श्रीः अध्यायः 151 सैन्धववधदुःखितेन दुर्योधनेन द्रोणमेत्य आत्मोपालम्भपूर्वकं परिशोचनम् ॥ 1 ॥ सञ्जय उवाच 001
सैन्धवे निहते राजन्पुत्रस्तव सुयोधनः । 001a
[अश्रुपूर्णमुखो दीनो निरुत्साहो द्विषज्जये ॥ 001c
दुर्मना निःश्वसन्दुष्टो भग्नदंष्ट्र इवोरगः । 002a
आगस्कृत्सर्वलोकस्य पुत्रस्तेऽर्तिं परामगात् ॥ 002c
दृष्ट्वा तत्कदनं घोरं स्वबलस्य कृतं महत् । 003a
जिष्णुना भीमसेनेन सात्वतेन च संयुगे ॥ 003c
स विवर्णः कृशो दीनो बाष्पविप्लुतलोचनः ।] 004a
अमन्यतार्जुनसमो न योद्धा भुवि विद्यते ॥ 004c
न द्रोणो न च राधेयो नाश्वत्थामा कृपो न च । 005a
पार्थस्य सम्मुखे स्थातुं पर्याप्ता इति मारिष ॥ 005c
निर्जित्य हि रणे पार्थः सर्वान्मम महारथान् । 006a
अवधीत्सैन्धवं सङ्ख्ये न च कश्चिदवारयत् ॥ 006c
सर्वथा हतमेवेदं कौरवाणां महद्बलम् । 007a
न ह्यस्य विद्यते त्राता साक्षादपि पुरन्दरः ॥ 007c
यमुपाश्रित्य सङ्ग्रामे कृतः शस्त्रसमुद्यमः । 008a
स कर्णो निर्जितः सङ्ख्ये हतश्चैव जयद्रथः ॥ 008c
'परुषाणि सभामध्ये प्रोक्तवान्यो हि पाण्डवान् । 009a
स कर्णो निर्जितः सङ्ख्ये सैन्धवश्च निपातितः ॥ 009c
यस्य वीर्यं समाश्रित्य शमं याचन्तमच्युतम् । 010a
तृणवत्तमहं मन्ये स कर्णो निर्जितो युधि ॥ 010c
एवं क्लान्तमना राजन्नुपायाद्रोणमीक्षितुम् । 011a
आगस्कृत्सर्वलोकस्य पुत्रस्ते भरतर्षभ ॥ 011c
ततस्तत्सर्वमाचख्यौ कुरूणां वैशसं महत् । 012a
परान्विजयतश्चापि धार्तराष्ट्रान्निमज्जतः ॥ 012c
दुर्योधन उवाच 013
पश्य मूर्धाभिषिक्तानामाचार्य कदनं महत् । 013a
कृत्वा प्रमुखतः शूरं भीष्मं मम पितामहम् ॥ 013c
तं निहत्य प्रलुब्धोऽयं शिखण्डी पूर्णमानसः । 014a
पाञ्चाल्यैः सहितः सर्वैः सेनाग्रमभिवर्तते ॥ 014c
अपरश्चापि दुर्धर्षः शिष्यस्ते सव्यसाचिना । 015a
अक्षौहिणीः सप्त हत्वा हतो राजा जयद्रथः ॥ 015c
अस्मद्विजयकामानां सुहृदामुपकारिणाम् । 016a
गन्ताऽस्मि कथमानृण्यं गतानां यमसादनम् ॥ 016c
ये मदर्थं परीप्सन्ते वसुधां वसुधाधिपाः । 017a
ते हित्वा वसुधैश्वर्यं वसुधामधिशेरते ॥ 017c
सोऽहं कापुरुषः कृत्वा मित्राणां क्षयमीदृशम् । 018a
अश्वमेधसहस्रेण पावितुं न समुत्सहे ॥ 018c
मम लुब्धस्य पापस्य तथा धर्मापचायिनः । 019a
व्यायामेन जिगीषन्तः प्राप्ता वैवस्वतक्षयम् ॥ 019c
कथं पतितवृत्तस्य पृथिवी सुहृदां द्रुहः । 020a
विवरं नाशकद्दातुं मम पार्थिवसंसदि ॥ 020c
योऽहं रुधिरसिक्ताङ्गं राज्ञां मध्ये पितामहम् । 021a
शयानं नाशकं त्रातुं भीष्ममायोधने हतम् ॥ 021c
तं मामनार्यपुरुषं मित्रद्रुहमधार्मिकम् । 022a
किं वक्ष्यति हि दुर्धर्षः समेत्य परलोकजित् ॥ 022c
जलसन्धं महेष्वासं पश्य सात्यकिना हतम् । 023a
मदर्थमुद्यतं शूरं प्राणांस्त्यक्त्वा महारथम् ॥ 023c
काम्भोजं निहतं दृष्ट्वा तथालम्बुसमेव च । 024a
अन्यान्बहूंश्च सुहृदो जीवितार्थोऽद्य को मम ॥ 024c
व्यायच्छन्तो हताः शूरा मदर्थे ये पराङ्मुखाः । 025a
यतमानाः परं शक्त्या विजेतुमहितान्मम ॥ 025c
तेषां गत्वाऽहमानृण्यमद्य शक्त्या परन्तप । 026a
तर्पयिष्यामि तानेव जलेन यमुनामनु ॥ 026c
सत्यं ते प्रतिजानामि सर्वशस्त्रभृतां वर । 027a
इष्टापूर्तेन च शपे वीर्येण च सुतैरपि ॥ 027c
निहत्य तान्रणे सर्वान्पाञ्चालान्पाण्डवैः सह । 028a
शान्तिं लब्धाऽस्मि तेषां वा रणे गन्ता सलोकताम् || 028c
सोऽहं तत्र गमिष्यामि यत्र ते पुरुषर्षभाः । 029a
हता मदर्थे सङ्ग्रामे युध्यमानाः किरीटिना ॥ 029c
न हीदानीं सहाया मे परीप्सन्त्यनुपस्कृताः । 030a
श्रेयो हि पाण्डून्मन्यन्ते न तथास्मान्महाभुज ॥ 030c
स्वयं हि मृत्युर्विहितः सत्यसन्धेन संयुगे । 031a
भवानुपेक्षां कुरुते शिष्यत्वादर्जुनस्य हि ॥ 031c
अतो विनिहताः सर्वे येऽस्मज्जयचिकीर्षवः । 032a
कर्णमेव तु पश्यामि सम्प्रत्यस्मज्जयैषिणम् ॥ 032c
यो हि मित्रमविज्ञाय याथातथ्येन मन्दधीः । 033a
मित्रार्थे योजयत्येनं तस्य सोऽर्थोऽवसीदति ॥ 033c
तादृग्रूपं कृतमिदं मम कार्यं सुहृत्तमैः । 034a
मोहाल्लुब्धस्य पापस्य जिह्मस्य धनमीहतः ॥ 034c
यौ मे युद्धस्य कृत्यस्य जिह्माचारैः समीयतुः । 035a
हतो जयद्रथश्चैव सौमदत्तिश्च विर्यवान् । 035c
अभीषाहाः शूरसेनाः शिबयोऽथ वसातयः ॥ 035e
सोऽहमद्य गमिष्यामि यत्र ते पुरुषर्षभाः । 036a
हता मदर्थे सङ्ग्रामे युध्यमानाः किरीटिना ॥ 036c
न हि मे जीवितेनार्थस्तानृते पुरुषर्षभान् । 037a
आचार्यः पाण्डुपुत्राणामनुजानातु नो भवान् ॥ ॥ 037c

इति श्रीमन्महाभारते द्रोणपर्वणि जयद्रथवधपर्वणि चतुर्दशदिवसयुद्धे एकपञ्चाशदधिकशततमोऽध्यायः ॥ 151 ॥

5-151-02 आर्तिमिति च्छेदः ॥ 5-151-14 प्रलुब्धः प्रकृष्टो लुब्धकस्तद्वद्वञ्चकत्वात् ॥ 5-151-19 धर्मापचायिनः धर्मक्षेपकस्य ॥ 5-151- 37 आचार्यः पाण्डुपुत्राणामित्युपालम्भः ॥ 5-151- एकपञ्चाशदधिकशततमोऽध्यायः ॥ 151 ॥