श्रीः
अध्यायः 152
द्रोणेन सोपालम्भं दुर्योधनाश्वासनपूर्वकं रणाय निर्याणम् ॥ 1 ॥
धृतराष्ट्र उवाच 001
सिन्धुराजे हते तात समरे सव्यसाचिना । 001a
तथैव भूरिश्रवसि किमासीद्वो मनस्तदा ॥ 001c
दुर्योधनेन च द्रोणस्तथोक्तः कुरसंसदि । 002a
किमुक्तवान्परं तस्मात्तन्ममाचक्ष्व सञ्जय ॥ 002c
सञ्जय उवाच 003
निष्टानको महानासीत्सैन्यानां तव भारत । 003a
सैन्धवं निहतं दृष्ट्वा भूरिश्रवसमेव च ॥ 003c
मन्त्रितं तव पुत्रस्य ते सर्वमवमेनिरे । 004a
येन मन्त्रेण निहताः शतशः क्षत्रियर्षभाः ॥ 004c
द्रोणस्तु तद्वचः श्रुत्वा पुत्रस्य तव दुर्मनाः । 005a
मुहूर्तमिव च ध्यात्वा भृशमार्तोऽभ्यभाषत ॥ 005c
द्रोण उवाच 006
दुर्योधन किमेवं मां वाक्शरैरुपकृन्तसि । 006a
अजय्यं सततं सङ्ख्ये ब्रुवाणं सव्यसाचिनम् ॥ 006c
एतेनैवार्जुनं ज्ञातुमलं कौरव संयुगे । 007a
यच्छिखण्ड्यवधीद्भीष्मं पाल्यमानः किरीटिना ॥ 007c
अवध्यं निहतं दृष्ट्वा संयुगे देवदानवैः । 008a
तदैवाज्ञासिषमहं नेयमस्तीति भारती ॥ 008c
यं पुंसां त्रिषु लोकेषु सर्वशूरममंस्म हि । 009a
तस्मिन्निपतिते भीष्मे कं शेषं पर्युपास्महे ॥ 009c
यान्स्म तान्ग्लहते तात शकुनिः कुरुसंसदि । 010a
अक्षान्न तेऽक्षा निशिता बाणास्ते शत्रुतापनाः || 010c
'अक्षांस्तु मन्यसे बाणाञ्छोभमानाञ्छिताञ्शरान् |' 011a
'त एते घ्नन्ति नस्तात विशिखाः पार्थचोदिताः । 011c
तांस्तदाऽऽख्यायमानस्त्वं विदुरेण न बुद्धवान् ॥ 011e
यास्ता विलपतश्चापि विदुरस्य महात्मनः । 012a
धीरस्य वाचो नाश्रौषीः क्षेमाय वदतः शिवाः ॥ 012c
तदिदं वर्तते घोरमागतं वैशसं महत् । 013a
तस्यावमानाद्वाक्यस्य दुःशासनकृतेन च ॥ 013c
योऽवमन्य वचः पथ्यं सुहृदामाप्तकारिणाम् । 014a
स्वमतं कुरुते मूढः स शोच्यो नचिरादिव ॥ 014c
यच्च नः प्रेक्षमाणानां कृष्णामानाय्य तत्सभाम् । 015a
अनर्हन्तीं कुले जातां सर्वधर्मानुचारिणीम् ॥ 015c
तस्याधर्मस्य गान्धारे फलं प्राप्तमिदं महत् । 016a
नोचेत्पापं परे लोके त्वमृच्छेथास्ततोऽधिकम् ॥ 016c
यच्च तान्पाण्डवान्द्यूते विषमेण विजित्य ह । 017a
प्राव्राजयस्तदाऽरण्ये रौरवाजिनवाससः ॥ 017c
पुत्राणामिव चैतेषां धर्ममाचरतां सदा । 018a
द्रुह्येत्को नु नरो लोके मदन्यो ब्राह्मणब्रुवः ॥ 018c
पाण्डवानामयं कोपस्त्वया शकुनिना सह । 019a
आहृतो धृतराष्ट्रस्य सम्मते कुरु संसदि ॥ 019c
दुःशासनेन संयुक्तः कर्णेन परिवर्धितः । 020a
क्षत्तुर्वाक्यमनादृत्य त्वयाऽभ्यस्तः पुनः पुनः ॥ 020c
'स हि नः क्रोधवृक्षश्च कृतमूलो महात्मनाम् । 021a
तस्य पुष्पफले राजन्नुपभुङ्क्ष्व महाबल ॥' 021c
यत्ताः सर्वे पराभूताः पर्यवारयतार्जुनम् । 022a
सिन्धुराजानमाश्रित्य स वो मध्ये कथं हतः ॥ 022c
कथं त्वयि च कर्णे च कृपे शल्ये च जीवति । 023a
अश्वत्थाम्नि च कौरव्य निधनं सैन्धवोऽगमत् ॥ 023c
युध्यन्तः सर्वराजानस्तेजस्विन उपासते । 024a
सिन्धुराजं परित्रातुं वो मध्ये कथं हतः ॥ 024c
मय्येव हि विशेषेण तथा दुर्योधन त्वयि । 025a
आशंसत परित्राणमर्जुनात्स महीपतिः ॥ 025c
ततस्तस्मिन्परित्राणमलब्धवति फल्गुनात् । 026a
न किञ्चिदनुपश्यामि जीवितस्थानमात्मनः ॥ 026c
मज्जन्तमिव चात्मानं धृष्टद्युम्नस्य संयुगे । 027a
पश्याम्यहत्वा पाञ्चालान्सह तेन शिखण्डिना ॥ 027c
तन्मां किमभितप्यन्तं वाक्शरैरेव कृन्तसि । 028a
अशक्तः सिन्धुराजस्य भूत्वा त्राणाय भारत ॥ 028c
सौवर्णं सत्यसन्धस्य ध्वजमक्लिष्टकर्मणः । 029a
अपश्यन्युधि भीष्मस्य कथमाशंससे जयम् ॥ 029c
मध्ये महारथानां च यत्राहन्यत सैन्धवः । 030a
हतो भूरिश्रवाश्चैव किं शेषं तत्र मन्यसे ॥ 030c
कृप एव च दुर्धर्षो यदि जीवति पार्थिव । 031a
यो नागात्सिन्धुराजस्य वर्त्म तं पूजयाम्यहम् ॥ 031c
यत्रापश्यं हतं भीष्मं पश्यतस्तेऽनुजस्य वै । 032a
दुःशासनस्य कौरव्य कुर्वाणं कर्म दुष्करम् ॥ 032c
अवध्यकल्पं सङ्ग्रामे देवैरपि सवासवैः । 033a
न ते वसुन्धराऽस्तीति तदाहं चिन्तये नृप ॥ 033c
इमानि पाण्डवानां च सृञ्जयानां च भारत । 034a
अनीकान्याद्रवन्ते मां सहितान्यद्य भारत ॥ 034c
नाहत्वा सर्वपाञ्चालान्कवचस्य विमोक्षणम् । 035a
कर्ताऽस्मि समरे कर्म धार्तराष्ट्र हितं तव ॥ 035c
राजन्ब्रूयाः सुतं मे त्वमश्वत्थामानमाहवे । 036a
न सोमकाः प्रमोक्तव्या जीवितं परिरक्षता ॥ 036c
यच्च पित्राऽनुशिष्टोऽसि तद्वचः परिपालय । 037a
आनृशंस्ये दमे सत्ये चार्जवे च स्थिरो भव ॥ 037c
धर्मार्थकामकुशलो धर्मार्थावप्यपीडयन् । 038a
धर्मप्रधानकार्याणि कुर्याश्चेति पुनः पुनः ॥ 038c
चक्षुर्मनोभ्यां सन्तोष्या विप्राः पूज्याश्च शक्तितः । 039a
न चैषां विप्रियं कार्यं ते हि वह्निशिखोपमाः ॥ 039c
एष त्वहमनीकानि प्रविशाम्यरिसूदन । 040a
रणाय महते राजंस्त्वया वाक्शरपीडितः ॥ 040c
त्वं च दुर्योधन बलं यदि शक्तोऽसि पालय । 041a
रात्रावपि च योद्धव्याः संरब्धाः कुरुसृञ्जयाः ॥ 041c
एवमुक्त्वा ततः प्रायाद्द्रोणः पाण्डवसृञ्जयान् । 042a
मुष्णन्क्षत्रियतेजांसि नक्षत्राणामिवांशुमान् ॥ ॥ 042c
इति श्रीमन्महाभारते द्रोणपर्वणि जयद्रथवधपर्वणि चतुर्दशदिवसयुद्धे द्विपञ्चाशदधिकशततमोऽध्यायः ॥ 152 ॥
5-152-3 निष्टानकः सव्यथः शब्दः ॥ 5-152-8 इयं सेना नास्तीत्यस्य नष्टेत्यर्थः ॥ 5-152-10 ग्लहते पातयति ॥ 5-152-16 नोचेदिति । परे लोकेऽधिकः पापिनां क्लेश इहत्वल्पेनैव भोगेन निस्तार इति भावः ॥ नेह चेत्परलोके यत्पापमिच्छेत्ततोऽधिकम् इति क. पाठः । न भवेत्परलोके यत्तप्तमिच्छेत्ततोऽधिकम् । इति ख. पाठः । नोचेत्पापं परं लोके त्वं मन्येथास्ततोऽधिकम् इति ङ. पाठः । नेह वै परलोकाय पापमिच्छेत पार्थिवः इति ट. ङ. पाठः ॥ 5-152-20 अभ्यस्त आवर्तितः ॥ 5-152-22 यस्तु शर्वाद्वरं लब्ध्वा पर्यवारयदर्जुनम् । सिन्धुराजः समाश्रित्य स वो मध्ये कथं हतः इति क. ख. पाठः । यत्ताः सर्वे पुरा भूत्वा अर्जुनं पर्यवारयन् । सिन्धुराजः समाश्रित्य स वो मध्ये कथं हतः इति ट. पाठः । यत्तत्सर्वे परं भूत्वा पर्यवारयतार्जुनम् । सिन्धुराजानमाश्रित्य स वो मध्ये कथं हतः इति ङ. पाठः । यत्तत्सर्वे पराभूय पर्यवारयतार्जुनिम् । सिन्धुराजानमाश्रित्य स वो मध्ये कथं हतः इति ङ. पाठः ॥ 5-152-27 पश्याम्यहं वै पाञ्चालान्सह तेन शिखण्डिना इति क. ट. ङ. पाठः । धृष्टद्युम्नस्य किल्बिषे इति झ. पाठः ॥ 5-152-152 द्विपञ्चाशदधिकशततमोऽध्यायः ॥