श्रीः अध्यायः 158 भीमेन बाह्लीकवधः ॥ 1 ॥ तथा दुर्योधनानुजदशकस्य शकुनिभ्रातृपञ्चकस्य च वधः ॥ 2 ॥ सञ्जय उवाच 001
द्रुपदस्यात्मजान्दृष्ट्वा कुन्तिभोजसुतांस्तथा । 001a
द्रोणपुत्रेण निहतान्राक्षसांश्च सहस्रशः ॥ 001c
युधिष्ठिरो भीमसेनो धृष्टद्युम्नश्च पार्षतः । 002a
युयुधानश्च संयत्ता युद्धायैव मनो दधुः ॥ 002c
सोमदत्तः पुनः क्रुद्धो दृष्ट्वा सात्यकिमाहवे । 003a
महता शरवर्षेण च्छादयामास भारत ॥ 003c
ततः समभवद्युद्धमतीव भयवर्धनम् । 004a
त्वदीयानां परेषां च घोरं विजयकाङ्क्षिणाम् ॥ 004c
तं दृष्ट्वा समुपायान्तं रुक्मपुङ्खैः शिलाशितैः । 005a
दशभिः सात्वतस्यार्थे भीमो विव्याध सायकैः ॥ 005c
सोमदत्तोऽपि तं वीरं शतेन प्रत्यविध्यत । 006a
सात्वतस्त्वभिसङ्क्रुद्धः पुत्राधिभिरभिप्लुतम् ॥ 006c
वृद्धं वृद्धगुणैर्युक्तं ययातिमिव नाहुषम् । 007a
विव्याध दशभिस्तीक्ष्णैः शरैर्वज्रनिपातनैः । 007c
शक्त्या चैनं विनिर्भिद्य पुनर्विव्याध सप्तभिः ॥ 007e
ततस्तु सात्यकेरर्थे भीमसेनो नवं दृढम् । 008a
मुमोच परिघं घोरं सोमदत्तस्य मूर्धनि ॥ 008c
सात्वतोऽप्यग्निसङ्काशं मुमोच शरमुत्तमम् । 009a
सोमदत्तोरसि क्रुद्धः सुपत्रं निशितं युधि ॥ 009c
युगपत्पेततुर्वीर घोरौ परिघमार्गणौ । 010a
शरीरे सोमदत्तस्य स पपात महारथः ॥ 010c
व्यामोहिते तु तनये बाह्लीकस्तमुपाद्रवत् । 011a
विसृजञ्छरवर्षाणि कालवर्षीव तोयदः ॥ 011c
भीमोऽथ सात्वतस्यार्थे बाह्लीकं नवभिः शरैः । 012a
प्रातिपेयं महात्मानं विव्याध रणमूर्धनि ॥ 012c
प्रातिपेयस्तु सङ्क्रुद्धः शक्तिं भीमस्य वक्षसि । 013a
निचखान महाबाहुः पुरन्दर इवाशनिम् ॥ 013c
स तथाऽभिहतो भीमश्चकम्पे च मुमोह च । 014a
प्राप्य चेतश्च बलवान्गदामस्मै ससर्ज ह ॥ 014c
सा पाण्डवेन प्रहिता बाह्लीकस्य शिरोऽहरत् । 015a
स पपात हतः पृथ्व्यां वज्राहत इवाद्रिराट् ॥ 015c
तस्मिन्विनिहते वीरे बाह्लीके पुरुषर्षभ । 016a
पुत्रास्तेऽभ्यर्दयन्भीमं दश दाशरथेः समाः ॥ 016c
नागदत्तो दृढरथो महाबाहुरयोभुजः । 017a
दृढः सुहस्तो विरजाः प्रमाथ्युग्रोऽनुयाय्यपि ॥ 017c
तान्दृष्ट्वा चुक्रुधे भीमो जगृहे भारसाधनान् । 018a
एकमेकं समुद्दिश्य पातयामास मर्मसु ॥ 018c
ते विद्धा व्यसवः पेतुः स्यन्दनेभ्यो हतौजसः । 019a
चण्डवातप्रभग्नास्तु पर्वताग्रान्महीरुहाः ॥ 019c
नाराचैर्दशभिर्भीमस्तान्निहत्य तवात्मजान् । 020a
कर्णस्य दयितं पुत्रं वृषसेनमवाकिरत् ॥ 020c
ततो वृकरथो नाम भ्राता कर्णस्य विश्रुतः । 021a
जघान भीमं नाराचैस्तमप्यभ्यद्रवद्बली ॥ 021c
ततः सप्तरथान्वीरः श्यालानां तव भारत । 022a
निहत्य भीमो नाराचैः शतचन्द्रमपोथयत् ॥ 022c
अमर्षयन्तो निहतं शतचन्द्रं महारथम् । 023a
शकुनेर्भ्रातरो वीरा गवाक्षः शरभो विभुः ॥ 023c
सुभगो भानुदत्तश्च शूराः पञ्च महारथाः । 024a
अभिद्रुत्य शरैस्तीक्ष्णैर्भीमसेनमताडयन् ॥ 024c
स ताड्यमानो नाराचैर्वृष्टिवेगैरिवाचलः । 025a
जघान पञ्चभिर्बाणैः पञ्चैवातिरथान्बली ॥ 025c
तान्दृष्ट्वा निहतान्वीरान्विचेलुर्नृपसत्तमाः ॥ 026ac
ततो युधिष्ठिरः क्रुद्धस्तवानीकमशातयत् | 027a
मिषतः कुम्भयोनेस्तु पुत्राणां तव चानघ ॥ 027c
अम्बष्ठान्मालवाञ्छूरांस्त्रिगर्तान्सशिबीनपि । 028a
प्राहिणोन्मृत्युलोकाय क्रुद्धो युद्धे युधिष्ठिरः ॥ 028c
अभीषाहाञ्छूरसेनान्बाह्लीकान्सवसातिकान् । 029a
निहत्य पृथिवीं राजा चक्रे शोणितकर्दमाम् ॥ 029c
यौधेयान्मालवान्राजन्मद्रकाणां गणान्युधि । 030a
प्राहिणोन्मृत्युलोकाय शूरान्बाणैर्युधिष्ठिरः ॥ 030c
हताहरत गृह्णीत विध्यत व्यवकृन्तत । 031a
इत्यासीत्तुमुलः शब्दो युधिष्ठिररथं प्रति ॥ 031c
सैन्यानि द्रावयन्तं तं द्रोणो दृष्ट्वा युधिष्ठिरम् । 032a
चोदितस्तव पुत्रेण सायकैरभ्यवाकिरत् ॥ 032c
द्रोणस्तु परमक्रुद्धो वायव्यास्त्रेण पार्थिवम् । 033a
विव्याध सोऽपि तद्दिव्यमस्त्रमस्त्रेण जघ्निवान् ॥ 033c
तस्मिन्विनिहते चास्त्रे भारद्वाजो युधिष्ठिरे । 034a
वारुणं याम्यमाग्नेयं त्वाष्ट्रं सावित्रमेव च । 034c
चिक्षेप परमक्रुद्धो जिघांसुः पाण्डुनन्दनम् ॥ 034e
क्षिप्तानि क्षिप्यमाणानि तानि चास्त्राणि धर्मजः । 035a
जघानास्त्रैर्महाबाहुः कुम्भयोनेरवित्रसन् ॥ 035c
सत्यां चिकीर्षमाणस्तु प्रतिज्ञां कुम्भसम्भवः ॥ 036ac
प्रादुश्चक्रेऽस्त्रमैन्द्रं वै प्राजापत्यं च भारत । 037a
जिघांसुर्धर्मतनयं तव पुत्रहिते रतः ॥ 037c
पतिः कुरूणां गजसिंहगामी विशालवक्षाः पृथुलोहिताक्षः । 038a
प्रादुश्चकारास्त्रमहीनतेजा माहेन्द्रमस्त्रं स जघान तेन ॥ 038c
विहन्यमानेष्वस्त्रेषु द्रोणः क्रोधसमन्वितः । 039a
युधिष्ठिरवधं प्रेप्सुर्ब्राह्ममस्त्रमुदैरयत् ॥ 039c
ततो नाज्ञासिषं किञ्चिद्घोरेण तमसाऽऽवृते । 040a
सर्वभूतानि च परं त्रासं जग्मुर्महीपते ॥ 040c
ब्रह्मास्त्रमुद्यतं दृष्ट्वा कुन्तीपुत्रो युधिष्ठिरः । 041a
ब्रह्मास्त्रेणैव राजेन्द्र तदस्त्रं प्रत्यवारयत् ॥ 041c
ततः सैनिकमुख्यास्ते प्रशशंसुर्नरर्षभौ । 042a
द्रोणपार्थौ महेष्वासौ सर्वयुद्धविशारदौ ॥ 042c
ततः प्रमुच्य कौन्तेयं द्रोणो द्रुपदवाहिनीम् । 043a
व्यधमत्क्रोधताम्राक्षो वायव्यास्त्रेण भारत ॥ 043c
ते हन्यमाना द्रोणेन पाञ्चालाः प्राद्रवन्भयात् । 044a
पश्यतो भीमसेनस्य पार्थस्य च महात्मनः ॥ 044c
ततः किरीटी भीमश्च सहसा सन्न्यवर्तताम् । 045a
महद्भ्यां रथवंशाभ्यां परिगृह्य बलं तदा ॥ 045c
बीभत्सुर्दक्षिणं पार्श्वमुत्तरं च वृकोदरः । 046a
भारद्वाजं शरौघाभ्यां महद्भ्यामभ्यवर्षताम् ॥ 046c
केकयाः सृञ्जयाश्चैव पाञ्चालाश्च महौजसः । 047a
अन्वगच्छन्महाराज मात्स्याश्च सह सात्वतैः ॥ 047c
ततः सा भारती सेना वध्यमाना किरीटिना । 048a
तमसा निद्रया चैव पुनरेव व्यदीर्यत ॥ 048c
द्रोणेन वार्यमाणास्ते स्वयं तव सुतेन च । 049a
नाशक्यन्त महाराज योधा वारयितुं तदा ॥ ॥ 049c

इति श्रीमन्महाभारते द्रोणपर्वणि घटोत्कचवधपर्वणि चतुर्दशरात्रियुद्धे अष्टपञ्चाशदधिकशततमोऽध्यायः ॥ 158 ॥

5-158-12 प्रातिपेयं प्रतीपपुत्रम् ॥ 5-158-38 पतिः कुरूणां युधिष्ठिरः । माहेन्द्रमन्यत्स जघानेति झ. पाठः ॥ अष्टपञ्चाशदधिकशततमोऽध्यायः ॥