श्रीः
अध्यायः 154
युधिष्ठिरेण दुर्योधनपराजयः ॥ 1 ॥
सञ्जय उवाच 001
तदुदीर्णं रथाश्वौघं बलं तव जनाधिप । 001a
पाण्डुसेनामतिक्रम्य योधयामास सर्वतः ॥ 001c
पाञ्चालाः कुरवश्चैव योधयन्तः परस्परम् । 002a
यमराष्ट्राय महते परलोकाय दीक्षिताः ॥ 002c
शूराः शूरैः समागम्य शरतोमरशक्तिभिः । 003a
विव्यधुः समरेऽन्योन्यं निन्युश्चैव यमक्षयम् ॥ 003c
रथिनां रथिभिः सार्धं रुधिरस्रावदारुणम् । 004a
प्रावर्तत महद्युद्धं निघ्नतामितरेतरम् ॥ 004c
वारणाश्च महाराज समासाद्य परस्परम् । 005a
विषाणैर्दारयामासुः सुसङ्क्रुद्धा मदोत्कटाः ॥ 005c
हयारोहान्हयारोहाः प्रासशक्तिपरश्वथैः । 006a
बिभिदुस्तुमुले युद्धे प्रार्थयन्तो महद्यशः ॥ 006c
पत्तयश्च महाबाहो शतशः शस्त्रपाणयः । 007a
अन्योन्यमार्दयन्राजन्नित्यं यत्ताः पराक्रमे ॥ 007c
गोत्राणां नामधेयानां कुलानां चैव मारिष । 008a
श्रवणाद्धि विजानीमः पाञ्चालान्कुरुभिः सह ॥ 008c
तेऽन्योन्यं समरे योधाः शरशक्तिपरश्वथैः । 009a
प्रैषयन्परलोकाय विचरन्तो ह्यभीतवत् ॥ 009c
शरैर्दश दिशो राजंस्तेषां मुक्तैः सहस्रशः । 010a
न भ्राजन्ते यथा पूर्वं भास्करस्य च नाशनात् ॥ 010c
तथा प्रयुध्यमानेषु पाण्डवेयेषु भारत । 011a
दुर्योधनो महाराज व्यवागाहत तद्बलम् ॥ 011c
सैन्धवस्य वधेनैव भृशं दुःखसमन्वितः । 012a
मर्तव्यमिति सञ्चिन्त्य प्राविशच्च द्विषद्बलम् ॥ 012c
नादयन्रथघोषेण कम्पयन्निव मेदिनीम् । 013a
अभ्यवर्तत पुत्रस्ते पाण्डवानामनीकिनीम् ॥ 013c
स सन्निपातस्तुमुलस्तस्य तेषां च भारत । 014a
अभवत्सर्वसैन्यानामभावकरणो महान् ॥ 014c
'धृतराष्ट्र उवाच 015
तथा हतेषु सैन्येषु तथा कृच्छ्रगतः स्वयम् । 015a
कच्चिद्दुर्योधनः सूत नाकार्षीत्पृष्ठतो रणम् ॥ 015c
एकस्य च बहूनां च सन्निपातो महानभूत् । 016a
विशेषतो हि नृपतेर्विषमं प्रतिभाति मे ॥ 016c
सोऽत्यन्तसुखसंवृद्धो रक्ष्यो लोकस्य चेश्वरः । 017a
एको बहून्समासाद्य कच्चिन्नासीत्पराङ्मुखः ॥ 017c
द्रोणः कर्णः कृपश्चैव कृतवर्मा च सात्वतः । 018a
नावारयन्कथं युद्धे राजानं राज्यकाङ्क्षिणः ॥ 018c
सर्वोपायैर्हि युद्धेषु रक्षितव्यो महीपतिः । 019a
एषा नीतिः परा युद्धे दृष्टा तत्र मनीषिभिः ॥ 019c
प्रविष्टे वै मम सुते परेषां वै महद्बलम् । 020a
मामका रथिनां श्रेष्ठाः किमकुर्वत सञ्जय ॥ 020c
सञ्जय उवाच 021
राजन्सङ्ग्राममाश्चर्यं पुत्रस्य तव भारत । 021a
एकस्य च बहूनां च शृणु मे ब्रुवतो ध्रुवम् ॥ 021c
द्रोणेन वार्यमाणोऽसौ कर्णेन च कृपेण च । 022a
प्राविशत्पाण्डवीं सेनां मकरः सागरं यथा ॥ 022c
किरन्निषुसहस्राणि तत्रतत्र तथातथा । 023a
पाञ्चालान्पाण्डवांश्चैव विव्याध निशितैः शरैः ॥ 023c
यथोदयगतः सूर्यो रश्मिभिर्नाशयेत्तमः । 024a
तथा पुत्रस्तव बलं नाशयत्तन्महाबलः ॥' 024c
यथा मध्यन्दिने सूर्यं प्रतपन्तं गभस्तिभिः । 025a
तथा तव सुतं मध्ये प्रतपन्तं शरार्चिभिः । 025c
न शेकुर्भारतं युद्धे पाण्डवाः समुदीक्षितुम् ॥ 025e
पलायनकृतोत्साहा निरुत्साहा द्विषज्जये । 026a
पर्यधावन्त पाञ्चाला वध्यमाना महात्मना ॥ 026c
रुक्मपुङ्खैः प्रसन्नाग्रैस्तव पुत्रेण धन्विना । 027a
अर्द्यमानाः शरैस्तूर्णं न्यपतन्पाण्डुसैनिकाः ॥ 027c
'व्यद्रवंश्च भयाद्योधा दृष्ट्वा तं परमाहवे । 028a
व्यात्ताननमिव प्राप्तमन्तकं प्राणहारिणम् ॥' 028c
न तादृशं रणे कर्म कृतवन्तस्तु तावकाः । 029a
यादृशं कृतवान्राजा पुत्रस्तव विशाम्पते ॥ 029c
पुत्रेण तव सा सेना पाण्डवी मथिता रणे । 030a
नलिनी द्विरदेनेव समन्तात्फुल्लपङ्कजा ॥ 030c
क्षीणतोयानिलार्काभ्यां हतत्विडिव पद्मिनी । 031a
बभूव पाण्डवी सेना तव पुत्रस्य तेजसा ॥ 031c
पाण्डुसेनां हतां दृष्ट्वा तव पुत्रेण भारत । 032a
भीमसेनपुरोगास्तु पाञ्चालाः समुपाद्रवन् ॥ 032c
स भीमसेनं दशभिर्माद्रीपुत्रौ त्रिभिस्त्रिभिः । 033a
विराटद्रुपदौ षड्भिः शतेन च शिखण्डिनम् ॥ 033c
धृष्टद्युम्नं च सप्तत्या धर्मपुत्रं च सप्तभिः । 034a
केकयांश्चैव चेदींश्च बहुभिर्निशितैः शरैः ॥ 034c
सात्वतं पञ्चभिर्विद्ध्वा द्रौपदेयांस्त्रिभिस्त्रिभिः । 035a
घटोत्कचं च समरे विद्ध्वा सिंह इवानदत् ॥ 035c
शतशश्चापरान्योधान्सद्विपांश्च महारणे । 036a
शरैरवचकर्तोग्रैः क्रुद्धोऽन्तक इव प्रजाः ॥ 036c
सा तेन पाण्डवी सेना वध्यमाना शिलीमुखैः । 037a
तव पुत्रेण सङ्ग्रामे विदुद्राव नराधिप ॥ 037c
तं तपन्तमिवादित्यं कुरुराजं महाहवे । 038a
नाशकन्वीक्षितुं राजन्पाण्डुपुत्रस्य सैनिकाः ॥ 038c
ततो युधिष्ठिरो राजा कुपितो राजसत्तम । 039a
अभ्यधावत्कुरुपतिं तव पुत्रं जिघांसया ॥ 039c
तावुभौ युधि कौरव्यौ समीयतुररिन्दमौ । 040a
स्वार्थहेतोः पराक्रान्तौ दुर्योधनयुधिष्ठिरौ ॥ 040c
ततो दुर्योधनः क्रुद्धः शरैः सन्नतपर्वभिः । 041a
विव्याध दशभिस्तूर्णं ध्वजं चिच्छेद चेषुणा ॥ 041c
इन्द्रसेनं त्रिभिश्चैव ललाटे जघ्निवान्नृप । 042a
सारथिं दयितं राज्ञः पाण्डवस्य महात्मनः ॥ 042c
धनुश्च पुनरन्येन चकर्तास्य महारथः । 043a
चतुर्भिश्चतुरश्चैव बाणैर्विव्याध वाजिनः ॥ 043c
ततो युधिष्ठिरः क्रुद्धो निमेषादिव कार्मुकम् । 044a
अन्यदादाय वेगेन कौरवं प्रत्यवारयत् ॥ 044c
तस्य तान्निघ्नतः शत्रून्रुक्मपृष्ठं महद्धनुः । 045a
भल्लाभ्यां पाण्डवो ज्येष्ठस्त्रिधा चिच्छेद मारिष ॥ 045c
विव्याध चैनं दशभिः सम्यगस्तैः शितैः शरैः । 046a
मर्म भित्त्वा तु ते सर्वे संलग्नाः क्षितिमाविशन् ॥ 046c
ततः परिवृता योधाः परिवव्रुर्युधिष्ठिरम् । 047a
वृत्रेण सह युध्यन्तं यद्वद्देवाः शतक्रतुम् ॥ 047c
ततो युधिष्ठिरो राजा तव पुत्रस्य मारिष । 048a
शरं च सूर्यरश्म्याभमत्युग्रमनिवारणम् । 048c
हा हतोऽसीति राजानमुक्त्वाऽमुञ्चद्युधिष्ठिरः ॥ 048e
स तेनाकर्णमुक्तेन विद्धो बाणेन कौरवः । 049a
निषसाद रथोपस्थे भृशं सम्मूढचेतनः ॥ 049c
ततः पाञ्चाल्यसेनानां भृशमासीद्रवो महान् । 050a
हतो राजेति राजेन्द्र मुदितानां समन्ततः ॥ 050c
बाणशब्दरवश्चोग्रः शुश्रुवे तत्र मारिष । 051a
अथ द्रोणो द्रुतं तत्र प्रत्यदृश्यत संयुगे ॥ 051c
हृष्टो दुर्योधनश्चापि दृढमादाय कार्मुकम् । 052a
तिष्ठतिष्ठेति राजानं ब्रुवन्पाण्डवमभ्ययात् ॥ 052c
प्रत्युद्ययुस्तं त्वरिताः पाञ्चाला जयगृद्धिनः । 053a
तान्द्रोणः प्रतिजग्राह परीप्सन्कुरुसत्तमम् । 053c
चण्डवातः समुद्धूतो मेघानम्बुमुचो यथा ॥ 053e
ततो राजन्महानासीत्सङ्ग्रामो भूरिवर्धनः । 054a
तावकानां परेषां च समेतानां युयुत्सया ॥ ॥ 054c
इति श्रीमन्महाभारते द्रोणपर्वणि घटोत्कचवधपर्वणि चतुर्दशरात्रियुद्धे चतुःपञ्चाशदधिकशततमोऽध्यायः ॥ 154 ॥
5-154-8 गोत्रं पित्रादि नाम शैनेय सात्यके इत्यादि । कुलं पाण्ड्यपाञ्चाल्येत्यादि ॥ 5-154-46 सम्यगस्तैः दृढं प्रक्षिप्तैः ॥ 5-154-51 बाणशब्दरवो बाणशब्दसहितो रवः प्राणिशब्दः ॥ 5-154-54 भूरिवर्धनो बहुच्छेदनः ॥ 5-154-154 चतुःपञ्चाशदधिकशततमोऽध्यायः ॥