श्रीः अध्यायः 150 युधिष्ठिरेण स्वाभिवादकानां कृष्णभीमार्जुनसात्यकीनामालिङ्गनादिना सत्कारः ॥ 1 ॥ कृष्णयुधिष्ठिरयोः संलापः ॥ 2 ॥ सञ्जय उवाच 001
ततो राजानमभ्येत्य धर्मपुत्रं युधिष्ठिरम् । 001a
ववन्दे सम्प्रहृष्टात्मा हते पार्थेन सैन्धवे ॥ 001c
दिष्ट्या वर्धसि राजेन्द्र हतशत्रुर्नरोत्तम । 002a
दिष्ट्या निस्तीर्णवांश्चैव प्रतिज्ञामनुजस्तव ॥ 002c
स त्वेवमुक्तः कृष्णेन हृष्टः परपुरञ्जयः । 003a
ततो युधिष्ठिरो राजा रथादाप्लुत्य भारत । 003c
पर्यष्वजत्तदा कृष्णावानन्दाश्रुपरिप्लुतः ॥ 003e
प्रमृज्य वदनं शुभ्रं पुण्डरीकसमप्रभम् । 004a
अब्रवीद्वासुदेवं च पाण्डवं च धनञ्जयम् ॥ 004c
प्रियमेतदुपश्रुत्य त्वत्तः पुष्करलोचन । 005a
नान्तं गच्छामि हर्षस्य तितीर्षुरुदधेरिव ॥ 005c
अत्यद्भुतमिदं कृष्ण कृतं पार्थेन धीमता । 006a
दिष्ट्या पश्यामि सङ्ग्रामे तीर्णभारौ महारथौ ॥ 006c
दिष्ट्या च निहतः पापः सैन्धवः पुरुषाधमः । 007a
'दिष्ट्या शत्रुगणाश्चैव निमग्नाः शोकसागरे ॥' 007c
कृष्ण दिष्ट्या मम प्रीतिर्महती प्रतिपादिता । 008a
त्वया गुप्तेन गोविन्द घ्नता पापं जयद्रथम् ॥ 008c
किन्तु नात्यद्भुतं तेषां येषां नस्त्वं समाश्रयः । 009a
न तेषां दुष्कृतं किञ्चित्त्रिषु लोकेषु विद्यते । 009c
सर्वलोकगुरुर्येषां त्वं नाथो मधुसूदन ॥ 009e
त्वत्प्रसादाद्धि गोविन्द वयं जेष्यामहे रिपून् । 010a
'यथा पुरा प्रसादात्ते दानवान्पाकशासनः ॥ 010c
पृथिव्या विजयो वापि त्रैलोक्यविजयोऽपि वा । 011a
ध्रुवो हि तेषां वार्ष्णेय येषां तुष्टोऽसि मानद ॥ 011c
न तेषां विद्यते पापं सङ्ग्रामे वा पराजयः । 012a
त्रिदशेश्वर नाथस्त्वं येषां तुष्टोऽसि माधव ॥ 012c
त्वत्प्रसादाद्धृषीकेश शक्रः सुरगणेश्वरः । 013a
त्रैलोक्यविजयं श्रीमान्प्राप्तवान्रणमूर्धनि ॥ 013c
तव चैव प्रसादेन त्रिदशास्त्रिदशेश्वराः । 014a
अमरत्वं गताः कृष्ण लोकांश्चाश्नुवतेऽक्षयान् ॥' 014c
स्थितः सर्वात्मना नित्यं प्रियेषु च हितेषु च । 015a
त्वां चैवास्माभिराश्रित्य कृतः शस्त्रसमुद्यमः । 015c
सुरैरिवासुरवधे शक्रं शक्रानुजाहवे ॥ 015e
असम्भाव्यमिदं कर्म देवैरपि जनार्दन । 016a
त्वद्बुद्धिबलवीर्येण कृतवानेष फल्गुनः ॥ 016c
बाल्यात्प्रभृति ते कृष्ण कर्माणि श्रुतवानहम् । 017a
अमानुषाणि दिव्यानि महान्ति च बहूनि च । 017c
तदैवाज्ञासिषं शत्रून्हतान्प्राप्तां च मेदिनीम् ॥ 017e
त्वत्प्रसादसमुत्थेन विक्रमेणारिसूदन । 018a
सुरेशत्वं गतः शक्रो हत्वा दैत्यान्सहस्रशः ॥ 018c
त्वत्प्रसादाद्धृषीकेश जगत्स्थावरजङ्गमम् । 019a
स्ववर्त्मनि स्थितं वीर जपहोमेषु वर्तते ॥ 019c
एकार्णवमिदं पूर्वं सर्वमासीत्तमोमयम् । 020a
त्वत्प्रसादान्माहाबाहो जगत्प्राप्तं नरोत्तम ॥ 020c
स्रष्टारं सर्वलोकानां परमात्मानमव्ययम् । 021a
ये पश्यन्ति हृषीकेश न ते मुह्यन्ति कर्हिचित् ॥ 021c
पुराणं परमं देवं देवदेवं सनातनम् । 022a
ये प्रपन्नाः सुरगुरुं न ते मुह्यन्ति कर्हिचित् ॥ 022c
अनादिनिधनं देवं लोककर्तारमव्ययम् । 023a
ये भक्तास्त्वां हृषीकेश दुर्गाण्यतितरन्ति ते ॥ 023c
परं पुराणं पुरुषं पराणां परमं च यत् । 024a
प्रपद्यतस्तत्परमं परा भूतिर्विधीयते ॥ 024c
गायन्ति चतुरो वेदा यश्च देवेषु गीयते । 025a
तं प्रपद्य महात्मानं भूतिमश्नाम्यनुत्तमाम् ॥ 025c
परमेश परेशेश तिर्यगीश नरेश्वर । 026a
सर्वेश्वरेश्वरेशेश नमस्ते पुरुषोत्तम ॥ 026c
त्वमीशेशेश्वरेशान प्रभो वर्धस्व माधव । 027a
प्रभवाप्यय सर्वस्य सर्वात्मन्पृथुलोचन ॥ 027c
धनञ्जयसखा यश्च धनञ्जयहितश्च यः । 028a
धनञ्जयस्य गोप्ता तं प्रपद्य सुखमेधते ॥ 028c
[मार्कण्डेयः पुराणर्षिश्चरितज्ञस्तवानघ । 029a
माहात्म्यमनुभावं च पुरा कीर्तितवान्मुनिः ॥ 029c
असितो देवलश्चैव नारदश्च महातपाः । 030a
पितामहश्च मे व्यासस्त्वामाहुर्विधिमुत्तमम् ॥ 030c
त्वं तेजस्त्वं परं ब्रह्म त्वं सत्यं त्वं महत्तपः । 031a
त्वं श्रेयस्त्वं यशश्चाग्र्यं कारणं जगतस्तथा ॥ 031c
त्वया सृष्टमिदं सर्वं जगत्स्थावरजङ्गमम् । 032a
प्रलये समनुप्राप्ते त्वां वै निविशते पुनः ॥ 032c
अनादिनिधनं देवं विश्वस्येशं जगत्पते । 033a
धातारमजमव्यक्तमाहुर्वेदविदो जनाः ॥ 033c
भूतात्मानं महात्मानमनन्तं विश्वतोमुखम् । 034a
अपि देवा न जानन्ति गुह्यमाद्यं जगत्पतिम् । 034c
नारायणं परं देवं परमात्मानमीश्वरम् ॥ 034e
ज्ञानयोनिं हरिं विष्णुं मुमुक्षूणां परायणम् । 035a
परं पुराणं पुरुषं पुराणानां परं च यत् ॥ 035c
एवमादिगुणानां ते कर्मणां दिवि चेह च । 036a
अतीतभूतभव्यानां सङ्ख्याताऽत्र न विद्यते ॥ 036c
सर्वतो रक्षणीयाः स्म शक्रेणेव दिवौकसः । 037a
यैस्त्वं सर्वगुणोपेतः सुहृन्न उपपादितः ॥ 037c
इत्येवं धर्मराजेन हरिरुक्तो महायशाः । 038a
अनुरूपमिदं वाक्यं प्रत्युवाच जनार्दनः ॥ 038c
भवता तपसोग्रेण धर्मेण परमेण च । 039a
साधुत्वादार्जवाच्चैव हतः पापो जयद्रथः ॥ 039c
अयं च पुरुषव्याघ्र त्वदनुध्यानसंवृतः । 040a
हत्वा योधसहस्राणि न्यहञ्जिष्णुर्जयद्रथम् ॥ 040c
कृतित्वे बाहुवीर्ये च तथैवासम्भ्रमेऽपि च । 041a
शीघ्रतामोघबुद्धित्वे नास्ति पार्थसमः क्वचित् ॥ 041c
तदयं भरतश्रेष्ठ भ्राता तेऽद्य यदर्जुनः । 042a
सैन्यक्षयं रणे कृत्वा सिन्धुराजशिरोऽहरत् ॥ 042c
ततो धर्मसुतो जिष्णुं परिष्वज्य विशाम्पते । 043a
प्रमृज्य वदनं तस्य पर्याश्वासयत प्रभुः ॥ 043c
अतीव सुमहत्कर्म कृतवानसि फल्गुन । 044a
असह्यं चाविषह्यं च देवैरपि सवासवैः ॥ 044c
दिष्टा निस्तीर्णभारोऽसि हतारिश्चासि शत्रुहन् । 045a
दिष्ट्या सत्या प्रतिज्ञेयं कृता हत्वा जयद्रथम् ॥ 045c
एवमुक्त्वा गुडाकेशं धर्मराजो महायशाः । 046a
पस्पर्श पुण्यगन्धेन पृष्ठे हस्तेन पार्थिवः ॥] 046c
सञ्जय उवाच 047
एवमुक्तौ महात्मानावुभौ केशवपाण्डवौ । 047a
तावब्रूतां तदा कृष्णौ राजानं पृथिवीपतिम् ॥ 047c
तव कोपाग्निना दग्धः पापो राजञ्जयद्रथः । 048a
उत्तीर्णं चापि सुमहद्धार्तराष्ट्रबलं रणे ॥ 048c
युधिष्ठिर उवाच 049
हन्यन्ते निहताश्चैव विनङ्क्ष्यन्ति च केशव । 049a
तव क्रोधहता ह्येते कौरवाः शत्रुसूदन ॥ 049c
त्वां हि चक्षुर्हणं वीर कोपयित्वा सुयोधनः । 050a
समित्रबन्धुः समरे प्राणांस्त्यक्ष्यति दुर्मतिः ॥ 050c
तव क्रोधहतः पूर्वं देवैरपि सुदुर्जयः । 051a
शरतल्पगतः शेते भीष्मः कुरुपितामहः ॥ 051c
दुर्लभो विजयस्तेषां सङ्ग्रामे रिपुघातिनाम् । 052a
याता मृत्युवशं ते वै येषां क्रुद्धोऽपि माधव ॥ 052c
राज्यं प्राणाः श्रियः पुत्राः सौख्यानि विविधानि च । 053a
अचिरात्तस्य नश्यन्ति येषां क्रुद्धोऽसि मानद ॥ 053c
भगवानुवाच 054
विनष्टान्कौरवान्मन्ये सपुत्रपशुबान्धवान् । 054a
राजधर्मपरे नित्यं त्वयि क्रुद्धे परन्तप ॥ 054c
सञ्जय उवाच 055
ततो भीमो महाबाहुः सात्यकिश्च महारथः । 055a
अभिवाद्य गुरुं ज्येष्ठं मार्गणैः क्षतविक्षतौ । 055c
क्षितावास्तां महेष्वासौ पाञ्चाल्यपरिवारितौ ॥ 055e
तौ दृष्ट्वा मुदितो वीरौ प्राञ्जली चाग्रतः स्थितौ । 056a
अभ्यनन्दत कौन्तेयस्तावुभौ भीमसात्यकी ॥ 056c
दिष्ट्या पश्यामि वा शूरौ विमुक्तौ सैन्यसागरात् । 057a
द्रोणग्राहदुराधर्षाद्धार्दिक्यमकरालयात् ॥ 057c
दिष्ट्या विनिर्जिताः सङ्ख्ये पृथिव्यां सर्वपार्थिवाः । 058a
युवां विजयिनौ चापि दिष्ट्या पश्यामि संयुगे ॥ 058c
दिष्ट्या द्रोणो जितः सङ्ख्ये हार्दिक्यश्च महाबलः । 059a
दिष्ट्या विकर्णिभिः कर्णो रणे नीतः पराभवम् ॥ 059c
विमुखश्च कृतः शल्यो युवाभ्यां पुरुषर्षभौ । 060a
दिष्ट्या युवां कुशलिनौ सङ्ग्रामात्पुनरागतौ । 060c
पश्यामि रथिनां श्रेष्ठावुभौ युद्धविशारदौ ॥ 060e
मम वाक्यकरौ वीरौ मम गौरवयन्त्रितौ । 061a
सैन्यार्णवं समुत्तीर्णौ दिष्ट्या पश्यामि वामहम् ॥ 061c
समरश्लाघिनौ वीरौ समरेष्वपराजितौ । 062a
मम वाक्यसमौ चैव दिष्ट्या पश्यामि वामहम् ॥ 062c
इत्युक्त्वा पाण्डवो राजन्युयुधानवृकोदरौ । 063a
सस्वजे पुरुषव्याघ्रौ हर्षाद्बाष्पं मुमोच ह ॥ 063c
ततः प्रमुदितं सर्वं बलमासीद्विशाम्पते । 064a
पाण्डवानां रणे हृष्टं युद्धाय तु मनो दधे ॥ ॥ 064c

इति श्रीमन्महाभारते द्रोणपर्वणि जयद्रथवधपर्वणि चतुर्दशदिवसयुद्धे पञ्चाशदधिकशततमोऽध्यायः ॥ 150 ॥

5-150-8 गुप्तेन अर्जुनेनेति शेषः ॥ 8 ॥ 5-150-15 शक्रानुजेति कृष्णं प्रति सम्बोधनम् ॥ 5-150-25 चतुरश्चत्वारः ॥ 5-150-27 त्वमिति । हे ईशेश रुद्राद्याराध्य । ईश्वरा राजानस्तेषामपीशानो धर्मः । तदेतत्क्षत्रस्य क्षत्रं यद्धर्म इति श्रुतेस्तस्यापि प्रभो । धर्मस्य प्रभुरच्युत इति स्मृतेः ॥ 5-150-28 सखा वयस्यः । हितः प्रियकृत् । गोप्ता दुःखनिवारकः ॥ 5-150-29 कुण्डलितः पाठः झ. पुस्तक एव दृश्यते ॥ 5-150-48 उत्तीर्णं लङ्घितम् ॥ 5-150-50 चक्षुर्हणं क्रोधदृष्टिमात्रेण हन्तारम् ॥ 5-150-150 पञ्चाशदधिकशततमोऽध्यायः ॥