श्रीः अध्यायः 156 भीमेन दुर्मददुष्कर्णादिवधः ॥ 1 ॥ धृतराष्ट्र उवाच 001
तस्मिन्प्रविष्टे दुर्धर्षे सृञ्जयानमितौजसि । 001a
अमृष्यमाणे संरब्धे का वोऽभूद्वै मतिस्तदा ॥ 001c
दुर्योधनं तथा पुत्रमुक्त्वा शास्त्रातिगं मम । 002a
यत्प्राविशदमेयात्मा किं पार्थः प्रत्यपद्यत ॥ 002c
निहते सैन्धवे वीरे भूरिश्रवसि चैव ह । 003a
यदाऽभ्यगान्महातेजाः पाञ्चालानपराजितः ॥ 003c
किममन्यत दुर्धर्षे प्रविष्टे शत्रुतापने । 004a
दुर्योधनस्तु किं कृत्यं प्राप्तकालममन्यत ॥ 004c
के च तं वरदं वीरमन्वयुर्द्विजसत्तमम् । 005a
के चास्य पृष्ठतोऽगच्छन्वीराः शूरस्य युध्यतः । 005c
के पुरस्तादवर्तन्त निघ्नन्तः शात्रवान्रणे ॥ 005e
मन्येऽहं पाण्डवान्सर्वान्भारद्वाजशरार्दितान् । 006a
शिशिरे कम्पमाना वै कृशा गाव इव प्रभो ॥ 006c
प्रविश्य स महेष्वासः पाञ्चालानरिमर्दनः । 007a
कथं नु पुरुषव्याघ्रः पञ्चत्वमुपजग्मिवान् ॥ 007c
सर्वेषु योधेषु च सङ्गतेषु रात्रौ समेतेषु महारथेषु । 008a
संलोड्यमानेषु पृथग्बलेषु के वस्तदानीं मतिमन्त आसन् ॥ 008c
हतांश्चैव विषक्तांश्च पराभूतांश्च शंससि । 009a
रथिनो विरथांश्चैव कृतान्युद्धेषु मामकान् ॥ 009c
तेषां संलोड्यमानानां पाण्डवैर्हतचेतसाम् । 010a
अन्धे तमसि मग्नानामभवत्का मतिस्तदा ॥ 010c
प्रहृष्टांश्चाप्युदग्रांश्च सन्तुष्टांश्चैव पाण्डवान् । 011a
शंससीहाप्रहृष्टांश्च विभ्रष्टांश्चैव मामकान् ॥ 011c
कथमेषां तदा तत्र पार्थानामपलायिनाम् । 012a
प्रकाशमभवद्रात्रौ कथं कुरुषु सञ्जय ॥ 012c
सञ्जय उवाच 013
रात्रियुद्धे तदा राजन्वर्तमाने सुदारुणे । 013a
द्रोणमभ्यद्रवन्सर्वे पाण्डवाः सह सोमकैः ॥ 013c
ततो द्रोणः केकयांश्च धृष्टद्युम्नस्य चात्मजान् । 014a
सम्प्रैषयत्प्रेतलोकं सर्वानिषुभिराशुगैः ॥ 014c
तस्य प्रमुखतो राजन्येऽवर्तन्त महारथाः । 015a
तान्सर्वान्प्रेषयामास पितृलोकं स भारत ॥ 015c
प्रमथ्नन्तं तदा वीरान्भारद्वाजं महारथम् । 016a
अभ्यवर्तत सङ्क्रुद्धः शिबी राजा प्रतापवान् ॥ 016c
तमापतन्तं सम्प्रेक्ष्य पाण्डवानां महारथम् । 017a
विव्याध दशभिर्द्रोणः सर्वपारशवैः शितैः ॥ 017c
तं शिबिः प्रतिविव्याध त्रिंशता निशितैः शरैः । 018a
सारथिं चास्य भुल्लेन स्मयमानो न्यपातयत् ॥ 018c
तस्य द्रोणो हयान्हत्वा सारथिं च महात्मनः । 019a
अथाऽस्य सशिरस्त्राणं शिरः कायादपाहरत् ॥ 019c
ततोऽस्य सारथिं क्षिप्रमन्यं दुर्योधनोऽदिशत् । 020a
स तेन सङ्गृहीताश्वः पुनरभ्यद्रवद्रिपून् ॥ 020c
कलिङ्गानामनीकेन कालिङ्गस्य सुतो रणे । 021a
पूर्वं पितृवधात्क्रुद्धो भीमसेनमुपाद्रवत् ॥ 021c
स भीमं पञ्चभिर्विद्ध्वा पुनर्विव्याध सप्तभिः । 022a
विशोकं त्रिभिरानर्च्छद्ध्वजमेकेन पत्रिणा ॥ 022c
कलिङ्गानां तु तं शूरं क्रुद्धं क्रुद्धो वृकोदरः । 023a
रथाद्रथमभिद्रुत्य मुष्टिनाऽभिजघान ह ॥ 023c
तस्य मुष्टिहतस्याजौ पाण्डवेन बलीयसा । 024a
सर्वाण्यस्थीनि सहसा प्रापतन्वै पृथक्पृथक् ॥ 024c
'तस्मिन्हते तदा तेन सिंहनादो महानभूत् । 025a
पाञ्चालानां महाराज साधुसाध्विति पाण्डवम् ॥' 025c
तं कर्णो भ्रातरश्चास्य नामृष्यन्त परन्तप । 026a
ते भीमसेनं नाराचैर्जघ्नुराशीविषोपमैः ॥ 026c
ततः शत्रुरथं त्यक्त्वा भीमो द्रुमरथं गतः । 027a
द्रुमं चास्यन्तमनिशं मुष्टिना समपोथयत् ॥ 027c
'यथा काचमणिर्न्यस्तो मुष्टिनैकेन लीलया । 028a
स हतः सर्वथा चूर्णो रक्तमेवोदपद्यत ॥ 028c
तथा चूर्णमभूत्तत्र कर्णभ्राता द्रुमस्तथा ।' 029a
स तदा पाण्डुपुत्रेण बलिनाऽभिहतोऽपतत् ॥ 029c
तं निहत्य महाराज भीमसेनो महाबलः । 030a
जयरातरथं प्राप्य मुहुः सिंह इवानदत् ॥ 030c
जयरातं तु चरणे गृह्य भीमो महाबलः । 031a
सूतं चास्य महाबाहुर्गृह्य राजंस्तथैव च ॥ 031c
पादयोर्गृह्य तौ वीरौ भीमः कर्णस्य पश्यतः । 032a
भूमावाविद्ध्य जघ्ने स तौ च प्राणैर्व्ययुज्यताम् ॥ 032c
कर्णस्तु पाण्डवे शक्तिं काञ्चनीं समवासृजत् । 033a
ततस्तामेव जग्राह प्रहसन्पाण्डुनन्दनः ॥ 033c
कर्णायैव च दुर्धर्षश्चिक्षेपाजौ वृकोदरः । 034a
तामापतन्तीं चिच्छेद शकुनिस्तैलपायिना ॥ 034c
एतत्कृत्वा महत्कर्म रणेऽद्भुतपराक्रमः । 035a
पुनः स्वरथमास्थाय दुद्राव तव वाहिनीम् ॥ 035c
तमायान्तं जिघांसन्तं भीमं क्रुद्धमिवान्तकम् । 036a
न्यवारयन्महाबाहुं तव पुत्रा विशाम्पते । 036c
महता शरवर्षेण च्छादयन्तो महारथाः ॥ 036e
दुर्मदस्य ततो भीमः प्रहसन्निव संयुगे । 037a
सारथिं च हयांश्चैव शरैर्निन्ये यमक्षयम् ॥ 037c
दुर्मदस्तु ततो यानं दुष्कर्णस्यावचक्रमे । 038a
तावेकरथमारूढौ भ्रातरौ परतापनौ || 038c
सङ्ग्रामशिरसो मध्ये भीमं द्वावप्यधावताम् । 039a
यथाम्बुपतिमित्रौ हि तारकं दैत्यसत्तमम् ॥ 039c
ततस्तु दुर्मदश्चैव दुष्कर्णश्च तवात्मजौ । 040a
रथमेकं समारुह्य भीमं बाणैरविध्यताम् ॥ 040c
ततः कर्णस्य मिषतो द्रौणेर्दुर्योधनस्य च । 041a
कृपस्य सोमदत्तस्य बाह्लीकस्य च पाण्डवः ॥ 041c
दुर्मदस्य च वीरस्य दुष्कर्णस्य च तं रथम् । 042a
पादप्रहारेण धरां प्रावेशयदरिन्दमः ॥ 042c
ततः सुतौ ते बलिनौ शूरौ दुष्कर्णदुर्मदौ । 043a
मुष्टिनाऽऽहत्य सङ्क्रुद्धो ममर्द चरणेन ह ॥ 043c
ततो हाहाकृते सैन्ये दृष्ट्वा भीमं नृपाऽब्रुवन् । 044a
रुद्रोऽयं भीमरूपेण धार्तराष्ट्रेषु युध्यति ॥ 044c
एवमुक्त्वा पलायन्ते सर्वे भारत पार्थिवाः । 045a
विसञ्ज्ञा वाहयन्वाहान्न च द्वौ सह धावतः ॥ 045c
ततो बले भृशलुलिते निशामुखे सुपूजितो नृपवृषभैर्वृकोदरः । 046a
महाबलः कमलविबुद्धलोचनो युधिष्ठिरं नृपतिमपूजयद्बली ॥ 046c
ततो यमौ द्रुपदविराटकेकया युधिष्ठिरश्चापि परां मुदं ययुः । 047a
वृकोदरं भृशमनुपूजयंश्च ते यथान्धके प्रतिनिहते हरं सुराः ॥ 047c
ततः सुतास्ते वरुणात्मजोपमा रुषान्विताः सह गुरुणा महात्मना । 048a
वृकोदरं सरथपदातिकुञ्जरा युयुत्सवो भृशमभिपर्यवारयन् ॥ 048c
'ततो यमौ द्रुपदसुताः ससैनिका युधिष्ठिरद्रुपदविराटसात्वताः । 049a
घटोत्कचो जयविजयौ द्रुमो वृकः ससृञ्जयास्तव तनयानवारयन् ॥' 049c
ततोऽभवत्तिमिरघनैरिवावृते महाभये भयदमतीव दारुणम् । 050a
निशामुखे वृकबलगृध्रमोदनं महात्मना नृपवर युद्धमद्भुतम् ॥ ॥ 050c

इति श्रीमन्महाभारते द्रोणपर्वणि घटोत्कचवधपर्वणि चतुर्दशरात्रियुद्धे षट्पञ्चाशदधिकशततमोऽध्यायः ॥ 156 ॥

5-156-06 गावः गाः ॥ 5-156-46 कमलविबुद्धलोचनो विलसत्पद्मनेत्रः ॥ 5-156-48 गुरुणा द्रोणेन ॥ 5-156-50 तिमिराण्येव घनास्तैः ॥ षट्पञ्चाशदधिकशततमोऽध्यायः ॥ 156 ॥