श्रीः
अध्यायः 155
द्रोणयुद्धवर्णनम् ॥ 1 ॥
धृतराष्ट्र उवाच 001
यत्तदा प्राविशत्पाण्डूनाचार्यः कुपितो बली । 001a
उक्त्वा दुर्योधनं मन्दं मम शास्त्रातिगं सुतम् ॥ 001c
प्रविश्य विचरन्तं च रथे शूरमवस्थितम् । 002a
कथं द्रोणं महेष्वासं पाण्डवाः पर्यवारयन् ॥ 002c
केऽरक्षन्दक्षिणं चक्रमाचार्यस्य महाहवे । 003a
के चोत्तरमरक्षन्त निघ्नतः शात्रवान्बहून् ॥ 003c
के चास्य पृष्ठतोऽन्वासन्वीरा वीरस्य योधिनः । 004a
के पुरस्तादवर्तन्त रथिनस्तस्य शत्रवः ॥ 004c
मन्ये तानस्पृशच्छीतमतिवेलमनार्तवम् । 005a
मन्ये ते समवेपन्त गावो वै शिशिरे यथा ॥ 005c
यत्प्राविशन्महेष्वासः पाञ्चालानपराजितः । 006a
नृत्यन्स रथमार्गेषु सर्वशस्त्रभृतां वरः ॥ 006c
निर्दहन्सर्वसैन्यानि पाञ्चालानां रथर्षभः । 007a
धूमकेतुरिव क्रुद्धः कथं मृत्युमुपेयिवान् ॥ 007c
सञ्जय उवाच 008
सायाह्ने सैन्धवं हत्वा राज्ञा पार्थः समेत्य च । 008a
सात्यकिश्च महेष्वासो द्रोणमेवाभ्यधावताम् ॥ 008c
तथा युधिष्ठिरस्तूर्णं भीमसेनश्च पाण्डवः । 009a
पृथक्चमूभ्यां संयत्तौ द्रोणमेवाभ्यधावताम् ॥ 009c
तथैव नकुलो धीमान्सहदेवश्च दुर्जयः । 010a
धृष्टद्युम्नः शतानीको विराटश्च सकेकयः । 010c
मात्स्याः साल्वाः ससेनाश्च द्रोणमेव ययुर्युधि ॥ 010e
द्रुपदश्च तथा राजा पाञ्चालैरभिरक्षितः । 011a
धृष्टद्युम्नपिता राजन्द्रोणमेवाभ्यवर्तत ॥ 011c
द्रौपदेया महेष्वासा राक्षसश्च घटोत्कचः । 012a
ससैन्यास्ते न्यवर्तन्त द्रोणमेव महाद्युतिम् ॥ 012c
प्रभद्रकाश्च पाञ्चालाः षट्सहस्राः प्रहारिणः । 013a
द्रोणमेवाभ्यवर्तन्त पुरस्कृत्य शिखण्डिनम् ॥ 013c
तथेतरे नरव्याघ्राः पाण्डवानां महारथाः । 014a
सहिताः सन्न्यवर्तन्त द्रोणमेव द्विजर्षभम् ॥ 014c
तेषु शूरेषु युद्धाय गतेषु भरतर्षभ । 015a
बभूव रजनी घोरा भीरूणां भयवर्धिनी ॥ 015c
योधानामशिवा रौद्रा राजन्नन्तकगामिनी । 016a
कुञ्जराश्वमनुष्याणां प्राणान्तकरणी तदा ॥ 016c
तस्यां रजन्यां घोरायां नदन्त्यः सर्वतः शिवाः । 017a
न्यवेदयन्भयं घोरं सज्वालकवलैर्मुखैः ॥ 017c
उलूकाश्चाप्यदृश्यन्त शंसन्तो विपुलं भयम् । 018a
विशेषतः कौरवाणां ध्वजिन्यामतिदारुणाः ॥ 018c
ततः सैन्येषु राजेन्द्र शब्दः समभवन्महान् । 019a
भेरीशब्देन महता मृदङ्गानां स्वनेन च ॥ 019c
गजानां बृंहितैश्चापि तुरङ्गाणां च हेषितैः । 020a
खुरशब्दनिपातैश्च तुमुलः सर्वतोऽभवत् ॥ 020c
ततः समभवद्युद्धं सन्ध्यायामतिदारुणम् । 021a
द्रोणस्य च महाराज सृञ्जयानां च सर्वशः ॥ 021c
तमसा चावृते लोके न प्राज्ञायत किञ्चन । 022a
सैन्येन रजसा चैव समन्तादुत्थितेन ह ॥ 022c
नरस्याश्वस्य नागस्य समसज्जत शोणितम् । 023a
नापश्याम रजो भौमं कश्मलेनाभिसंवृताः ॥ 023c
रात्रौ वंशवनस्येव दह्यमानस्य पर्वते । 024a
घोरश्चटचटाशब्दः शस्त्राणां पततामभूत् ॥ 024c
मृदङ्गानकनिर्ह्रादैर्झर्झरैः पटहैस्तथा । 025a
फेत्कारैर्हेषितैः शब्दैः सर्वमेवाकुलं बभौ ॥ 025c
नैव स्वे न परे राजन्प्राज्ञायन्त तमोवृते । 026a
उन्मत्तमिव तत्सर्वं बभूव रजनीमुखे ॥ 026c
भौमं रजोऽथ राजेन्द्र शोणितेन प्रणाशितम् । 027a
शातकौम्भैश्च कवचैर्भूषणैश्च तमोऽनशत् ॥ 027c
ततः सा भारती सेना मणिहेमविभूषिता । 028a
द्यौरिवासीत्सनक्षत्रा रजन्यां भरतर्षभ ॥ 028c
गोमायुबलसङ्घुष्टा शक्तिध्वजसमाकुला । 029a
वारणाभिरुता घोरा क्ष्वेडितोत्क्रुष्टनादिता ॥ 029c
तत्राभवन्महाशब्दस्तुमुलो रोमहर्षणः । 030a
समावृण्वन्दिशः सर्वा महेन्द्राशनिनिःस्वनः ॥ 030c
सा निशीथे महाराज सेनाऽदृश्यत भारती । 031a
अङ्गदैः कुण्डलैर्निष्कैः शस्त्रैश्चैवावभासिता ॥ 031c
तत्र नागा रथाश्चैव जाम्बूनदविभूषिताः । 032a
निशायां प्रत्यदृश्यन्त मेघा इव सविद्युतः ॥ 032c
ऋष्टिशक्तिगदाबाणमुसलप्रासपट्टसाः । 033a
सम्पतन्तो व्यदृश्यन्त भ्राजमाना इवाग्नयः ॥ 033c
दुर्योधनपुरोवातां रथनागबलाहकाम् । 034a
वादित्रघोषस्तनितां चापविद्युद्ध्वजैर्वृताम् ॥ 034c
द्रोणपाण्डवपर्जन्यां खड्गशक्तिगदाशनिम् । 035a
शरधारास्त्रपवनां शस्त्रपातोष्मसङ्कुलाम् ॥ 035c
घोरां विस्मापनीमुग्रां जीवितच्छिदमप्लवाम् । 036a
तां प्राविशन्नतिभयां नदीं युद्धचिकीर्षवः ॥ 036c
तस्मिन्रात्रिमुखे घोरे महाशब्दनिनादिते । 037a
भीरूणां त्रासजनने शूराणां हर्षवर्धने ॥ 037c
रात्रियुद्धे महाघोरे वर्तमाने सुदारुणे । 038a
द्रोणमभ्यद्रवन्क्रुद्धाः सहिताः पाण्डुसृञ्जयाः ॥ 038c
ये ये प्रमुखतो राजन्नावर्तन्त महारथाः । 039a
तान्सर्वान्विमुखांश्चक्रे कांश्चिन्निन्ये यमक्षयम् ॥ 039c
तानि नागसहस्राणि रथानामयुतानि च । 040a
पदातिहयसङ्घानां प्रयुतान्यर्बुदानि च । 040c
द्रोणेनैकेन नाराचैर्निर्भिन्नानि निशामुखे ॥ ॥ 040e
इति श्रीमन्महाभारते द्रोणपर्वणि घटोत्कचवधपर्वणि चतुर्दशरात्रियुद्धे पञ्चपञ्चाशदधिकशततमोऽध्यायः ॥ 155 ॥
5-155-1 शास्त्रातिगं शास्त्रमाज्ञा ॥ 5-155-7 धूमकेतुरग्निः ॥ 5-155-14 सन्न्यवर्तन्त सम्मुखं नितरामवर्तन्त ॥ 5-155-155 पञ्चपञ्चाशदधिकशततमोऽध्यायः ॥