शिलाधौतान्प्रसन्नाग्रानजिह्मगान् । 053a
प्राहिणोत्सूतपुत्राय त्रिशतं शत्रुतापनः ॥ 053c
विव्याध चैनं संरब्धो बाणेनैकेन वीर्यवान् । 054a
सव्ये भुजाग्रे बलवान्नाराचेन हसन्निव ॥ 054c
तस्य विद्धस्य बाणेन कराच्चापं पपात ह ॥ 055ac
पुनरादाय तच्चापं निमेषार्धान्महाबलः । 056a
छादयामास बाणौघैः फल्गुनं कृतहस्तवत् ॥ 056c
शरवृष्टिं तु तां मुक्तां सूतपुत्रेण भारत । 057a
व्यधमच्छरवर्षेण स्मयन्निव धनञ्जयः ॥ 057c
तौ परस्परमासाद्य शरवर्षेण पार्थिव । 058a
छादयेतां महेष्वासौ कृतप्रतिकृतैषिणौ ॥ 058c
तदद्भुतं महद्युद्धं कर्णपाण्डवयोर्मृधे । 059a
क्रुद्धयोर्वासिताहेतोर्वन्ययोर्गजयोरिव ॥ 059c
ततः पार्थो महेष्वासो दृष्ट्वा कर्णस्य विक्रमम् । 060a
मुष्टिदेशे धनुस्तस्य चिच्छेद त्वरयाऽन्वितः ॥ 060c
अश्वांश्च चतुरो भल्लैरनयद्यमसादनम् । 061a
सारथेश्च शिरः कायादहरच्छत्रुतापनः ॥ 061c
अथैनं छिन्नधन्वानं हताश्वं हतसारथिम् । 062a
विव्याध सायकैः पार्थश्चतुर्भिः पाण्डुनन्दनः ॥ 062c
हताश्वात्तु रथात्तूर्णमवप्लुत्य नरर्षभः । 063a
आरुरोह रथं तूर्णं कृपस्य शरपीडितः ॥ 063c
स नुन्नोऽर्जुनबाणौघैराचितः शल्यको यथा । 064a
जीवितार्थमभिप्रेप्सुः कृपस्य रथमारुहत् ॥ 064c
राधेयं निर्जितं दृष्ट्वा तावका भरतर्षभ । 065a
धनञ्जयशरैर्नुन्नाः प्राद्रवन्त दिशो दश ॥ 065c
द्रवतस्तान्समालोक्य राजा दुर्योधनो नृप । 066a
निवर्तयामास तदा वाक्यमेतदुवाच ह ॥ 066c
अलं द्रुतेन वः शूरास्तिष्ठध्वं क्षत्रियर्षभाः । 067a
एष पार्थवधायाहं स्वयं गच्छामि संयुगे । 067c
अहं पार्थान्हनिष्यामि सपाञ्चालान्ससोमकान् ॥ 067e
अद्य मे युध्यमानस्य सह गाण्डीवधन्वना । 068a
द्रक्ष्यन्ति विक्रमं पार्थाः कालस्येव युगक्षये ॥ 068c
अद्य मद्बाणजालानि विमुक्तानि सहस्रशः । 069a
द्रक्ष्यन्ति समरे योधाः शलभानामिवायतीः ॥ 069c
अद्य बाणमयं वर्षं सृजतो मम धन्विनः । 070a
जीमूतस्येव घर्मान्ते द्रक्ष्यन्ति युधि सैनिकाः ॥ 070c
जेष्याम्यद्य रणे पार्थं सायकैर्नतपर्वभिः । 071a
तिष्ठध्वं समरे शूरा भयं त्यजत फल्गुनात् ॥ 071c
न हि मद्वीर्यमासाद्य फल्गुनः प्रसहिष्यति । 072a
यथा वेलां समासाद्य सागरो मकरालयः ॥ 072c
इत्युक्त्वा प्रययौ राजा सैन्येन महता वृतः । 073a
फल्गुनं प्रतिदुर्धर्षः क्रोधात्संरक्तलोचनः ॥ 073c
तं प्रयान्तं महाबाहुं दृष्ट्वा शारद्वतस्तदा । 074a
अश्वत्थामानमासाद्य वाक्यमेतदुवाच ह ॥ 074c
एष राजा महाबाहुरमर्षी क्रोधमूर्च्छितः । 075a
पतङ्गवृत्तिमास्थाय फल्गुनं योद्धुमिच्छति ॥ 075c
यावन्नः पश्यमानानां प्राणान्पार्थेन सङ्गतः । 076a
न जह्यात्पुरुषव्याघ्रस्तावद्वारय कौरवम् ॥ 076c
यावत्फल्गुनबाणानां गोचरं नाद्य गच्छति । 077a
कौरवः पार्थिवो वीरस्तावद्वारय संयुगे ॥ 077c
यावत्पार्थशरैर्घोरैर्निर्मुक्तोरगसन्निभैः । 078a
न भस्मीक्रियते राजा तावद्युद्धान्निवार्यताम् ॥ 078c
अयुक्तमिव पश्यामि तिष्ठत्स्वस्मासु मानद । 079a
स्वयं युद्धाय यद्राजा पार्थं यात्यसहायवान् ॥ 079c
दुर्लभं जीवितं मन्ये कौरव्यस्य किरीटिना । 080a
युध्यमानस्य पार्थेन शार्दूलेनेव हस्तिनः ॥ 080c
मातुलेनैवमुक्तस्तु द्रौणिः शस्त्रभृतां वरः । 081a
दुर्योधनमिदं वाक्यं त्वरितः समभाषत ॥ 081c
मयि जीवति गान्धारे न युद्धं गन्तुमर्हसि । 082a
मामनादृत्य कौरव्य तव नित्यं हितैषिणम् ॥ 082c
न हि सम्भ्रमः कार्यः पार्थस्य विजयं प्रति । 083a
अहमावारयिष्यामि पार्थं तिष्ठ सुयोधन ॥ 083c
दुर्योधन उवाच 084
आचार्यः पाण्डुपुत्रान्वै पुत्रवत्परिरक्षति । 084a
त्वमप्युपेक्षां कुरुषे तेषु नित्यं द्विजोत्तम ॥ 084c
मम वा मन्दभाग्यत्वान्मन्दस्ते विक्रमो युधि । 085a
धर्मराजप्रियार्थं वा द्रौपद्या वा न विद्म तत् ॥ 085c
धिगस्तु मम लुब्धस्य यत्कृते सर्वबान्धवाः । 086a
सुखार्हाः परमं दुःखं प्राप्नुवन्त्यपराजिताः ॥ 086c
को हि शस्त्रविदां मुख्यो महेश्वरसमो युधि । 087a
शत्रुं न क्षपयेच्छक्तो यो न स्याद्गौतमीसुतः ॥ 087c
अश्वत्थामन्प्रसीदस्व नाशयैतान्ममाहितान् । 088a
तवास्त्रगोचरे शक्ताः स्थातुं देवा न दानवाः ॥ 088c
पाञ्चालान्सोमकांश्चैव जहि द्रौणे सहानुगान् । 089a
वयं शेषान्हनिष्यामस्त्वयैव परिरक्षिताः ॥ 089c
एते हि सोमका विप्र पाञ्चालाश्च यशस्विनः । 090a
मम सैन्येषु सङ्क्रुद्धा विचरन्ति दवाग्निवत् ॥ 090c
तान्वारय महाबाहो केकयांश्च नरोत्तम । 091a
पुरा कुर्वन्ति निःशेषं रक्ष्यमाणाः किरीटिना ॥ 091c
अश्वत्थामंस्त्वरायुक्तो याहि शीघ्रमरिन्दम । 092a
आदौ वा यदि वा पश्चात्तवेदं कर्म मारिष ॥ 092c
त्वमुत्पन्नो महाबाहो पाञ्चालानां वधं प्रति । 093a
करिष्यसि जगत्सर्वमपाञ्चालं किलोद्यतः ॥ 093c
एवं सिद्धाऽब्रुवन्वाचो भविष्यति च तत्तथा । 094a
तस्मात्त्वं पुरुषव्याघ्र पाञ्चालाञ्जहि सानुगान् ॥ 094c
न तेऽस्त्रगोचरे शक्ताः स्थातुं देवाः सवासवाः । 095a
किमु पार्थाः सपाञ्चालाः सत्यमेतद्ब्रवीमि ते ॥ 095c
न त्वां समर्थाः सङ्ग्रामे पाण्डवाः सह सोमकैः । 096a
बलाद्योधयितुं वीर सत्यमेतद्ब्रवीमि ते ॥ 096c
गच्छगच्छ महाबाहो न नः कालात्ययो भवेत् । 097a
इयं हि द्रवते सेना पार्थसायकपीडिता ॥ 097c
शक्तो ह्यसि महाबाहो दिव्येन स्वेन तेजसा । 098a
निग्रहे पाण्डुपुत्राणां पाञ्चालानां च मानद ॥ ॥ 098c

इति श्रीमन्महाभारते द्रोणपर्वणि घटोत्कचवधपर्वणि चतुर्दशरात्रियुद्धे षष्ट्यधिकशततमोऽध्यायः ॥ 160 ॥

5-160-04 कञ्चिद्धनुर्धरं नगणयन्नित्यन्वयः ॥