श्रीः
अध्यायः 153
दुर्योधनेन कर्णम् प्रति जयद्रथवधे द्रोणस्य पार्थपक्षपातादौदासीन्यस्य हेतुत्वेऽभिहिते कर्णेन तन्निराकरणपूर्वकं दैवस्यैव तत्र हेतुत्वकथनम् ॥ 1 ॥ रात्रियुद्धारम्भः ॥ 2 ॥
सञ्जय उवाच 001
ततो दुर्योधनो राजा द्रोणेनैवं प्रचोदितः । 001a
अमर्षवशमापन्नो युद्धायैव मनो दधे । 001c
अब्रवीच्च तदा कर्णं पुत्रो दुर्योधनस्तव ॥ 001e
पश्य कृष्णसहायेन पाण्डवेन किरीटिना । 002a
आचार्यविहितं व्यूहं भित्त्वा देवैः सुदुर्भिदम् ॥ 002c
तव व्यायच्छमानस्य द्रोणस्य च महात्मनः । 003a
मिषतां योधमुख्यानां सैन्धवो विनिपातितः ॥ 003c
पश्य राधेय पृथ्वीशाः पृथिव्यां प्रवरा युधि । 004a
पार्थेनैकेन निहताः सिंहेनेवेतरे मृगाः ॥ 004c
मम व्यायच्छमानस्य समरे शत्रुसूदन । 005a
अल्पावशेषं सैन्यं मे कृतं शक्रात्मजेन ह ॥ 005c
कथं वै युध्यमानस्य द्रोणस्य युधि फल्गुनः । 006a
भिन्द्यात्सुदुर्भिदं व्यूहं यतमानोऽपि संयुगे ॥ 006c
प्रतिज्ञाया गतः पारं हत्वा सैन्धवमर्जुनः ॥ 007ac
पश्य राधेय पृथ्वीशान्पृथिव्यां पातितान्बहून् । 008a
पार्थेन निहतान्सङ्ख्ये महेन्द्रोपमविक्रमान् ॥ 008c
अनिच्छतः कथं वीर द्रोणस्य युधि पाण्डवः । 009a
भिन्द्यात्सुदुर्भिदं व्यृहं यतमानस्य शुष्मिणः ॥ 009c
दयितः फल्गुनो नित्यमाचार्यस्य महात्मनः । 010a
ततोऽस्य दत्तवान्द्वारमयुद्धेनैव शत्रुहन् ॥ 010c
अभयं सिन्धुराजाय दत्त्वा द्रोणः परन्तपः । 011a
प्रादात्किरीटिने द्वारं पश्यन्निर्गुणतां मयि ॥ 011c
यद्यदास्यदनुज्ञां वै पूर्वमेव गृहान्प्रति । 012a
प्रस्थातुं सिन्धुराजस्य न भवेज्जीवितक्षयः ॥ 012c
जयद्रथो जीवितार्थी गच्छमानो गृहान्प्रति । 013a
मयाऽनार्येण संरुद्धो द्रोणात्प्राप्याभयं रणे ॥ 013c
'रक्षामि सैन्धवं युद्धे नैनं प्राप्स्यति फल्गुनः । 014a
मम सैन्यविनाशाय रुद्धो विप्रेण सैन्धवः ॥ 014c
तस्य मे मन्दभाग्यस्य यतमानस्य संयुगे । 015a
हतानि सर्वसैन्यानि हतो राजा जयद्रथः ॥ 015c
पश्य योधवरान्कर्ण शतशोऽथ सहस्रशः । 016a
पार्थनामाङ्कितैर्बाणैः सर्वे नीता यमक्षयम् ॥ 016c
कथमेकरथेनाजौ बहूनां नः प्रपश्यताम् । 017a
विपन्नः सैन्धवो राजा योधाश्चैव सहस्रशः ॥' 017c
अद्य मे भ्रातरः क्षीणाश्चित्रसेनादयो रणे । 018a
भीमसेनं समासाद्य पश्यतां नो दुरात्मनाम् ॥ 018c
कर्ण उवाच 019
आचार्यं मा विगर्हस्व शक्त्याऽसौ युध्यते द्विजः । 019a
यथाबलं यथोत्साहं त्यक्त्वा जीवितमात्मनः ॥ 019c
यद्येनं समतिक्रम्य प्रविष्टः श्वेतवाहनः । 020a
नात्र सूक्ष्मोऽपि दोषः स्यादाचार्यस्य कथञ्चन ॥ 020c
कृती दक्षो युवा शूरः कृतास्त्रो लघुविक्रमः । 021a
दिव्यास्त्रयुक्तमास्थाय रथं वानरलक्षणम् ॥ 021c
कृष्णेन च गृहीताश्वमभेद्यकवचावृतः । 022a
गाण्डीवमजरं दिव्यं धनुरादाय वीर्यवान् ॥ 022c
प्रवर्षन्निशितान्बाणान्बाहुद्रविणदर्पितः । 023a
यदर्जुनोऽभ्ययाद्द्रोणमुपपन्नं हि तस्य तत् ॥ 023c
आचार्यः स्थविरो राजञ्शीघ्रयाने तथाऽक्षमः । 024a
बाहुव्यायामचेष्टायामशक्तस्तु नराधिप ॥ 024c
तेनैवमभ्यतिक्रान्तः श्वेताश्वः कृष्णसारथिः । 025a
तस्य दोषं न पश्यामि द्रोणस्यानेन हेतुना ॥ 025c
अजय्यान्पाण्डवान्मन्ये द्रोणेनास्त्रविदा मृधे । 026a
तथा ह्येनमतिक्रम्य प्रविष्टः श्वेतवाहनः ॥ 026c
सततं चेष्टमानानां निकृत्या विक्रमेण च । 027a
दैवादिष्टोऽन्यथाभावो न मन्ये विद्यते क्वचित् ॥ 027c
यतो नो युध्यमानानां परं शक्त्या सुयोधन । 028a
सैन्धवो निहतो युद्धे दैवमत्र परं स्मृतम् ॥ 028c
परं यत्नं कुर्वतां च त्वया सार्धं रणाजिरे । 029a
हत्वाऽस्माकं पौरुषं वै दैवं पश्चात्करोति नः ॥ 029c
दैवोपसृष्टपुरुषो यत्कर्म कुरुते क्वचित् । 030a
कृतं कृतं हि तत्तस्य दैवेन विनिपात्यते ॥ 030c
यत्कर्तव्यं मनुष्येण व्यवसायवता सदा । 031a
तत्कार्यमविशङ्केन सिद्धिर्दैवे प्रतिष्ठिता ॥ 031c
निकृत्या वञ्चिताः पार्था विषयोगैश्च भारत । 032a
दग्धा जतुगृहे चापि द्यूतेन च पराजिताः ॥ 032c
राजनीतिं समाश्रित्य प्रहिताश्चैव काननम् । 033a
यत्नेन च कृतं तत्तद्दैवेन विनिपातितम् ॥ 033c
युध्यस्व यत्नमास्थाय दैवं कृत्वा निरर्थकम् । 034a
यततस्तव तेषां च दैवं मार्गेण यास्यति ॥ 034c
न तेषां मतिपूर्वं हि सुकृतं दृश्यते क्वचित् । 035a
दुष्कृतं तव वा वीर बुद्ध्या हीनं कुरूद्वह ॥ 035c
दैवं प्रमाणं सर्वस्य सुकृतस्येतरस्य वा । 036a
अनन्यकर्म दैवं हि जागर्ति स्वपतामपि । 036c
'तेन युक्तो हि पुरुषः कार्याकार्ये नियुज्यते ॥' 036e
बहूनि तव सैन्यानि योधाश्च बहवस्तव । 037a
न तथा पाण्डुपुत्राणामेवं युद्धमवर्तत ॥ 037c
तैरल्पैर्बहवो यूयं क्षयं नीताः प्रहारिणः । 038a
शङ्के दैवस्य तत्कर्म पौरुषं येन नाशितम् ॥ 038c
सञ्जय उवाच 039
एवं सम्भाषमाणानां बहु तत्तज्जनाधिप । 039a
पाण्डवानामनीकानि समदृश्यन्त संयुगे ॥ 039c
ततः प्रववृते युद्धं व्यतिषक्तरथद्विपम् । 040a
तावकानां परैः सार्धं राजन्दुर्मन्त्रिते तव ॥ ॥ 040c
इति श्रीमन्महाभारते द्रोणपर्वणि जयद्रथवधपर्वणि चतुर्दशदिवसयुद्धे त्रिपञ्चाशदधिकशततमोऽध्यायः ॥ 153 ॥
5-153-12 यद्यदास्यत् दद्याच्चेदित्यर्थः । सिन्धुराजस्य नाभविष्यज्जनक्षय इति झ. पाठः ॥ 5-153-27 अन्यथाभावः पराजयो दैवादिष्टः । नतु द्रोणापराधज इति भावः ॥ दैवदृष्ट्याऽन्यथाभावो न मन्युर्विद्यते क्वचित् इति क. पाठः । दैवदिष्टान्यथाभावो न मन्युर्विद्यते क्वचित् इति ख. पाठः ॥ 5-153-30 दैवोपसृष्टो दुर्दैवप्रस्तः ॥ 5-153-35 तेषां जयहेतुः सुकृतं तव वा पराजयहेतुः दुष्कृतं नास्तीत्याह । न तेषामिति ॥ 5-153-153 त्रिपञ्चाशदधिकशततमोऽध्यायः ॥