श्रीः अध्यायः 157 सात्यकिना सोमदत्तपराजयः ॥ 1 ॥ अश्वत्थामघटोत्कचयुद्धमश्वत्थामपराक्रमश्च ॥ 2 ॥ सञ्जय उवाच 001
प्रायोपविष्टे तु हते पुत्रे सात्यकिना तदा । 001a
सोमदत्तो भृशं क्रुद्धः सात्यकिं वाक्यमब्रवीत् ॥ 001c
क्षत्रधर्मः परो दृष्टो यस्तु देवैर्महात्मभिः । 002a
तं त्वं सात्वत सन्तज्य दस्युधर्मे कथं रतः ॥ 002c
पराङ्मुखाय दीनाय न्यस्तशस्त्राय याचते । 003a
क्षत्रधर्मरतः प्राज्ञः कथं नु प्रहरेद्रणे ॥ 003c
द्वावेव किल वृष्णीनां तत्र ख्यातौ महारथौ । 004a
प्रद्युम्नश्च महाबाहुस्त्वं चैव युधि सात्वत ॥ 004c
कथं प्रायोपविष्टाय पार्थेन च्छिन्नबाहवे । 005a
नृशंसं बत दीनं च तादृशं कृतवानसि ॥ 005c
कर्ममस्तस्य दुर्वृत्त फलं प्राप्नुहि संयुगे । 006a
अद्य छेत्स्यामि ते मूढ शिरो विक्रम्य पत्रिणा ॥ 006c
शपे सात्वत पुत्राभ्यामिष्टेन सुकृतेन च । 007a
अनतीतामिमां रात्रिं यदि त्वां वीरमानिनम् ॥ 007c
अरक्ष्यमाणं पार्थेन जिष्णुना ससुतानुजम् । 008a
न हन्यां नरके घोरे पतेयं वृष्णिपांसन ॥ 008c
एवमुक्त्वा सुसङ्क्रुद्धः सोमदत्तो महाबलः । 009a
दध्मौ शङ्खं च तारेण सिंहनादं ननाद च ॥ 009c
ततः कमलपत्राक्षः सिंहदंष्ट्रो दुरासदः । 010a
सात्यकिर्भृशसङ्क्रुद्धः सोमदत्तमथाब्रवीत् ॥ 010c
कौरवेय न मे त्रासः कथञ्चिदपि विद्यते । 011a
त्वया सार्धमथान्यैश्च युध्यतो हृदि कश्चन ॥ 011c
यदि सर्वेण सैन्येन गुप्तो मां योधयिष्यसि । 012a
तथापि न व्यथा काचित्त्वयि स्यान्मम कौरव ॥ 012c
युद्धसारेण वाक्येन असतां सम्मतेन च । 013a
नाहं भीषयितुं शक्यः क्षत्रवृत्ते स्थितस्त्वया ॥ 013c
यदि तेऽस्ति युयुत्साऽद्य मया सह नराधिप । 014a
निर्दयो निशितैर्बाणैः प्रहर प्रहरामि ते ॥ 014c
हतो भूरिश्रवा वीरस्तव पुत्रो महारथः । 015a
शलश्चैव महाराज भ्रातृव्यसनकर्षितः ॥ 015c
त्वां चाप्यद्य वधिष्यामि सहपुत्रं सबान्धवम् । 016a
तिष्ठेदानीं रणे यत्तः कौरवोऽसि महारथः ॥ 016c
यस्मिन्दानं दमः शौचमहिंसा ह्रीर्धृतिः क्षमा । 017a
अनपायानि सर्वाणि नित्यं राज्ञि युधिष्ठिरे ॥ 017c
मृदङ्गकेतोस्तस्य त्वं तेजसा निहतः पुरा । 018a
सकर्णसौबलः सङ्ख्ये विनाशमुपयास्यसि ॥ 018c
शपेऽहं कृष्णचरणैरिष्टापूर्तेन चैव ह । 019a
यदि त्वां ससुतं पापं न हन्यां युधि रोषितः ॥ 019c
अपयास्यसि चेत्त्यक्त्वा रणं मुक्तो भविष्यसि ॥ 020ac
एवमाभाष्य चान्योन्यं क्रोधसंरक्तलोचनौ । 021a
प्रवृत्तौ शरसम्पातं कर्तुं पुरुषसत्तमौ ॥ 021c
ततो रथसहस्रेण नागानामयुतेन च । 022a
दुर्योधनः सोमदत्तं परिवार्य व्यवस्थितः ॥ 022c
शकुनिश्च सुसङ्क्रुद्धः सर्वशस्त्रभृतां वरः । 023a
पुत्रपौत्रैः परिवृतो भ्रातृभिश्चेन्द्रविक्रमैः । 023c
श्यालस्तव महाबाहुर्वज्रसंहननो युवा ॥ 023e
साग्रं शतसहस्रं तु हयानां तस्य धीमतः । 024a
सोमदत्तं महेष्वासं समन्तात्पर्यरक्षत ॥ 024c
रक्ष्यमाणश्च बलिभिश्छादयामास सात्यकिम् । 025a
तं छाद्यमानं विशिखैर्दृष्ट्वा सन्नतपर्वभिः ॥ 025c
धृष्टद्युम्नोऽभ्ययात्क्रुद्धः प्रगृह्य महतीं चमूम् । 026a
'अभ्यरक्षन्महाबाहुः सात्वतं सत्यविक्रमम् ॥' 026c
चण्डवाताभिसृष्टानामुदधीनामिव स्वनः । 027a
आसीद्राजन्बलौघानामन्योन्यमभिनिघ्नताम् ॥ 027c
विव्याध सोमदत्तस्तु सात्वतं नवभिः शरैः । 028a
सात्यकिर्नवभिश्चैनमवधीत्कुरुपुङ्गवम् ॥ 028c
सोऽतिविद्धो बलवता समरे दृढधन्विना । 029a
रथोपस्थं समासाद्य मुमोह गतचेतनः ॥ 029c
तं विमूढं समालक्ष्य सारथिस्त्वरयाऽन्वितः । 030a
अपोवाह रणाद्वीरं सोमदत्तं महारथम् ॥ 030c
तं विसञ्ज्ञं समालक्ष्य युयुधानशरार्दितम् । 031a
अभ्यद्रवत्ततो द्रोणो यदुवीरजिघांसया ॥ 031c
तमायान्तमभिप्रेक्ष्य युधिष्ठिरपुरोगमाः । 032a
परिवव्रुर्महात्मानं परीप्सन्तो यदूत्तमम् ॥ 032c
ततः प्रववृते युद्धं द्रोणस्य सह पाण्डवैः । 033a
बलेरिव सुरैः पूर्वं त्रैलोक्यजयकाङ्क्षया ॥ 033c
ततः सायकजालेन पाण्डवानीकमावृणोत् । 034a
भारद्वाजो महातेजा विव्याध च युधिष्ठिरम् ॥ 034c
सात्यकिं दशभिर्बाणैर्विंशत्या पार्षतं शरैः । 035a
भीमसेनं च नवभिर्नकुलं पञ्चभिस्तथा ॥ 035c
सहदेवं तथाऽष्टाभिः शतेन च शिखण्डिनम् । 036a
द्रौपदेयान्महाबाहुः पञ्चभिः पञ्चभिः शरैः ॥ 036c
विराटं मत्स्यमष्टाभिर्द्रुपदं दशभिः शरैः । 037a
युधामन्युं त्रिभिः षड्भिरुत्तमौजसमाहवे । 037c
अन्यांश्च सैनिकान्विद्ध्वा युधिष्ठिरमुपाद्रवत् ॥ 037e
ते वध्यमाना द्रोणेन पाण्डुपुत्रस्य सैनिकाः । 038a
प्राद्रवन्वै भयाद्राजन्सार्तनादा दिशो दश ॥ 038c
काल्यमानं तु तत्सैन्यं दृष्ट्वा द्रोणेन फल्गुनः । 039a
किञ्चिदागतसंरम्भो गुरुं पार्थोऽभ्ययाद्द्रुतम् ॥ 039c
दृष्ट्वा द्रोणं तु बीभत्सुमभिधावन्तमाहवे । 040a
सन्न्यवर्तत तत्सैन्यं पुनर्यौधिष्ठिरं बलम् ॥ 040c
ततो युद्धमभूद्भूयो भारद्वाजस्य पाण्डवैः ॥ 041ac
द्रोणस्तव सुतै राजन्सर्वतः परिवारितः । 042a
व्यधमत्पाण्डुसैन्यानि तूलराशिमिवानलः ॥ 042c
तं ज्वलन्तमिवादित्यं दीप्तानलसमद्युतिम् । 043a
राजन्ननिशमत्यन्तं दृष्ट्वा द्रोणं शरार्चिषम् ॥ 043c
मण्डलीकृतधन्वानं तपन्तमिव भास्करम् । 044a
दहन्तमहितान्सैन्ये नैनं कश्चिदवारयत् ॥ 044c
योयो हि प्रमुखे तस्य तस्थौ द्रोणस्य पूरुषः । 045a
तस्यतस्य शिरश्छित्त्वा ययुर्द्रोणशराः क्षितिम् ॥ 045c
एवं सा पाण्डवी सेना वध्यमाना महात्मना । 046a
प्रदुद्राव पुनर्भीता पश्यतः सव्यसाचिनः ॥ 046c
सम्प्रभग्नं बलं दृष्ट्वा द्रोणेन निशि भारत । 047a
गोविन्दमब्रवीज्जिष्णुर्गच्छ द्रोणरथं प्रति ॥ 047c
ततो रजतगोक्षीरकुन्देन्दुसदृशप्रभान् । 048a
चोदयामास दाशार्हो हयान्द्रोणरथं प्रति ॥ 048c
भीमसेनोऽपि तं दृष्ट्वा यान्तं द्रोणाय फल्गुनम् । 049a
स्वसारथिमुवाचेदं द्रोणानीकाय मां वह ॥ 049c
सोऽपि तस्य वचः श्रुत्वा विशोकोऽवहयद्धयान् । 050a
पृष्ठतः सत्यसन्धस्य जिष्णोर्भरतसत्तम ॥ 050c
तौ दृष्ट्वा भ्रातरौ यत्तौ द्रोणानीकमभिद्रुतौ । 051a
पाञ्चालाः सृञ्जया मात्स्याश्चेदिकारूशकोसलाः । 051c
अन्वगच्छन्महाराज केकयाश्च महारथाः ॥ 051e
ततो राजन्नभूद्घोरः सङ्ग्रामो रोमहर्षणः ॥ 052ac
बीभत्सुर्दक्षिणं पार्श्वमुत्तरं च वृकोदरः । 053a
महद्भ्यां रथवृन्दाभ्यां बलं जगृहतुस्तव ॥ 053c
तौ दृष्ट्वा पुरुषव्याघ्रौ भीमसेनधनञ्जयौ । 054a
धृष्टद्युम्नोऽभ्ययाद्राजन्सात्यकिश्च महाबलः ॥ 054c
चण्डवाताभिपन्नानामुदधीनामिव स्वनः । 055a
आसीद्राजन्बलौघानां तदाऽन्योन्यमभिघ्नताम् || 055c
सौमदत्तिवधात्क्रुद्धो दृष्ट्वा सात्यकिमाहवे । 056a
द्रौणिरभ्यद्रवद्राजन्वधाय कृतनिश्चयः ॥ 056c
तमापतन्तं सम्प्रेक्ष्य शैनेयस्य रथं प्रति । 057a
भैमसेनिः सुसङ्क्रुद्धः प्रत्यमित्रमवारयत् ॥ 057c
कार्ष्णायसं महाघोरमृक्षचर्मपरिच्छदम् । 058a
महान्तं रथमास्थाय त्रिंशन्नल्वान्तरान्तरम् ॥ 058c
विक्षिप्तयन्त्रसन्नाहं महामेघौघनिःस्वनम् । 059a
युक्तं गजनिभैर्वाहैर्न हयैर्नापि वारणैः ॥ 059c
विक्षिप्तपक्षचरणविवृताक्षेण कूजता । 060a
ध्वजेनोच्छ्रितदण्डेन गृध्रराजेन राजितम् ॥ 060c
लोहितार्द्रपताकं तु आन्त्रमालाविभूषितम् । 061a
अष्टचक्रसमायुक्तमास्थाय विपुलं रथम् ॥ 061c
शूलमुद्गरधारिण्या शैलपादपहस्तया । 062a
रक्षसां घोररूपाणामक्षौहिण्या समावृतः ॥ 062c
तमुद्यतमहाचापं निशाम्य व्यथिता नृपाः । 063a
युगान्तकालसमये दण्डहस्तमिवान्तकम् ॥ 063c
ततस्तं गिरिशृङ्गाभं भीमरूपं भयावहम् । 064a
दंष्ट्राकरालोग्रमुखं शङ्कुकर्णं महाहनुम् ॥ 064c
ऊर्ध्वकेशं विरूपाक्षं दीप्तास्यं निम्नितोदरम् । 065a
महाश्वभ्रगलद्वारं किरीटच्छन्नमूर्धजम् ॥ 065c
त्रासनं सर्वभूतानां व्यात्ताननमिवान्तकम् । 066a
वीक्ष्य दीप्तमिवायान्तं रिपुविक्षोभकारिणम् ॥ 066c
तमुद्यतमहाचापं राक्षसेन्द्रं घटोत्कचम् । 067a
भयार्दिता प्रचुक्षोभ पुत्रस्य तव वाहिनी । 067c
वायुना क्षोभितावर्ता गङ्गेवोर्ध्वतरङ्गिणी ॥ 067e
घटोत्कचप्रयुक्तेन सिंहनादेन भीषिताः । 068a
प्रसुस्रुवुर्गजा मूत्रं विव्यथुश्च नरा भृशम् ॥ 068c
ततोऽश्मवृष्टिरत्यर्थमासीत्तत्र समन्ततः । 069a
सन्ध्याकालाधिकबलैः प्रयुक्ता राक्षसैः क्षितौ ॥ 069c
आयसानि च चक्राणि भुशुण्ड्यः प्रासतोमराः । 070a
पतन्त्यविरताः शूलाः शतघ्न्यः पट्टसास्तथा ॥ 070c
तदुग्रमतिरौद्रं च दृष्ट्वा युद्धं नराधिपाः । 071a
तनयास्तव कर्णश्च व्यथिताः प्राद्रवन्दिशः ॥ 071c
तत्रैकोऽस्त्रबलश्लाघी द्रौणिर्मानी न विव्यथे । 072a
व्यधमच्च शरैर्मायां घटोत्कचविनिर्मिताम् ॥ 072c
विहतायां तु मायायाममर्षी स घटोत्कचः । 073a
विससर्ज शरान्घोरांस्तेऽश्वत्थामानमाविशन् । 073c
भुजङ्गा इव वेगेन वल्मीकं क्रोधमूर्च्छिताः ॥ 073e
ते शरा रुधिराक्ताङ्गा भित्त्वा शारद्वतीसुतम् । 074a
विविशुर्धरणीं शीघ्रा रुक्मपुङ्खाः शिलाशिताः ॥ 074c
अश्वत्थामा तु सङ्क्रुद्धो लघुहस्तः प्रतापवान् । 075a
घटोत्कचमभिक्रुद्धं बिभेद दशभिः शरैः ॥ 075c
घटोत्कचोऽतिविद्धस्तु द्रोणपुत्रेण मर्मसु । 076a
चक्रं शतसहस्रारमगृह्णाद्व्यथितो भृशम् ॥ 076c
क्षुरान्तं बालसूर्याभं मणिवज्रविभूषितम् । 077a
अश्वत्थाम्नि स चिक्षेप भैमसेनिर्जिघांसया ॥ 077c
वेगेन महता गच्छद्विक्षिप्तं द्रौणिना शरैः । 078a
अभाग्यस्येव सङ्कल्पस्तन्मोघमपतद्भुवि ॥ 078c
घटोत्कचस्ततस्तूर्णं दृष्ट्वा चक्रं निपातितम् । 079a
द्रौणिं प्राच्छादयद्बाणैः स्वर्भानुरिव भास्करम् ॥ 079c
घटोत्कचसुतः श्रीमान्भिन्नाञ्जनचयोपमः । 080a
रुरोध द्रौणिमायान्तं प्रभञ्जनमिवाद्रिराट् ॥ 080c
पौत्रेण भीमसेनस्य शरैरञ्जनपर्वणा । 081a
बभौ मेघेन धाराभिर्गिरिर्मेरुरिवावृतः ॥ 081c
अश्वत्थामा त्वसम्भ्रान्तो रुद्रोपेन्द्रेन्द्रविक्रमः । 082a
ध्वजमेकेन बाणेन चिच्छेदाञ्जनपर्वणः ॥ 082c
द्वाभ्यां तु रथयन्तारौ त्रिभिश्चास्य त्रिवेणुकम् । 083a
धनुरेकेन चिच्छेद चतुर्भिश्चतुरो हयान् ॥ 083c
विरथस्योद्यतं हस्ताद्धेमबिन्दुभिराचितम् । 084a
विशिखेन सुतीक्ष्णेन खड्गमस्य द्विधाऽकरोत् ॥ 084c
गदा हेमाङ्गदा राजंस्तूर्णं हैडिम्बिसूनुना । 085a
भ्राम्योत्क्षिप्ताशरैःसापि द्रौणिनाभ्याहताऽपतत् ॥ 085c
ततोऽन्तरिक्षमुत्प्लुत्य कालमेघ इवोन्नदन् । 086a
ववर्षाञ्जनपर्वा स द्रुमवर्षं नभस्तलात् ॥ 086c
ततो मायाधरं द्रौणिर्घटोत्कचसुतं दिवि । 087a
मार्गणैरभिविव्याध धनं सूर्य इवांशुभिः ॥ 087c
सोऽवतीर्य पुरस्तस्थौ रथे हेमविभूषिते । 088a
महीगत इवात्युग्रः श्रीमानञ्जनपर्वतः ॥ 088c
तमयस्मयवर्माणं द्रौणिर्भीमात्मजात्मजम् । 089a
जघानाञ्जनपर्वाणं महेश्वर इवान्धकम् ॥ 089c
अथ दृष्ट्वा हतं पुत्रमश्वत्थाम्ना महाबलम् । 090a
द्रौणेः सकाशमभ्येत्य रोषात्प्रस्फुरिताधरः ॥ 090c
प्राह वाक्यमसम्भ्रान्तो वीरं शारद्वतीसुतम् । 091a
दहन्तं पाण्डवानीकं वनमग्निमिवोच्छ्रितम् ॥ 091c
घटोत्कच उवाच 092
तिष्ठतिष्ठ न मे जीवन्द्रोणपुत्र गमिष्यसि । 092a
त्वामद्य निहनिष्यामि क्रौञ्चमग्निसुतो यथा ॥ 092c
अश्वत्थामोवाच 093
गच्छ वत्स सहान्यैस्त्वं युध्यस्वामरविक्रम । 093a
न हि पुत्रेण हैडिम्ब पिता न्याय्यः प्रबाधितुम् ॥ 093c
कामं खलु न रोषो मे हैडिम्बे विद्यते त्वयि । 094a
किं तु रोषान्वितो जन्तुर्हन्यादात्मानमप्युत ॥ 094c
सञ्जय उवाच 095
श्रुत्वैतत्क्रोधताम्राक्षः पुत्रशोकसमन्वितः । 095a
अश्वत्थामानमायस्तो भैमसेनिरभाषत ॥ 095c
किमहं कातरो द्रौणे पृथग्जन इवाहवे ॥ 096a
यन्मां भीषयसे वाग्भिरसदेतद्वचस्तव ॥ 096c
भीमात्खलु समुत्पन्नः कुरूणां विपुले कुले । 097a
पाण्डवानामहं पुत्रः समरेष्वनिवर्तिनाम् ॥ 097c
रक्षसामधिराजोऽहं दशग्रीवसमो बले । 098a
तिष्ठतिष्ठ न मे जीवन्द्रोणपुत्र गमिष्यसि ॥ 098c
युद्धश्रद्धामहं तेऽद्य विनेष्यामि रणाजिरे ॥ 099ac
इत्युक्त्वा क्रोधताम्राक्षो राक्षसः सुमहाबलः । 100a
द्रौणिमभ्यद्रवत्क्रुद्धो गजेन्द्रमिव केसरी ॥ 100c
रथाक्षमात्रैरिषुभिरभ्यवर्षद्घटोत्कचः । 101a
रथिनामृषभं द्रौणिं धाराभिरिव तोयदः ॥ 101c
शरवृष्टिं शरैर्द्रौणिरप्राप्तां तां व्यशातयत् । 102a
ततोन्तरिक्षे बाणानां सङ्ग्रामोऽन्य इवाभवत् ॥ 102c
अथास्त्रसम्मर्दकृतैर्विस्फुलिङ्गैस्तदा बभौ । 103a
विभावरीमुखे व्योम खद्योतैरिव चित्रितम् ॥ 103c
निशाम्य निहतां मायां द्रौणिना रणमानिना । 104a
घटोत्कचस्ततो मायां ससर्जान्तर्हितः पुनः ॥ 104c
सोऽभवद्गिरिरत्युच्चः शिखरैस्तरुसङ्कटैः । 105a
शूलप्रासासिमुसलजलप्रस्रवणो महान् ॥ 105c
तमञ्जनगिरिप्रख्यं द्रौणिर्दृष्ट्वा महीधरम् । 106a
प्रपतद्भिश्च बहुभिः शस्त्रसङ्घैर्न विव्यथे ॥ 106c
ततो हसन्निव द्रौणिर्वज्रमस्त्रमुदैरयत् । 107a
स तेनास्त्रेण शैलेन्द्रः क्षिप्तः क्षिप्रं व्यनश्यत ॥ 107c
ततः स तोयदो भूत्वा नीलः सेन्द्रायुधो दिवि । 108a
अश्मवृष्टिभिरत्युग्रो द्रौणिमाच्छादयद्रणे ॥ 108c
अथ सन्धाय वायव्यमस्त्रमस्त्रविदां वरः । 109a
व्यधमद्द्रोणतनयो नीलमेघं समुत्थितम् ॥ 109c
स मार्गणगणैर्द्रौणिर्दिशः प्रच्छाद्य सर्वशः । 110a
शतं रथसहस्राणां जघान द्विपदां वरः ॥ 110c
स दृष्ट्वा पुनरायान्तं रथेनायतकार्मुकम् । 111a
घटोत्कचमसम्भ्रान्तं राक्षसैर्बहुभिर्वृतम् ॥ 111c
सिंहशार्दूलसदृशैर्मत्तद्विरदविक्रमैः । 112a
गजस्थैश्च रथस्थैश्च वाजिपृष्ठगतैरपि ॥ 112c
विकृतास्यशिरोग्रीवैर्हिडिम्बानुचरैः सह । 113a
पौलस्त्यैर्यातुधानैश्च तामसैश्चेन्द्रविक्रमैः ॥ 113c
नानाशस्त्रधरैर्वीरैर्नानाकवचभूषणैः । 114a
महाबलैर्भीमरवैः संरम्भोद्वृत्तलोचनैः ॥ 114c
उपस्थितैस्ततो युद्धे राक्षसैर्युद्धदुर्मदैः । 115a
विषण्णमभिसम्प्रेक्ष्य पुत्रं ते द्रौणिरब्रवीत् ॥ 115c
तिष्ठ दुर्योधनाद्य त्वं न कार्यः सम्भ्रमस्त्वया । 116a
सहैभिर्भ्रातृभिर्वीरैः पार्थिवैश्चेन्द्रविक्रमैः ॥ 116c
निहनिष्याम्यमित्रांस्ते न तवास्ति पराजयः । 117a
सत्यं ते प्रतिजानामि पर्याश्वासय वाहिनीम् ॥ 117c
दुर्योधन उवाच 118
न त्वेतदद्भुतं मन्ये यत्ते महदिदं मनः । 118a
अस्मासु च परा भक्तिस्तव गौतमिनन्दन ॥ 118c
सञ्जय उवाच 119
अश्वत्थामानमुक्त्वैवं ततः सौबलमब्रवीत् । 119a
वृतं रथसहस्रेण हयानां रणशोभिनाम् ॥ 119c
षष्ट्या रथसहस्रैश्च प्रयाहि त्वं धनञ्जयम् । 120a
कर्णश्च वृषसेनश्च कृपो नीलस्तथैव च ॥ 120c
उदीच्याः कृतवर्मा च पुरुमित्रः सुतापनः । 121a
दुःशासनो निकुम्भश्च कुण्डभेदी पराक्रमः ॥ 121c
पूरञ्जयो दृढरथः पताकी हेमकम्पनः । 122a
शल्यारुणीन्द्रसेनाश्च सञ्जयो विजयो जयः ॥ 122c
कमलाक्षः परक्राथी जयवर्मा सुदर्शनः । 123a
एते त्वामनुयास्यन्ति पत्तीनामयुतानि षट् ॥ 123c
जहि भीमं यमौ चोभौ धर्मराजं च मातुल । 124a
असुरानिव देवेन्द्रो जयाशा मे त्वयि स्थिता ॥ 124c
दारितान्द्रौणिना बाणैर्भृशं विक्षतविग्रहान् । 125a
जहि मातुल कौन्तेयानसुरानिव पावकिः ॥ 125c
सञ्जय उवाच 126
एवमुक्तो ययौ शीघ्रं पुत्रेण तव सौबलः । 126a
पिप्रीषुस्ते सुतान्राजन्दिधक्षुश्चैव पाण्डवान् ॥ 126c
अथ प्रववृते युद्धं द्रौणिराक्षसयोर्मृधे । 127a
विभावर्यां सुतुमुलं शक्रप्रह्लादयोरिव ॥ 127c
ततो घटोत्कचो बाणैर्दशभिर्गौतमीसुतम् । 128a
जघानोरसि सङ्क्रुद्धो विषाग्निप्रतिमैर्दृढैः ॥ 128c
स तैरभ्याहतो गाढं शरैर्भीमसुतेरितैः । 129a
चचाल रथमध्यस्थो वातोद्धूत इव द्रुमः ॥ 129c
भूयश्चाञ्जलिकेनाथ मार्गणेन महाप्रभम् । 130a
द्रौणिहस्तस्थितं चापं चिच्छेदाशु घटोत्कचः ॥ 130c
ततोऽन्यद्द्रौणिरादाय धनुर्भारसहं महत् । 131a
ववर्ष विशिखांस्तीक्ष्णान्वारिधारा इवाम्बुदः ॥ 131c
ततः शारद्वतीपुत्रः प्रेषयामास भारत । 132a
सुवर्णपुङ्खाञ्छत्रुघ्नान्खचरान्खचरं प्रति ॥ 132c
तद्बाणैरर्दितं यूथं रक्षसां पीनवक्षसाम् । 133a
सिंहैरिव बभौ मत्तं गजानामाकुलं कुलम् ॥ 133c
विधम्य राक्षसान्बाणैः साश्वसूतरथद्विपान् । 134a
ददाह भगवान्वह्निर्भूतानीव युगक्षये ॥ 134c
स दग्ध्वाऽक्षौहिणीं बामैर्नैर्ऋतीं रुरुचे नृप । 135a
पुरेव त्रिपुरं दग्ध्वा दिवि देवो महेश्वरः ॥ 135c
युगान्ते सर्वभूतानि दग्ध्वेव वसुरुल्बणः । 136a
रराज जयतां श्रेष्ठो द्रोणपुत्रस्तवाहितान् ॥ 136c
ततो घटोत्कचः क्रुद्धो रक्षसां भीमकर्मणाम् । 137a
द्रौणिं हतेति महतीं चोदयामास तां चमूम् ॥ 137c
घटोत्कचस्य तामाज्ञां प्रतिगृह्याथ राक्षसाः । 138a
दंष्ट्रोज्ज्वला महावक्त्रा घोररूपा भयानकाः ॥ 138c
व्यात्तानना घोरजिह्वाः क्रोधताम्रेक्षणा भृशम् । 139a
सिंहनादेन महता नादयन्तो वसुन्धराम् ॥ 139c
हन्तुमभ्यद्रवन्द्रौणिं नानाप्रहरणायुधाः । 140a
शक्तीः शतघ्नीः परिघानशनीः शूलपट्टशान् ॥ 140c
खड्गान्गदाभिण्डिपालान्मुसलानि परश्वथान् । 141a
प्रासानसींस्तोमरांश्च कणपान्कम्पनाञ्छितान् ॥ 141c
स्थूलान्भुशुण्ड्यश्मगदास्थूणान्कार्ष्ण्यायसांस्तथा । 142a
मुद्गराँश्च महाघोरान्समरे शत्रुदारणान् ॥ 142c
द्रौणिमूर्धन्यसन्त्रस्ता राक्षसा भीमविक्रमाः । 143a
चिक्षिपुः क्रोधताम्राक्षाः शतशोऽथ सहस्रशः ॥ 143c
तच्छस्त्रवर्षं सुमहद्द्रोणपुत्रस्य मूर्धनि । 144a
पतमानं समीक्ष्याऽथ योधास्ते व्यथिताऽभवन् ॥ 144c
द्रोणपुत्रस्तु विक्रान्तस्तद्वर्षं घोरमुच्छ्रितम् । 145a
शरैर्विध्वंसयामास वज्रकल्पैः शिलाशितैः ॥ 145c
ततोऽन्यैर्विशिखैस्तूर्णं स्वर्णपुङ्खैर्महामनाः । 146a
निजघ्ने राक्षसान्द्रौणिर्दिव्यास्त्रप्रतिमन्त्रितैः ॥ 146c
तद्बाणैरर्दितं यूथं रक्षसां पीनवक्षसाम् । 147a
सिंहैरिव बभौ मत्तं गजानामाकुलं कुलम् ॥ 147c
ते राक्षसाः सुसङ्क्रुद्धा द्रोणपुत्रेण ताडिताः । 148a
क्रुद्धाः स्म प्राद्रवन्द्रौणिं जिघांसन्तो महाबलाः ॥ 148c
तत्राद्भुतमिमं द्रौणिर्दर्शयामास विक्रमम् । 149a
अशक्यं कर्तुमन्येन सर्वभूतेषु भारत ॥ 149c
यदेको राक्षसीं सेनां क्षणाद्द्रौणिर्महास्त्रवित् । 150a
ददाह ज्वलितैर्बाणै राक्षसेन्द्रस्य पश्यतः ॥ 150c
स हत्वा राक्षसानीकं रराज द्रौणिराहवे । 151a
युगान्ते सर्वभूतानि संवर्तक इवानलः ॥ 151c
तं दहन्तमनीकानि शरैराशीविषोपमैः । 152a
तेषु राजसहस्रेषु पाण्डवेयेषु भारत ॥ 152c
नैनं निरीक्षितुं कश्चिदशक्नोद्द्रौणिमाहवे । 153a
ऋते घटोत्कचाद्वीराद्राक्षसेन्द्रान्महाबलात् ॥ 153c
स पुनर्भरतश्रेष्ठ क्रोधादुद्भ्रान्तलोचनः । 154a
तलं तलेन संहत्य सन्दश्य दशनच्छदम् ॥ 154c
स्वंं सूतमब्रवीत्क्रुद्धो द्रोणपुत्राय मां वह । 155a
स ययौ घोररूपेण सुपताकेन भास्वता ॥ 155c
द्वैरथं द्रोणपुत्रेण पुनरप्यरिसूदनः । 156a
स विनद्य महानादं सिंहवद्भीमविक्रमः ॥ 156c
चिक्षेपाविद्ध्य सङ्ग्रामे द्रोणपुत्राय राक्षसः । 157a
अष्टघण्टां महाघोरामशनिं देवनिर्मिताम् ॥ 157c
तामवप्लुत्य जग्राह द्रौणिर्न्यस्य रथे धनुः । 158a
चिक्षेप चैनां तस्यैव स्यन्दनात्सोऽवपुप्लुवे ॥ 158c
साश्वसूतध्वजं यानं भस्म कृत्वा महाप्रभा । 159a
विवेश वसुधां भित्त्वा साऽशनिर्भृशदारुणा ॥ 159c
द्रौणेस्तत्कर्म दृष्ट्वा तु सर्वभूतान्यपूजयन् । 160a
यदप्लुत्य जग्राह घोरां शङ्करनिर्मिताम् ॥ 160c
धृष्टद्युम्नरथं गत्वा भैमसेनिस्ततो नृप । 161a
धनुर्घोरं समादाय महदिन्द्रायुधोपमम् । 161c
मुमोच निशितान्बाणान्पुनर्द्रौणेर्महोरसि ॥ 161e
धृष्टद्युम्नस्त्वसम्भ्रान्तो मुमोचाशीविषोपमान् । 162a
सुवर्णपुङ्खान्विशिखान्द्रोणपुत्रस्य वक्षसि ॥ 162c
ततो मुमोच नाराचान्द्रौणिस्तांश्च सहस्रशः । 163a
तावप्यग्निशिखप्रख्यैर्जघ्नतुस्तस्य मार्गणान् ॥ 163c
अतितीव्रं महद्युद्धं तयोः पुरुषसिंहयोः । 164a
योधानां प्रीतिजननं द्रौणेश्च भरतर्षभ ॥ 164c
ततो रथसहस्रेण द्विरदानां शतैस्त्रिभिः । 165a
षड्भिर्वाजिसहस्रैश्च भीमस्तं देशमागमत् ॥ 165c
ततो भीमात्मजं रक्षो धृष्टद्युम्नं च सानुगम् । 166a
अयोधयत धर्मात्मा द्रौणिरक्लिष्टविक्रमः ॥ 166c
तत्राद्भुततमं द्रौणिर्दर्शयामास विक्रमम् । 167a
अशक्यं कर्तुमन्येन सर्वभूतेषु भारत ॥ 167c
निमेषान्तरमात्रेण साश्वसूतरथद्विपाम् । 168a
अक्षौहिणीं राक्षसानां शितैर्बाणैरशातयत् ॥ 168c
मिषतो भीमसेनस्य हैडिम्बेः पार्षतस्य च । 169a
यमयोर्धर्मपुत्रस्य विजयस्याच्युतस्य च ॥ 169c
प्रगाढमञ्जोगतिभिर्नाराचैरभिताडिताः । 170a
निपेतुर्द्विरदा भूमौ सशृङ्गा इव पर्वताः ॥ 170c
निकृत्तैर्हस्तिहस्तैश्च विचलद्भिरितस्ततः । 171a
रराज वसुधा कीर्णा विसर्पद्भिरिवोरगैः ॥ 171c
क्षिप्तैः काञ्चनदण्डैश्च नृपच्छत्रैः क्षितिर्बभौ । 172a
द्यौरिवोदितचन्द्रार्का ग्रहाकीर्णा युगक्षये ॥ 172c
प्रवृद्धध्वजमण्डूकां भेरीविस्तीर्णकच्छपाम् ॥ 173a
छत्रहंसावलीजुष्टां फेनचामरमालिनीम् ॥ 173c
कङ्कगृध्रमहाग्राहां नैकायुधझषाकुलाम् । 174a
विस्तीर्णगजपाषाणां हताश्वमकराकुलाम् ॥ 174c
रथक्षिप्तमहावप्रां पताकारुचिरद्रुमाम् । 175a
शरमीनां महारौद्रां प्रासशक्त्यृष्टिडुण्डुभाम् ॥ 175c
मज्जामांसमहापङ्कां कबन्धावर्जितोडुपाम् । 176a
केशशैवलकल्माषां भीरूणां कश्मलावहाम् ॥ 176c
नागेन्द्रहययोधानां शरीरव्ययसम्भवाम् । 177a
शोणितौघमहाघोरां द्रौणिः प्रावर्तयन्नदीम् ॥ 177c
योधार्तरवनिर्घोषां क्षतजोर्मिसमाकुलाम् । 178a
प्रयान्तीं सुमहाघोरां यमराष्ट्रमहोदधिम् ॥ 178c
निहत्य राक्षसान्बाणैर्द्रौणिर्हैडिम्बिमार्दयत् । 179a
पुनरप्यतिसङ्क्रुद्धः सवृकोदरपार्षतान् ॥ 179c
स नाराचगणैः पार्थान्द्रौणिर्विद्ध्वा महाबलः । 180a
जघान सुरथं नाम द्रुपदस्य सुतं विभुः ॥ 180c
पुनः शत्रुञ्जयं नाम द्रुपदस्यात्मजं रणे । 181a
बलानीकं जयानीकं जयाश्वं चाभिजघ्निवान् ॥ 181c
श्रुताह्वयं च राजानं द्रौणिर्निन्ये यमक्षयम् । 182a
त्रिभिश्चान्यैः शरैस्तीक्ष्णैः सुपुङ्खैर्हेममालिनम् ॥ 182c
जघान स पृषध्रं च चन्द्रसेनं च मारिष । 183a
कुन्तिभोजसुतांश्चासौ दशभिर्दश जघ्निवान् ॥ 183c
अश्वत्थामा सुसङ्क्रुद्धः सन्धायोग्रमजिह्मगम् । 184a
मुमोचाकर्णपूर्णेन धनुषा शरमुत्तमम् । 184c
यमदण्डोपमं घोरमुद्दिश्याशु घटोत्कचम् ॥ 184e
स भित्त्वा हृदयं तस्य राक्षसस्य महाशरः । 185a
विवेश वसुधां शीघ्रं सपुङ्खः पृथिवीपते ॥ 185c
तं हतं पतितं ज्ञात्वा धृष्टद्युम्नो महारथः । 186a
द्रौणेः सकाशाद्राजेन्द्र व्यपनिन्ये रथोत्तमम् ॥ 186c
ततः पराङ्मुखनृपं सैन्यं यौधिष्ठिरं नृप । 187a
पराजित्य रणे वीरो द्रोणपुत्रो ननाद ह । 187c
पूजितः सर्वभूतेषु तव पुत्रैश्च भारत ॥ 187e
अथ शरशतभिन्नकृत्तदेहैर्हतपतितैः क्षणदाचरैः समन्तात् । 188a
निधनमुपगतैर्मही कृताऽभूद्गिरिशिखरैरिव दुर्गमाऽतिरौद्रा ॥ 188c
तं सिद्धगन्धर्वपिशाचसङ्घा नागाः सुपर्णाः पितरो वयांसि । 189a
रक्षोगणा भूतगणाश्च द्रौणिमपूजयन्नप्सरसः सुराश्च ॥ ॥ 189c

इति श्रीमन्महाभारते द्रोणपर्वणि घटोत्कचवधपर्वणि चतुर्दशरात्रियुद्धे सप्तपञ्चाशदधिकशततमोऽध्यायः ॥ 157 ॥

5-157-9 तारेणोच्चस्वरेण ॥ 5-157-19 कृष्णचरणैः कृष्णयोश्चरणैः ॥ 5-157-40 द्रोणमभिधावन्तं बीभत्सुं दृष्ट्वा यौधिष्ठिरं बलं तत्सैन्यं द्रोणसैन्यम् प्रति पुनः सन्न्यवर्ततेति सम्बन्धः ॥ 5-157-58 कार्ष्णायसं तीक्ष्णलोहमयम् ॥ 5-157-59 न हयैर्नापि वारणैर्गजैः किन्तु पिशाचैः ॥ 5-157-93 गच्छ वत्सेति पुत्रेणेति च भीमसेनसम्बन्धात् । प्रबाधितुं मनःखेदमुत्पादयितुम् ॥ 5-157-94 आत्मानमपि हन्यात्किमु पुत्रमतो जीवनार्थी त्वं निवर्तस्वेति भावः ॥ 5-157-95 आयस्तः कोपितः ॥ 5-157-132 शारद्वती कृपी । खचरान्बाणान् । खचरं राक्षसम् ॥ 5-157-136 वसुरुल्बणः अग्निः प्रलयकालिकः ॥ सप्तपञ्चाशदधिकशततमोऽध्यायः ॥