श्रीः
अध्यायः 149
अर्जुनेन निजशराहतिमोहितं कृपम् प्रति शोचनम् ॥ 1 ॥ सार्जुनेन कृष्णेन युधिष्ठिरमेत्य जयद्रथवधकथनम् ॥ 2 ॥ भीमादीनां युधिष्ठिरसमीपसमागमनम् ॥ 3 ॥
धृतराष्ट्र उवाच 001
तस्मिन्विनिहते वीरे सैन्धवे सव्यसाचिना । 001a
मामका यदकुर्वन्त तन्ममाचक्ष्व सञ्जय ॥ 001c
'पश्यतां सर्वसैन्यानां मामकानां महारणे । 002a
अहन्यत कथं युद्धे सैन्धवः सव्यसाचिना ॥ 002c
कथं द्रौणिकृपैर्गुप्तः कर्णेन च महारणे । 003a
फल्गुनाग्निमुखं घोरं प्रविष्टः साधु सैन्धवः ॥ 003c
तस्मिन्हते महेष्वासे मन्दात्मा स सुयोधनः । 004a
भ्रातृभिः सहितः सूत किमकार्षीदनन्तरम् ॥' 004c
सञ्जय उवाच 005
सैन्धवं निहतं दृष्ट्वा रणे पार्थेन भारत । 005a
अमर्षवशमापन्नः कृपः शारद्वतस्ततः ॥ 005c
महता शरवर्षेण पाण्डवं समवाकिरत् । 006a
द्रौणिश्चाभ्यद्रवद्राजन्रथमास्थाय फल्गुनम् ॥ 006c
तावेतौ रथिनां श्रेष्ठौ रथाभ्यां रथसत्तमौ । 007a
उभावुभयतस्तीक्ष्णैर्विशिखैरभ्यवर्षताम् ॥ 007c
स तथा शरवर्षाभ्यां सुमहद्भ्यां महाभुजः । 008a
पीड्यमानः परामार्तिमगमद्रथिनां वरः ॥ 008c
सोऽजिघांसुर्गुरुं सङ्ख्ये गुरोस्तनयमेव च । 009a
चकाराचार्यकं तत्र कुन्तीपुत्रो धनञ्जयः ॥ 009c
अस्त्रैरस्त्राणि संवार्य द्रौणेः शारद्वतस्य च । 010a
मन्दवेगानिषूंस्ताभ्यामजिघांसुरवासृजत् ॥ 010c
तेन नातिभृशं त्रस्तौ विशिखैर्भृशपीडितौ । 011a
बहुत्वात्तु परामार्तिं शराणां तावगच्छताम् ॥ 011c
अथ शारद्वतो राजन्कौन्तेयशरपीडितः । 012a
अवासीदद्रथोपस्थे मूर्च्छामभिजगाम ह ॥ 012c
विह्वलं तमभिज्ञाय भर्तारं शरपीडितम् । 013a
हतोऽयमिति च ज्ञात्वा सारथिस्तमपावहत् ॥ 013c
तस्मिन्भग्ने महाराज कृपे शारद्वते युधि । 014a
अश्वत्थामाप्यपायासीत्पाण्डवेयाद्रथान्तरम् ॥ 014c
दृष्ट्वा शारद्वतं पार्थो मूर्च्छितं शरपीडितम् । 015a
धिग्धिङ्मामिति चैवोक्त्वा कृपणं पर्यदेवयत् । 015c
अश्रुपूर्णमुखो दीनो वचनं चेदमब्रवीत् ॥ 015e
पश्यन्निदं महाप्राज्ञः क्षत्ता राजानमुक्तवान् । 016a
कुलान्तकरणे पापे जातमात्रे सुयोधने ॥ 016c
नीयतां परलोकाय साध्वयं कुलपांसनः । 017a
अस्माद्धि कुरुमुख्यानां महदुत्पत्स्यते भयम् ॥ 017c
तदिदं समनुप्राप्तं वचनं सत्यवादिनः । 018a
तत्कृते ह्यद्य पश्यामि शरतल्पगतं गुरुम् ॥ 018c
धिगस्तु क्षात्रमाचारं धिगस्तु बलपौरुषम् । 019a
को हि ब्राह्मणमाचार्यमभिद्रुह्येत मादृशः ॥ 019c
ऋषिपुत्रो ममाचार्यो द्रोणस्य परमः सखा । 020a
एष शेते रथोपस्थे कृपो मद्बाणपीडितः ॥ 020c
अकामयानेन मया विशिखैरर्दितो भृशम् । 021a
अवसीदन्रथोपस्थे प्राणान्पीडयतीव मे ॥ 021c
पुत्रशोकाभितप्तेन शरैरभ्यर्दितेन च । 022a
अभ्यस्तो बहुभिर्बाणैर्दशधर्मगतेन वै ॥ 022c
'शरार्दितः स हि मया प्रेक्षमाणो महाद्युतिः ।' 023a
शोचयत्येष नियतं भूयः पुत्रवधाद्धि माम् । 023c
कृपणं स्वरथे सन्नं पश्य कृष्ण यथागतम् ॥ 023e
उपाकृत्य तु वै विद्यामाचार्येभ्यो नरर्षभाः । 024a
प्रयच्छन्तीह ये कामान्देवत्वमुपयान्ति ते ॥ 024c
ये च विद्यामुपादाय गुरुभ्यः पुरुषाधमाः । 025a
घ्नन्ति तानेव दुर्वृत्तास्ते वै निरयगामिनः ॥ 025c
तदिदं नरकायाद्य कृतं कर्म मया ध्रुवम् । 026a
आचार्यं शरवर्षेण रथे सादयता कृपम् ॥ 026c
यत्तत्पूर्वमुपाकुर्वन्नस्त्रं मामब्रवीत्कृपः । 027a
न कथञ्चन कौरव्य प्रहर्तव्यं गुराविति ॥ 027c
तदिदं वचनं साधोराचार्यस्य महात्मनः । 028a
नानुष्ठितं तमेवाजौ विशिखैरभिवर्षता ॥ 028c
नमस्तस्मै सुपूज्याय गौतमायापलायिने । 029a
धिगस्तु मम वार्ष्णेय यदस्मै प्रहराम्यहम् ॥ 029c
सञ्जय उवाच 030
तथा विलपमाने तु सव्यसाचिनि तं प्रति । 030a
*ततो राजन्हृषीकेशः सङ्ग्रामशिरसि स्थितम् । 030c
तीर्णप्रतिज्ञं बीभत्सुं परिष्वज्यैनमब्रवीत् ॥ 030e
दिष्ठ्या सम्पादिता जिष्णो प्रतिज्ञा महती त्वया । 031a
दिष्ट्या विनिहतः पापो वृद्धक्षत्रः सहात्मजः ॥ 031c
धार्तराष्ट्रबलं प्राप्य देवसेनापि भारत । 032a
सीदेत समरे जिष्णो नात्र कार्या विचारणा ॥ 032c
न तं पश्यामि लोकेषु चिन्तयन्पुरुषं क्वचित् । 033a
त्वदृते पुरुषव्याघ्र य एतद्योधयेद्बलम् ॥ 033c
महाप्रभावा बहवस्त्वया तुल्याधिकापि वा । 034a
समेताः पृथिवीपाला धार्तराष्ट्रस्य कारणात् ॥ 034c
ते त्वां प्राप्य रणे क्रुद्धा नाभ्यवर्तन्त दंशिताः । 035a
तव वीर्यं बलं चैव रुद्रशक्रान्तकोपमम् ॥ 035c
नेदृशं शक्नुयात्कश्चिद्रणे कर्तुं पराक्रमम् । 036a
यादृशं कृतवानद्य त्वमेकः शत्रुतापनः ॥ 036c
एवमेव हते कर्णे सानुबन्धे दुरात्मनि । 037a
वर्धयिष्यामि भूयस्त्वां विजितारिं हतद्विषम् ॥ 037c
तमर्जुनः प्रत्युवाच प्रसादात्तव माधव । 038a
प्रतिज्ञेयं मया तीर्णा विबुधैरपि दुस्तरा ॥ 038c
अनाश्चर्यो जयस्तेषां येषां नाथोऽसि केशव । 039a
त्वत्प्रसादान्महीं कृत्स्नां सम्प्राप्स्यति युधिष्ठिरः ॥ 039c
तवैष भारो वार्ष्णेय तवैव विजयः प्रभो । 040a
वर्धनीयास्तव वयं प्रेष्याश्च मधुसूदन ॥ 040c
एवमुक्तस्ततः कृष्णः शनकैर्वाहयन्हयान् । 041a
दर्शयामास पार्थाय क्रूरमायोधनं महत् ॥ 041c
श्रीकृष्ण उवाच 042
प्रार्थयन्तो जयं युद्धे प्रथितं च महद्यशः । 042a
पृथिव्यां शेरते शूराः पार्थिवास्त्वच्छरैर्हताः ॥ 042c
विकीर्णशस्त्राभरणा विपन्नाश्वरथद्विपाः । 043a
सञ्छिन्नभिन्नमर्माणो वैक्लव्यं परमं गताः ॥ 043c
ससत्वा गतसत्वाश्च प्रभया परया युताः । 044a
सजीवा इव लक्ष्यन्ते गतसत्वा नराधिपाः ॥ 044c
तेषां शरैः स्वर्णपुङ्खैः शस्त्रैश्च विविधैः शितैः । 045a
वाहनैरायुधैश्चैव सम्पूर्णां पश्य मेदिनीम् ॥ 045c
वर्मभिश्चर्मभिर्हारैः शिरोभिश्च सकुण्डलैः । 046a
उष्णीषैर्मकुटैः स्रग्भिश्चूडामणिभिरम्बरैः ॥ 046c
कण्ठसूत्रैरङ्गदैश्च निष्कैरपि च सप्रभैः । 047a
अन्यैश्चाभरणैश्चित्रैर्भाति भारत मेदिनी ॥ 047c
[अनुकर्षैरुपासङ्गैः पताकाभिर्ध्वजैस्तथा । 048a
उपस्करैरधिष्ठानैरीषादण्डकबन्धुरैः ॥ 048c
चक्रैः प्रमथितैश्चित्रैरक्षैश्च बहुधा रणे । 049a
युगैर्योक्त्रैः कलापैश्च धनुर्भिः सायकैस्तथा ॥ 049c
परिस्तोमैः कुथाभिश्च परिघैरङ्कुशैस्तथा । 050a
शक्तिभिर्भिण्डिपालैश्च तूणैः शूलैः परश्वथैः ॥ 050c
प्रासैश्च तोमरैश्चैव कुन्तैर्यष्टिभिरेव च । 051a
शतघ्नीभिर्भुशुण्डीभिः खड्गैः परशुभिस्तथा ॥ 051c
मुसलैर्मुद्गरैश्चैव गदाभिः कुणपैस्तथा । 052a
सुवर्णविकृताभिश्च कशाभिर्भरतर्षभ ॥ 052c
घण्टाभिश्च गजेन्द्राणां भाण्डैश्च विविधैरपि । 053a
स्रग्भिश्च नानाभरणैर्वस्त्रैश्चैव महाधनैः । 053c
अपविद्धैर्बभौ भूमिर्ग्रहैर्द्यौरिव शारदी ॥ 053e
पृथिव्यां पृथिवीहेतोः पृथिवीपतयो हताः । 054a
पृथिवीमुपगुह्याङ्गैः सुप्ताः कान्तामिव प्रियाम् ॥ 054c
इमांश्च गिरिकूटाभान्नागानैरावतोपमान् । 055a
क्षरतः शोणितं भूरि शस्त्रच्छेददरीमुखैः । 055c
दरीमुखैरिव गिरीन्गैरिकाम्बुपरिस्रवान् ॥ 055e
तांश्च बाणहतान्वीर पश्य निष्टनतः क्षितौ । 056a
हयांश्च पतितान्पश्य स्वर्णभाण्डविभूषितान् ॥ 056c
गन्धर्वनगराकारान्रथांश्च निहतेश्वरान् । 057a
छिन्नध्वजपताकाक्षान्विचक्रान्हतसारथीन् ॥ 057c
निकृत्तकूबरयुगान्भग्नेषान्बन्धुरान्प्रभो । 058a
पश्य पार्थ हयान्भूमौ विमानोपमदर्शनान् ॥ 058c
पत्तींश्च निहतान्वीर शतशोऽथ सहस्रशः । 059a
धनुर्भृतश्चर्मभृतः शयानान्रुधिरोक्षितान् ॥ 059c
महीमालिङ्ग्य सर्वाङ्गैः पांसुध्वस्तशिरोरुहान् । 060a
पश्य योधान्महाबाहो त्वच्छरैर्भिन्नविग्रहान् ॥ 060c
निपातितद्विपरथवाजिसङ्कुलमसृग्वसापिशितसमृद्धकर्दमम् । 061a
निशाचरश्ववृकपिशाचमोदनं महीतलं नरवर पश्य दुर्दृशम् ॥ 061c
इदं महत्त्वय्युपपद्यते प्रभो रणाजिरे कर्म यशोऽभिवर्धनम् । 062a
शतक्रतौ चापि च देवसत्तमे महाहवे जघ्नुषि दैत्यदानवान् ॥] 062c
सञ्जय उवाच 063
एवं सन्दर्शयन्कृष्णो रणभूमिं किरीटिने । 063a
स्वैः समेतः समुदितैः पाञ्चजन्यं व्यनादयत् ॥ 063c
'सात्यकिः पार्थमभ्यायाद्भीमसेनश्च पाण्डवः । 064a
युधामन्यूत्तमौजौ च पाञ्चालस्यात्मजावुभौ ॥ 064c
ते निवार्य शरैर्द्रौणिं कर्णं च सह भूमिपैः । 065a
आगच्छन्रथिनश्चैव यत्र राजा युधिष्ठिरः ॥' 065c
स दर्शयन्नेव किरीटिनेऽरिहा जनार्दनस्तामरिभूमिमञ्जसा । 066a
अजातशत्रुं समुपेत्य पाण्डवं निवेदयामास हतं जयद्रथम् ॥ ॥ 066c
इति श्रीमन्महाभारते द्रोणपर्वणि जयद्रथवधपर्वणि चतुर्दशदिवसयुद्धे एकोनपञ्चाशदधिकशततमोऽध्यायः ॥ 149 ॥
5-149-9 अजिघांसुर्हन्तुमनिच्छन् । आचार्यकं गुरोः सम्मानम् ॥ 5-149-12 अवासीददवसन्नः ॥ 5-149-16 इदं कुलक्षयगुरुद्रोहादिकम् ॥ 5-149-18 शरतल्पगतं शरपञ्जरगतम् ॥ 5-149-22 अभ्यस्तोऽसकृन्निहतः । दशधर्मगतेन दुरवस्थागतेन ॥ 5-149-23 शोचयति शोकं कारयति । एष द्रोणः । भूयोऽधिकं पुत्रवधात् ॥ 5-149-24 उपाकृत्य अधीत्य ॥ 5-149-27 उपाकुर्वन् आध्यापयन् ॥ 5-149-30* ततो राजन्हृषीकेश इत्यादि महाप्रभावा बहवस्त्वया तुल्याधिकापि वा इत्यन्ताः सार्धचत्वारः श्लोकाः झ. पुस्तके 146 तमाध्यायस्य 25 तमश्लोकादुपरि विद्यन्ते । 5-149-48 कुण्डलिताः श्लोकाः झ.पुस्तक एव दृश्यन्ते ॥ 5-149-149 एकोनपञ्चाशदधिकशततमोऽध्यायः ॥