श्रीः
अध्यायः 148
कृष्णेनार्जुनम् प्रति सैन्धवमूर्ध्नो धरण्यामनिपातनीयत्वे कारणाभिधानम् ॥ 1 ॥ कृष्णाज्ञयाऽर्जुनेन स्यमन्तपञ्चके सन्ध्यमुपासमानस्य वृद्धक्षत्रस्योत्सङ्गे जयद्रथशिरसो निपातनम् ॥ 2 ॥ उत्तिष्ठमानस्य तस्योत्सङ्गाच्छिरसि धरणौ पतिते वृद्धक्षत्रमूर्ध्नो विदारणम् ॥ 3 ॥
सञ्जय उवाच 001
एवस्मिन्नेव काले तु त्वरमाणे दिवाकरे । 001a
अब्रवीत्पाण्डवं तत्र त्वरमाणो जनार्दनः ॥ 001c
पार्थ पार्थ शिरो ह्येनद्यत्कृते न पतेद्भुवि । 002a
श्रूयतां तद्यथावृत्तं कारणं सैन्धवं *प्रति ॥ 002c
वृद्धक्षत्रः सैन्धवस्य पिता जगति विश्रुतः । 003a
स च घोरेण तपसा सैन्धवं प्राप्तवान्सुतम् ॥ 003c
जयद्रथममित्रघ्नं वागुवाचाशरीरिणी । 004a
नृपमन्तर्हिता वाणी मेघदुन्दुभिनिःस्वना ॥ 004c
तवात्मजो मनुष्येन्द्र कुलशीलदमादिभिः । 005a
गुणैर्भविष्यति विभो सदृशो वंशयोर्द्वयोः । 005c
क्षत्रियप्रवरो लोके नित्यं शूराभिसत्कृतः ॥ 005e
शिरश्छेत्स्यति सङ्क्रुद्धः शत्रुश्चालक्षितो भुवि ॥ 006ac
एतच्छ्रुत्वा सिन्धुराजो ध्यात्वा चिरमरिन्दमः । 007a
ज्ञातीन्सर्वानुवाचेदं पुत्रस्नेहाभिचोदितः ॥ 007c
सङ्ग्रामे युध्यमानस्य वहतो महतीं धुरम् । 008a
धरण्यां मम पुत्रस्य पातयिष्यति यः शिरः ॥ 008c
तस्यापि शतधा मूर्धा फलिष्यति न संशयः । 009a
'यदि चेदस्ति मे लाभस्तपसो वा दमस्य वा ॥' 009c
एवमुक्त्वा ततो राज्ये स्थापयित्वा जयद्रथम् । 010a
वृद्धक्षत्रो वनं यातस्तपश्चोग्रं समास्थितः ॥ 010c
सोऽयं तप्यति तेजस्वी तपो घोरं दुरासदम् । 011a
स्यमन्तपञ्चकादस्माद्बहिर्वानरकेतन ॥ 011c
तस्माज्जयद्रथस्य त्वं शिरश्छित्त्वा महामृधे । 012a
दिव्येनास्त्रेण रिपुहन्घोरेणाद्भुतकर्मणा ॥ 012c
सकुण्डलं सिन्धुपतेः प्रभञ्जनसुतानुज । 013a
उत्सङ्गे पातयस्वास्य वृद्धक्षत्रस्य भारत ॥ 013c
अथ त्वमस्य मूर्धानं पातयिष्यसि भूतले । 014a
तवापि शतधा मूर्धा फलिष्यति न संशयः ॥ 014c
यथा चेदं न जानीयात्स राजा तपसि स्थितः । 015a
तथा कुरु कुरुश्रेष्ठ दिव्यमस्त्रमुपाश्रितः ॥ 015c
न ह्यसाध्यमकार्यं वा विद्यते तव किञ्चन । 016a
समस्तेष्वपि लोकेषु त्रिषु वासवनन्दन ॥ 016c
'यथैतत्सैन्धवशिरः शरैरेव धनञ्जय । 017a
वृद्धक्षत्रे पतत्येव तथा नीतिर्विधीयताम् ॥' 017c
सञ्जय उवाच 018
ततः सुमहदाश्चर्यं तत्रापश्याम भारत । 018a
स्यमन्तपञ्चकाद्बाह्यं शिरो यद्व्यहरत्ततः ॥ 018c
एतस्मिन्नेव काले तु वृद्धक्षत्रो महीपतिः । 019a
सन्ध्यामुपास्ते तेजस्वी सम्बन्धी तव मारिष ॥ 019c
उपासीनस्य तस्याथ कृष्णकेशं सकुण्डलम् । 020a
सिन्धुराजस्य मूर्धानमुत्सङ्गे समपातयत् ॥ 020c
तस्योत्सङ्गे निपतितं शिरस्तच्चारुकुण्डलम् । 021a
वृद्धक्षत्रस्य नृपतेरलक्षितमरिन्दम ॥ 021c
कृतजप्यस्य तस्याथ वृद्धक्षत्रस्य भारत । 022a
प्रोत्तिष्ठतस्तत्सहसा शिरोऽगच्छद्धरातलम् ॥ 022c
ततस्तस्य नरेन्द्रस्य पुत्रमूर्धनि भूतले । 023a
गते तस्यापि शतधा मूर्धाऽगच्छदरिन्दम ॥ 023c
ततः सर्वाणि सैन्यानि विस्मयं जग्मुरुत्तमम् । 024a
वासुदेवश्च बीभत्सुं प्रशशंस महारथम् ॥ 024c
'ततो दृष्ट्वा विनिहतं सिन्धुराजं जयद्रथम् । 025a
कर्मणा तेन पार्थस्य विस्मिताः सर्वदेवताः ॥ 025c
सर्वदा समरे यस्य गोप्ता नित्यं जनार्दनः । 026a
कथं तस्य जयो न स्यादिति भूतानि मेनिरे ॥ 026c
एतदर्थं शिरस्तस्य व्यापयामास पाण्डवः । 027a
स्यमन्तपञ्चकाद्बाह्यं शरैरेव यथाक्रमम् ॥ 027c
कृत्वा तच्च महत्कर्म निहत्य च जयद्रथम् । 028a
अस्त्रं पाशुपतं पार्थः संहर्तुमुपचक्रमे ॥ 028c
संहरत्यपि कौन्तेये तदस्त्रं तत्र भारत । 029a
ववौ शीतः सुगन्धश्च पवनो ह्लादयन्निव ॥ 029c
संहारं च प्रमोक्षं च दृष्ट्वा तत्र दिवौकसः । 030a
विस्मयं परमं जग्मुः प्रशशंसुश्च पाण्डवम् ॥ 030c
एवमस्त्रेण तान्वीरो योधयित्वा धनञ्जयः । 031a
जयद्रथशिरः पश्चाद्व्यापयामास पाण्डवः ॥ 031c
तच्छिरश्च्यावमानं तु ददृशुस्तावका युधि । 032a
शल्यकर्णकृपा राजन्मोहिताः सव्यसाचिना ॥ 032c
शिरसि च्याविते तस्य शरैराशीविषोपमैः । 033a
पश्चात्कायोऽपतद्भूमिं शोचयन्सर्वपार्थिवान् ॥ 033c
दृष्ट्वा तु निहतं सङ्ख्ये सिन्धुराजं महारथम् । 034a
पुत्राणां तव नेत्रेभ्यो दुःखादास्रं प्रवर्तत ॥' 034c
ततो विनिहते राजन्सिन्धुराजे किरीटिना । 035a
तमस्तद्वासुदेवेन संहृतं भरतर्षभ ॥ 035c
पश्चाज्ज्ञातं महीपाल तव पुत्रैः सहानुगैः । 036a
वासुदेवप्रयुक्तेयं मायेति नृपसत्तम ॥ 036c
एवं स निहतो राजन्पार्थेनामिततेजसा । 037a
अक्षौहिणीरष्ट हत्वा जामाता तव सैन्धवः ॥ 037c
हतं जयद्रथं दृष्ट्वा तव पुत्रा नराधिप । 038a
दुःखादश्रूणि मुमुचुर्निराशाश्चाभवज्जये ॥ 038c
ततो जयद्रथे राजन्हते पार्थेन केशवः । 039a
दध्मौ शङ्खं महाबाहुरर्जुनश्च परन्तपः ॥ 039c
भीमश्च वृष्णिसिंहश्च युधामन्युश्च भारत । 040a
उत्तमौजाश्च विक्रान्तः शङ्खान्दध्मुः पृथक्पृथक् ॥ 040c
श्रुत्वा महान्तं तं शब्दं धर्मराजो युधिष्ठिरः । 041a
सैन्धवं निहतं मेने फल्गुनेन महात्मना ॥ 041c
ततो वादित्रघोषेण स्वान्योधान्पर्यहर्षयत् । 042a
अभ्यवर्तत सङ्ग्रामे भारद्वाजं युयुत्सया ॥ 042c
ततः प्रववृते राजन्नस्तं गच्छति भास्करे । 043a
द्रोणस्य सोमकैः सार्धं सङ्ग्रामो रोमहर्षणः ॥ 043c
ते तु सर्वे प्रयत्नेन भारद्वाजं जिघांसवः । 044a
सैन्धवे निहते राजन्नयुध्यन्त महारथाः ॥ 044c
पाण्डवास्तु जयं लब्ध्वा सैन्धवं विनिहत्य च । 045a
अयोधयंस्तु ते द्रोणं जयोऽन्मत्तास्ततस्ततः ॥ 045c
अर्जुनोऽपि ततो योधांस्तावकान्रथसत्तमान् । 046a
अयोधयन्महाबाहुर्हत्वा सैन्धवकं नृपम् ॥ ॥ 046c
इति श्रीमन्महाभारते द्रोणपर्वणि जयद्रथवधपर्वणि चतुर्दशदिवसयुद्धे अष्टचत्वारिंशदधिकशततमोऽध्यायः ॥ 148 ॥
5-148-* 147 तमाध्याये आदित्यं प्रेक्षमाणस्तु इत्यादि 61 तमश्लोकमारभ्य 148 तमाध्याये श्रूयतां तद्यथावृत्तं कारणं सैन्धवं प्रतीति 2 तीयश्लोकपर्यन्तं विद्यमानानां 23 विंशतिश्लोकानां स्थाने ग. घ.ङ. झ. पुस्तकेषु अधोलिखिताः 45 श्लोकाः दृश्यन्ते । एतस्मिन्नेव काले तु द्रुतं गच्छति भास्करे । अब्रवीत्पाण्डवं राजंस्त्वरमाणो जनार्दनः ॥ 1 ॥ एष मध्ये कृतः षड्भिः पार्थ वीरैर्महारथैः । जीवितेप्सुर्महाबाहो भीतस्तिष्ठति सैन्धवः ॥ 2 ॥ एताननिर्जित्य रणे षड्रथान्पुरुषर्षभ । न शक्यः सैन्धवो हन्तुं यतो निर्व्याजमर्जुन ॥ 3 ॥ योगमत्र विधास्यामि सूर्यस्यावरणं प्रति । अस्तं गत इति व्यक्तं द्रक्ष्यत्येकः स सिन्धुराट् ॥ 4 ॥ हर्षेण जीविताकाङ्क्षी विनाशार्थं तव प्रभो । न गोप्स्यति दुराचारः स आत्मानं कथञ्चन ॥ 5 ॥ तत्र च्छिद्रे प्रहर्तव्यं त्वयास्य कुरुसत्तम । व्यपेक्षा नैव कर्तव्या गतोऽस्तमिति भास्करः ॥ 6 ॥ एवमस्त्विति बीभत्सुः केशवं प्रत्यभाषत । ततोऽसृजत्तमः कृष्णः सूर्यस्यावरणं प्रति ॥ 7 ॥ योगी योगेन संयुक्तो योगिनामीश्वरो हरिः ॥ 8 ॥ सृष्टे तमसि कृष्णेन गतोऽस्तमिति भास्करः । त्वदीया जहृषुर्योधाः पार्थनाशान्नराधिप ॥ 9 ॥ ते प्रहृष्टा रणे राजन्नापश्यन्सैनिका रविम् । उन्नाम्य वक्त्राणि तदा स च राजा जयद्रथः ॥ 10 ॥ वीक्षमाणे ततस्तस्मिन्सिन्धुराजे दिवाकरम् । पुनरेवाब्रवीत्कृष्णो धनञ्जयमिदं वचः ॥ 11 ॥ पश्य सिन्धुपतिं वीरं प्रेक्षमाणं दिवाकरम् । भयं हि विप्रमुच्यैतत्त्वत्तो भरतसत्तम ॥ 12 ॥ अयं कालो महाबाहो वधायास्य दुरात्मनः । छिन्धि मूर्धानमस्याशु कुरु साफल्यमात्मनः ॥ 13 ॥ इत्येवं केशवेनोक्तः पाण्डुपुत्रः प्रतापवान् । न्यवधीत्तावकं सैन्यं शरैरर्काग्निसन्निभैः ॥ 14 ॥ कृपं विव्याध विंशत्या कर्णं पञ्चाशता शरैः । शल्यं दुर्योधनं चैव षड्भिः षड्भिरताडयत् ॥ 15 ॥ वृषसेनं तथाष्टाभिः षष्ट्या सैन्धवमेव च । तथैव स महाबाहुस्त्वदीयान्पाण्डुनन्दनः । गाढं विद्ध्वा शरै राजञ्जयद्रथमुपाद्रवत् ॥ 16 ॥ तं समीपस्थितं दृष्ट्वा लेलिहानमिवानलम् । जयद्रथस्य गोप्तारः संशयं परमं गताः ॥ 17 || ततः सर्वे महाराज तव योधा जयैषिणः । सिषिचुः शरधाराभिः पाकशासनिमाहवे ॥ 18 || सञ्छाद्यमानः कौन्तेयः शरजालैरनेकशः । अक्रुध्यत्स महाबाहुरजितः कुरुनन्दनः ॥ 19 ॥ ततः शरमयं जालं तुमुलं पाकशासनिः । व्यसृजत्पुरुषव्याघ्रस्तव सैन्यजिघांसया ॥ 20 ॥ ते हन्यमाना वीरेण योधा राजन्रणे तव । प्रजहुः सैन्धवं भीता द्वौ समं नाप्यधावताम् ॥ 21 ॥ तत्राद्भुतमपश्याम कुन्तीपुत्रस्य विक्रमम् । तादृङ्न भावी भूतो वा यच्चकार महायशाः ॥ 22 ॥ द्विपान्द्विपगतांश्चैव हयान्हयगतानपि । तथा स रथिनश्चैव न्यहन्रुद्रः पशूनिव ॥ 23 ॥ न तत्र समरे कश्चिन्मया दृष्टो नराधिप । गजो वाजी नरो वापि यो न पार्थशराहतः ॥ 24 ॥ रजसा तमसा चैव योधाः सञ्छन्नचक्षुषः । कश्मलं प्राविशन्घोरं नान्वजानन्परस्परम् ॥ 25 ॥ ते शरैर्भिन्नमर्माणः सैनिकाः पार्थचोदितैः । बभ्रमुश्चस्खलुः पेतुः सेदुर्मम्लुश्च भारत ॥ 26 ॥ तस्मिन्न्महाभीषणके प्रजानामिव सङ्क्षये । रणे महति दुष्पारे वर्तमाने सुदारुणे ॥ 27 ॥ शोणितस्य प्रसेकेन शीघ्रत्वादनिलस्य च । अशाम्यत्तद्रजो भौममसृक्सिक्ते धरातले ॥ 28 ॥ आनाभि निरमज्जंश्च रथचक्राणि शोणिते । मत्ता वेगवता राजंस्तावकानां रणाङ्गणे ॥ 29 ॥ हस्तिनश्च हतारोहा दारिताङ्गाः सहस्रशः । स्वान्यनीकानि मृद्नन्त आर्तनादाः प्रदुद्रुवुः ॥ 30 ॥ हयाश्च पतितारोहाः पत्तयश्च नराधिप । प्रदुद्रुवुर्भयाद्राजन्धनञ्जयशराहताः ॥ 31 ॥ मुक्तकेशा विकवचाः क्षरन्तः क्षतजं क्षतैः । प्रापलायन्त सन्त्रस्तास्त्यक्त्वा रणशिरो जनाः ॥ 32 ॥ ऊरुग्राहगृहीताश्च केचित्तत्राभवन्भुवि । हतानां चापरे मध्ये द्विरदानां निलिल्यिरे ॥ 33 ॥ एवं तव बलं राजन्द्रावयित्वा धनञ्जयः । न्यवधीत्सायकैर्घोरैः सिन्धुराजस्य रक्षिणः ॥ 34 ॥ द्रौणिं कृपं कर्णशल्यौ वृषसेनं सुयोधनम् । छादयामास तीव्रेण शरजालेन पाण्डवः ॥ 35 ॥ न गृह्णन्नक्षिपरन्राजन्मुञ्चन्नापि च सन्दधत् । अदृश्यतार्जुनः सङ्ख्ये शीघ्रास्त्रत्वात्कथञ्चन ॥ 36 ॥ धनुर्मण्डलमेवास्य दृश्यते स्मास्यतः सदा । सायकाश्च व्यदृश्यन्त निश्चरन्तः समन्ततः ॥ 37 ॥ कर्णस्य तु धनुश्छित्त्वा वृषसेनस्य चैव ह । शल्यस्य सूतं भल्लेन रथनीडादपातयत् ॥ 38 ॥ गाढविद्धावुभौ कृत्वा शरैः स्वस्रीयमातुलौ । अर्जुनो जयतां श्रेष्ठो द्रौणिशारद्वतौ रणे ॥ 39 ॥ एवं तान्व्याकुलीकृत्य त्वदीयानां महारथान् । उज्जहार शरं घोरं पाण्डवोऽनलसन्निभम् ॥ 40 ॥ इन्द्राशनिसमप्रख्यं दिव्यमस्त्राभिमन्त्रितम् । सर्वभारसहं शश्वद्गन्धमाल्यार्चितं महत् ॥ 41 ॥ वज्रेणास्त्रेण संयोज्य विधिवत्कुरुनन्दनः । समादधन्महाबाहुर्गाण्डीवे क्षिप्रमर्जुनः ॥ 42 ॥ तस्मिन्सन्धीयमाने तु शरे ज्वलनतेजसि । अन्तरिक्षे महानादो भूतानामभवन्नृप ॥ 43 ॥ अब्रवीच्च पुनस्तत्र त्वरमाणो जनार्दनः । धनञ्जय शिरश्छिन्धि सैन्धवस्य दुरात्मनः ॥ 44 ॥ अस्तं महीधरश्रेष्ठं यियासति दिवाकरः । शृणुष्वैतच्च वाक्यं मे जयद्रथवधं प्रति ॥ 45 ॥