श्रीः अध्यायः 159 कर्णेन पाण्डवहननम् प्रतिजानानमात्मानमधिक्षिपतः कृपस्य जिह्वाच्छेदप्रतिज्ञानम् ॥ 1 ॥ सञ्जय उवाच 001
उदीर्यमाणं तद्दृष्ट्वा पाण्डवानां महद्बलम् । 001a
अविषह्यं च मन्वानः कर्णं दुर्योधनोऽब्रवीत् ॥ 001c
अयं स कालः सम्प्राप्तो मित्राणां मित्रवत्सल । 002a
त्रायस्व समरे कर्ण सर्वान्योधान्महारथान् ॥ 002c
पाञ्चालैर्मत्स्यकैकेयैः पाण्डवैश्च महारथैः । 003a
वृतान्समन्तात्सङ्क्रुद्धैर्निःश्वसद्भिरिवोरगैः ॥ 003c
एते नदन्ति संहृष्टाः पाण्डवा जितकाशिनः । 004a
शक्रोपमाश्च बहवः पाञ्चालानां रथव्रजाः ॥ 004c
कर्ण उवाच 005
परित्रातुमिह प्राप्तो यदि पार्थं पुरन्दरः । 005a
तमप्याशु पराजित्य ततो हन्ताऽस्मि पाण्डवम् ॥ 005c
सत्यं ते प्रतिजानामि समाश्वसिहि भारत । 006a
हन्तास्मि पाण्डुतनयान्पाञ्चालांश्च समागतान् ॥ 006c
जयं ते प्रतिदास्यामि वासवस्येव पावकिः । 007a
प्रियं तव मया कार्यमिति जीवामि पार्थिव ॥ 007c
सर्वेषामेव पार्थानां फल्गुनो बलवत्तरः । 008a
तस्यामोघां विमोक्ष्यामि शक्तिं शक्रविनिर्मिताम् ॥ 008c
तस्मिन्हते महेष्वासे भ्रातरस्तस्य मानद । 009a
तव वश्या भविष्यन्ति वनं यास्यन्ति वा पुनः ॥ 009c
मयि जीवति कौरव्य विषादं मा कृथाः क्वचित् । 010a
अहं जेष्यामि समरे सहितान्सर्वपाण्डवान् ॥ 010c
पाञ्चालान्केकयांश्चैव वृष्णींश्चापि समागतान् । 011a
बाणौघैः शकलीकृत्य तव दास्यामि मेदिनीम् ॥ 011c
सञ्जय उवाच 012
एवं ब्रुवाणं कर्णं तु कृपः शारद्वतोऽब्रवीत् । 012a
स्मयन्निव महाबाहुः सूतपुत्रमिदं वचः ॥ 012c
शोभनं शोभनं कर्ण सनाथः कुरुपुङ्गवः । 013a
त्वया नाथेन राधेय वचसा यदि सिध्यति ॥ 013c
बहुशः कत्थसे कर्ण कौरवस्य समीपतः । 014a
न तु ते विक्रमः कश्चिद्दृश्यते फलमेव वा ॥ 014c
समागमः पाण्डुसुतैर्दृष्टस्ते बहुशो युधि । 015a
सर्वत्र निर्जितश्चासि पाण्डवैः सूतनन्दन ॥ 015c
ह्रियमाणे तदा कर्ण गन्धर्वैर्धृतराष्ट्रजे । 016a
तदाऽयुध्यन्त सैन्यानि त्वमेकोऽग्रेऽपलायिथाः ॥ 016c
विराटनगरे चापि समेताः सर्वकौरवाः । 017a
पार्थेन निर्जिता युद्धे त्वं च कर्ण सहानुजः ॥ 017c
एकस्याप्यसमर्थस्त्वं फल्गुनस्य रणाजिरे । 018a
कथमुत्सहसे जेतुं सकृष्णान्सर्वपाण्डवान् ॥ 018c
अब्रुवन्कर्ण युध्यस्व कत्थसे बहु सूतज । 019a
अनुक्त्वा विक्रमेद्यस्तु तद्वै सत्पुरुषव्रतम् ॥ 019c
गर्जित्वा सूतपुत्र त्वं शारदाभ्र इवाजलः । 020a
निष्फलो दृश्यसे कर्ण तच्च राजा न बुध्यते ॥ 020c
तावद्गर्जस्व राधेय यावत्पार्थं न पश्यसि । 021a
आरात्पार्थं हि ते दृष्ट्वा दुर्लभं गर्जितं पुनः ॥ 021c
त्वमनासाद्य तान्बाणान्फल्गुनस्य विगर्जसि । 022a
पार्थसायकविद्धस्य दुर्लभं गर्जितं तव ॥ 022c
बाहुभिः क्षत्रियाः शूरा वाग्भिः शूरा द्विजातयः । 023a
धनुषा फल्गुनः शूरः कर्णः शूरो मनोरथैः । 023c
तोषितो येन रुद्रोऽपि कः पार्थं प्रतिघातयेत् ॥ 023e
एवं संरुषितस्तेन तदा शारद्वतेन ह । 024a
कर्णः प्रहरतां श्रेष्ठः कृपं वाक्यमथाब्रवीत् ॥ 024c
शूरा गर्जन्ति सततं प्रावृषीव बलाहकाः । 025a
फलं चाशु प्रयच्छन्ति बीजमुप्तमनूषरे ॥ 025c
दोषमत्र न पश्यामि शूराणां रणमूर्धनि । 026a
तत्तद्विकत्थमानानां भारं चोद्वहतां मृधे ॥ 026c
यं भारं पुरुषो वोढुं मनसा हि व्यवस्यति । 027a
दैवमस्य ध्रुवं तत्र साहाय्यायोपपद्यते ॥ 027c
व्यवसायद्वितीयोऽहं मनसा भारमुद्वहन् । 028a
हत्वा पाण्डुसुतानाजौ सकृष्णान्सहसात्वतान् । 028c
गर्जामि यद्यहं विप्र तव किं तत्र नश्यति ॥ 028e
वृथा शूरा न गर्जन्ति सजला इव तोयदाः । 029a
सामर्थ्यमात्मनो ज्ञात्वा ततो गर्जन्ति पण्डिताः ॥ 029c
सोऽहमद्य रणे यत्तौ सहितौ कृष्णपाण्डवौ । 030a
उत्सहामि रणे जेतुं ततो गर्जामि गौतम ॥ 030c
पश्य त्वं गर्जितस्यास्य फलं मे विप्र सानुगान् । 031a
हत्वा पाण्डुसुतानाजौ सहकृष्णान्ससात्वतान् । 031c
दुर्योधनाय दास्यामि पृथिवीं हतकण्टकाम् ॥ 031e
कृप उवाच 032
मनोरथप्रलापा मे न ग्राह्यास्तव सूतज ॥ 032ac
सदा क्षिपसि वै कृष्णौ धर्मराजं च पाण्डवम् । 033a
ध्रुवस्तत्र जयः कर्ण यत्र युद्धविशारदौ ॥ 033c
देवगन्धर्वयक्षाणां मनुष्योरगरक्षसाम् । 034a
दंशितानामपि रणे अजेयौ कृष्णपाण्डवौ ॥ 034c
ब्रह्मण्यः सत्यवाग्दान्तो गुरुदैवतपूजकः । 035a
नित्यं धर्मरतश्चैव कृतास्त्रश्च विशेषतः ॥ 035c
धृतिमांश्च कृतज्ञश्च धर्मपुत्रो युधिष्ठिरः । 036a
भ्रातरश्चास्य बलिनः सर्वास्त्रेषु कृतश्रमाः ॥ 036c
गुरुवृत्तिरताः प्राज्ञा धर्मनित्या यशस्विनः । 037a
सम्बन्धिनश्चेन्द्रवीर्याः स्वनुरक्ताः प्रहारिणः ॥ 037c
धृष्टद्युम्नः शिखण्डी च दौर्मुखिर्जनमेजयः । 038a
चन्द्रसेनो रुद्रसेनः कीर्तिधर्मा ध्रुवो धरः ॥ 038c
वसुचन्द्रो दामचन्द्रः सिंहचन्द्रः सुतेजनः । 039a
द्रुपदस्य तथा पुत्रा द्रुपदश्च महास्त्रवित् ॥ 039c
येषामर्थाय संयत्तो मत्स्यराजः सहानुजः । 040a
शतानीकः सूर्यदत्तः श्रुतानीकः श्रुतध्वजः ॥ 040c
बलानीको जयानीको जयाश्वो रथवाहनः । 041a
चन्द्रोदयः समरथो विराटभ्रातरः शुभाः ॥ 041c
यमौ च द्रौपदेयाश्च राक्षसश्च घटोत्कचः । 042a
येषामर्थाय युध्यन्ते न तेषां विद्यते क्षयः ॥ 042c
एते चान्ये च बहवो गणाः पाण्डुसुतस्य वै ॥ 043ac
कामं खलु जगत्सर्वं सदेवासुरमानुषम् । 044a
सयक्षराक्षसगणं सभूतभुजगद्विपम् । 044c
निःशेषमस्त्रवीर्येण कुर्वाते भीमफल्गुनौ ॥ 044e
युधिष्ठिरश्च पृथिवीं निर्दहेद्घोरचक्षुषा ॥ 045ac
अप्रमेयबलः शौरिर्येषामर्थे च दंशितः । 046a
कथं तान्संयुगे कर्ण जेतुमुत्सहसे परान् ॥ 046c
महानपनयस्त्वेष नित्यं हि तव सूतज । 047a
यस्त्वमुत्सहसे योद्धुं समरे शौरिणा सह ॥ 047c
सञ्जय उवाच 048
एवमुक्तस्तु राधेयः प्रहसन्भरतर्षभ । 048a
अब्रवीच्च तदा कर्णो गुरुं शारद्वतं कृपम् ॥ 048c
सत्यमुक्तं त्वया ब्रह्मन्पाण्डवान्प्रति यद्वचः । 049a
एते चान्ये च बहवो गुणाः पाण्डुसुतेषु वै ॥ 049c
अजय्याश्च रणे पार्था देवैरपि सवासवैः । 050a
सदैत्ययक्षगन्धर्वैः पिशाचोरगराक्षसैः ॥ 050c
तथापि पार्थाञ्जेष्यामि शक्त्या वासवदत्तया । 051a
मम ह्यमोघा दत्तेयं शक्तिः शक्रेण वै द्विज । 051c
एतया निहनिष्यामि सव्यसाचिनमाहवे ॥ 051e
हते तु पाण्डवे कृष्णे भ्रातरश्चास्य सोदराः । 052a
अनर्जुना न शक्ष्यन्ति महीं भोक्तुं कथञ्चन ॥ 052c
तेषु नष्टेषु सर्वेषु पृथिवीयं ससागरा । 053a
अयत्नात्कौरवेन्द्रस्य वशे स्थास्यति गौतम ॥ 053c
सुनीतैरिह सर्वार्थाः सिध्यन्ते नात्र संशयः । 054a
एतमर्थमहं ज्ञात्वा ततो गर्जामि गौतम ॥ 054c
त्वं तु विप्रश्च वृद्धश्च अशक्तश्चापि संयुगे । 055a
कृतस्नेहश्च पार्थेषु मोहान्मामवमन्यसे ॥ 055c
यद्येवं वक्ष्यसे भूयो ममाप्रियमिह द्विज । 056a
ततस्ते खड्गमुद्यम्य जिह्वां छेत्स्यामि दुर्मते ॥ 056c
यच्चापि पाण्डवान्विप्र स्तोतुमिच्छसि संयुगे । 057a
भीषयन्सर्वसैन्यानि कौरवेयांश्च दुर्मते ॥ 057c
अत्रापि शृणु मे वाक्यं यथावद्ब्रुवतो द्विज । 058a
दुर्योधनश्च द्रोणश्च शकुनिर्दुर्मुखो जयः ॥ 058c
दुःशासनो वृषसेनो मद्रराजस्त्वमेव च । 059a
सोमदत्तश्च भूरिश्च तथा द्रौणिर्विविंशतिः ॥ 059c
तिष्ठेयुर्दंशिता यत्र सर्वे युद्धविशारदाः । 060a
जयेदेतान्नरः को नु शक्रतुल्यबलोऽप्यरिः ॥ 060c
शूराश्च हि कृतास्त्राश्च बलिनः स्वर्गलिप्सवः । 061a
धर्मज्ञा युद्धकुशला हन्युर्युद्धे सुरानपि ॥ 061c
एते स्थास्यन्ति सङ्ग्रामे पाण्डवानां वधार्थिनः । 062a
जयमाकाङ्क्षमाणा हि कौरवेयस्य दंशिताः ॥ 062c
दैवायत्तमहं मन्ये जयं सुबलिनामपि । 063a
यत्र भीष्मो महाबाहुः शेते शरशताचितः ॥ 063c
विकर्णश्चित्रसेनश्च बाह्लीकोऽथ जयद्रथः । 064a
भूरिश्रवा जयश्चैव जलसन्धः सुदक्षिणः ॥ 064c
शलश्च रथिनां श्रेष्ठो भगदत्तश्च वीर्यवान् । 065a
एते चान्ये च राजानो देवैरपि सुदुर्जयाः ॥ 065c
निहताः समरे शूराः पाण्डवैर्बलवत्तराः । 066a
किमन्यद्दैवसंयोगान्मन्यसे पुरुषाधम ॥ 066c
यांश्च तांस्तौषि सततं दुर्योधनरिपून्द्विज । 067a
तेषामपि हताः शूराः शतशोऽथ सहस्रशः ॥ 067c
क्षीयन्ते सर्वसैन्यानि कुरूणां पाण्डवैः सह । 068a
प्रभावं नात्र पश्यामि पाण्डवानां कथञ्चन ॥ 068c
यस्तान्बलवतो नित्यं मन्यसे त्वं द्विजाधम । 069a
यतिष्येऽहं यथाशक्ति योद्धुं तैः सह संयुगे । 069c
दुर्योधनहितार्थाय जयो दैवे प्रतिष्ठितः ॥ ॥ 069e

इति श्रीमन्महाभारते द्रोणपर्वणि घटोत्कचवधपर्वणि चतुर्दशरात्रियुद्धे एकोनषष्ट्यधिकशततमोऽध्यायः ॥ 159 ॥