श्रीः
अध्यायः 147
अल्पशेषे दिवसे तिरोहिते च जयद्रथे कृष्णेनान्धकारसर्जनेन सूर्यबिम्बपिधानम् ॥ 1 ॥ अदृश्यमाने भानौ जयद्रथे च निःशङ्कमात्मानमाविष्कुर्वति अर्जुनेन कृष्णचोदनया तच्छिरश्छेदः ॥ 2 ॥ कृष्णेनार्जुनम् प्रति जयद्रथशिरः भूतले न निपातनीयमित्युक्ते तेन तम् प्रति तत्कारणकथनप्रार्थना ॥ 3 ॥
सञ्जय उवाच 001
श्रुत्वा निनादं धनुषश्च तस्य विस्पष्टमुत्कृष्टमिवान्तकस्य । 001a
शक्राशनिस्फोटसमं सुघोरं विकृष्यमाणस्य धनञ्जयेन ॥ 001c
त्रासोद्विग्नं तथोद्भ्रान्तं त्वदीयं तद्बलं नृप । 002a
युगान्तवातसङ्क्षुब्धं चलद्वीचितरङ्गितम् । 002c
प्रलीनमीनमकरं सागराम्भ इवाभवत् ॥ 002e
'मध्यन्दिनगतं सूर्यमापतन्तमिवाम्बरे । 003a
न शेकुः सर्वभूतानि पाण्डवं प्रतिवीक्षितुम् ॥' 003c
स रणे व्यचरत्पार्थः प्रेक्ष्यमाणो धनञ्जयः । 004a
युगपद्दिक्षु सर्वासु सर्वाण्यस्त्राणि दर्शयन् ॥ 004c
आददानं महाराज सन्दधानं च पाण्डवम् । 005a
उत्कर्षन्तं सृजन्तं च न स्म पश्याम लाघवात् ॥ 005c
[ततः क्रुद्धो महाबाहुरैन्द्रमस्त्रं दुरासदम् । 006a
प्रादुश्चक्रे महाराज त्रासयन्सर्वभारतान् ॥ 006c
ततः शराः प्रादुरासन्दिव्यास्त्रप्रतिमन्त्रिताः । 007a
प्रदीपाश्च शिखिमुखाः शतशोऽथ सहस्रशः ॥ 007c
आकर्णपूर्णनिर्मुक्तैरग्न्यर्कांशुनिभैः शरैः । 008a
नभोऽभवत्तद्दुष्प्रेक्ष्यमुल्काभिरिव संवृतम् ॥ 008c
ततः शस्त्रान्धकारं तत्कौरवैः समुदीरितम् । 009a
अशक्यं मनसाऽप्यन्यैः पाण्डवः सम्भ्रमन्निव ॥ 009c
नाशयामास विक्रम्य शरैर्दिव्यास्त्रमन्त्रितैः । 010a
नैशं तमोंशुभिः क्षिप्रं दिनादाविव भास्करः ॥ 010c
ततस्तु तावकं सैन्यं दीप्तैः शरगभस्तिभिः । 011a
आक्षिपत्पल्वलाम्बूनि निदाघार्क इव प्रभुः ॥ 011c
ततो दिव्यास्त्रविदुषा प्रहिताः सायकांशवः । 012a
समाप्लवन्द्विषत्सैन्यं लोकं भानोरिवांशवः ॥ 012c
अथापरे समुत्सृष्टा विशिखास्तिग्मतेजसः । 013a
हृदयान्याशु वीराणां विविशुः प्रियबन्धुवत् ॥ 013c
य एनमीयुः समरे त्वद्योधाः शूरमानिनः । 014a
शलभा इव ते दीप्तमग्निं प्राप्य ययुः क्षयम् ॥ 014c
एवं स मृद्नञ्शत्रूणां जीवितानि यशांसि च । 015a
पार्थश्चचार सङ्ग्रामे मृत्युर्विग्रहवानिव ॥ 015c
स किरीटानि वस्त्राणि साङ्गदान्विपुलान्भुजान् । 016a
सकुण्डलयुगान्कर्णान्केषाञ्चिदहरच्छरैः ॥ 016c
सतोमरान्गजस्थानां सप्रासान्हयसादिनाम् । 017a
सचर्मणः पदातीनां रथिनां च सधन्वनः । 017c
सप्रतोदान्नियन्तॄणां बाहूंश्चिच्छेद पाण्डवः ॥ 017e
प्रदीप्तोग्रशरार्चिष्मान्बभौ तत्र धनञ्जयः । 018a
सविस्फुलिङ्गाग्रशिखो ज्वलन्निव हुताशनः ॥ 018c
तं देवराजप्रतिमं सर्वशस्त्रभृतां वरम् । 019a
युगपद्दिक्षु सर्वासु रथस्थं पुरुषर्षभम् ॥ 019c
निक्षिपन्तं महास्त्राणि प्रेक्षणीयं धनञ्जयम् । 020a
नृत्यन्तं रथमार्गेषु धनुर्ज्यातलनादिनम् ॥ 020c
निरीक्षितुं न शेकुस्ते यत्नवन्तोऽपि पार्थिवाः । 021a
मध्यन्दिनगतं सूर्यं प्रतपन्तमिवाम्बरे ॥ 021c
दीप्तोग्रसम्भृतशरः किरीटी विरराज ह । 022a
वर्षास्विवोदीर्णजलः सेन्द्रधन्वाम्बुदो महान् ॥ 022c
महास्त्रसम्प्लवे तस्मिञ्जिष्णुना सम्प्रवर्तिते । 023a
सुदुस्तरे महाघोरे ममज्जुर्योधपुङ्गवाः ॥ 023c
उत्कृत्तवदनैर्देहैः शरीरैः कृत्तबाहुभिः । 024a
भुजैश्च पाणिनिर्मुक्तैः पाणिभिर्व्यङ्गुलीकृतैः ॥ 024c
कृत्ताग्रहस्तैः करिभिः कृत्तदन्तैर्मदोत्कटैः । 025a
हयैश्च विधुरग्रीवै रथैश्च शकलीकृतैः ॥ 025c
निकृत्तान्त्रैः कृत्तपादैस्तथाऽन्यैः कृत्तसन्धिभिः । 026a
निश्चेष्टैर्विस्फुरद्भिश्च शतशोऽथ सहस्रशः ॥ 026c
मृत्योराघातललितं तत्पार्थायोधनं महत् । 027a
अपश्याम महीपाल भीरूणां भयवर्धनम् ॥ 027c
आक्रीडमिव रुद्रस्य पुराभ्यर्दयतः पशून् । 028a
गजानां क्षुरनिर्मुक्तैः करैः सभुजगेव भूः ॥ 028c
क्वजिद्बभौ स्रग्विणीव वक्त्रपद्मैः समाचिता । 029a
विचित्रोष्णीषमुकुटैः केयूराङ्गदकुण्डलैः ॥ 029c
स्वर्णचित्रतनुत्रैश्च भाण्डैश्च गजवाजिनाम् । 030a
किरीटशतसङ्कीर्णा तत्र तत्र समाचिता । 030c
विरराज भृशं चित्रा मही नववधूरिव ॥ 030e
मज्जामेदःकर्दमिनीं शोणितौघतरङ्गिणीम् । 031a
मर्मास्थिभिरगाधां च केशशैवलशाद्वलाम् ॥ 031c
शिरोबाहूपलतटां रुग्णक्रोडास्थिसङ्कटाम् । 032a
चित्रध्वजपताकाढ्यां छत्राचापोर्मिमालिनीम् ॥ 032c
विगतासुमहाकायां गजदेहाभिसङ्कुलाम् । 033a
रथोडुपशताकीर्णां हयसङ्घातरोधसम् ॥ 033c
रथचक्रयुगेषाक्षकूबरैरतिदुर्गमाम् । 034a
प्रासासिशक्तिपरशुविशिखाहिदुरासदाम् ॥ 034c
बलकङ्कमहानक्रां गोमायुमकरोत्कटाम् । 035a
गृध्रोदग्रमहाग्राहां शिवाविरुतभैरवाम् ॥ 035c
नृत्यत्प्रेतपिशाचाद्यैर्भूताकीर्णां सहस्रशः । 036a
गतासुयोधनिश्चेष्टशरीरशतवाहिनीम् ॥ 036c
महाप्रतिभयां रौद्रां घोरां वैतरणीमिव । 037a
नदीं प्रवर्तयामास भीरूणां भयवर्धिनीम् ॥ 037c
तं दृष्ट्वा तस्य विक्रान्तमन्तकस्येव रूपिणः । 038a
अभूतपूर्वं कुरुषु भयमागाद्रणाजिरे ॥ 038c
तत आदाय वीराणामस्त्रैरस्त्राणि पाण्डवः । 039a
आत्मानं रौद्रमाचष्ट रौद्रकर्मण्यधिष्ठितः ॥ 039c
ततो रथवरान्राजन्नत्यतिक्रामदर्जुनः ॥] 040ac
मध्यन्दिनगतं सूर्यं प्रतपन्तमिवाम्बरे । 041a
न शेकुः सर्वभूतानि पाण्डवं प्रतिवीक्षितुम् ॥ 041c
प्रसृतांस्तस्य गाण्डीवाच्छरव्रातान्महात्मनः । 042a
सङ्ग्रामे सम्प्रपश्यामो हंसपङ्क्तिरिवाम्बरे ॥ 042c
विनिवार्य स वीराणामस्त्रैरस्त्राणि सर्वतः । 043a
दर्शयन्रौद्रमात्मानमुग्रे कर्मणि धिष्ठितः ॥ 043c
स तान्रथवरान्राजन्नत्याक्रामत्तदाऽर्जुनः । 044a
मोहयन्निव नाराचैर्जयद्रथवधेप्सया ॥ 044c
विसृजन्दिक्षु सर्वासु शरानच्युतसारथिः । 045a
सरथो व्यचरत्तूर्णं प्रेक्षणीयो धनञ्जयः ॥ 045c
भ्रमन्त इव शूरस्य शरव्राता महात्मनः । 046a
अदृश्यन्तान्तरिक्षस्थाः शतशोऽथ सहस्रशः ॥ 046c
आददानं महेष्वासं सन्दधानं च सायकम् । 047a
विसृजन्तं च कौन्तेयं नानुपश्याम वै तदा ॥ 047c
तथा सर्वा दिशो राजन्सर्वांश्च रथिनो रणे । 048a
आकुलीकृत्य कौन्तेयो जयद्रथमुपाद्रवत् । 048c
विव्याध च चतुःषष्ट्या शराणां नतपर्वणाम् ॥ 048e
[सैन्धवाभिमुखं यान्तं योधाः सम्प्रेक्ष्य पाण्डवम् । 049a
न्यवर्तन्त रणाद्वीरा निराशास्तस्य जीविते ॥ 049c
यो योऽभ्यधावदाक्रन्दे तावकः पाण्डवं रणे । 050a
तस्यतस्यान्तगा बाणाः शरीरे न्यपतन्प्रभो ॥ 050c
कबन्धसङ्कुलं चक्रे तव सैन्यं महारथः । 051a
अर्जुनो जयतां श्रेष्ठः शरैरग्न्यंशुसन्निभैः ॥ 051c
एवं तत्तव राजेन्द्र चतुरङ्गबलं तदा । 052a
व्याकुलीकृत्य कौन्तेयो जयद्रथमुपाद्रवत् ॥ 052c
द्रौणिं पञ्चाशताऽविध्यद्वृषसेनं त्रिभिः शरैः । 053a
कृपायमाणः कौन्तेयः कृपं नवभिरार्दयत् ॥ 053c
शल्यं षोडशभिर्बाणैः कर्णं द्वात्रिंशता शरैः । 054a
सैन्धवं तु चतुःषष्ट्या विद्ध्वा सिंह इवानदत् ॥] 054c
सैन्धवस्तु तथा विद्धः शरैर्गाण्डीवधन्वना । 055a
न चक्षमे सुसङ्क्रुद्धस्तोत्रार्दित इव द्विपः ॥ 055c
स वराहध्वजस्तूर्णं गार्ध्रपत्रानजिह्मगान् । 056a
क्रुद्धाशीविषसङ्काशान्कर्मारपरिमार्जितान् ॥ 056c
आकर्णपूर्णांश्चिक्षेप फल्गुनस्य रथं प्रति । 057a
त्रिभिस्तु विद्ध्वा गोविन्दं नाराचैः षड्भिरर्जुनम् ॥ 057c
अष्टभिर्वाजिनोऽविध्यद्ध्वजं चैकेन पत्रिणा । 058a
'भूयश्चैवार्जुनं सङ्ख्ये शरवर्षैरवाकिरत् ॥' 058c
स विक्षिप्यार्जुनस्तूर्णं सैन्धवप्रहिताञ्शरान् । 059a
युगपत्तस्य चिच्छेद शराभ्यां सैन्धवस्य ह । 059c
सारथेश्च शिरः कायाद्ध्वजं च समलङ्कृतम् ॥ 059e
स च्छिन्नयष्टिः सुमहान्धनञ्जयशराहतः । 060a
वराहः सिन्धुराजस्य पपातेन्दुसमप्रभः ॥ 060c
आदित्यं प्रेक्षमाणस्तु बीभत्सुः सृक्विणी लिहन् । 061a
अपश्यन्नान्तरं तस्य रक्षिभिः संवृतस्य वै ॥ 061c
अभवक्त्रोधरक्ताक्षो व्यात्तानन इवान्तकः । 062a
अथाब्रवीद्वासुदेवः कुन्तीपुत्रं धनञ्जयम् ॥ 062c
नैव शक्यस्त्वया हन्तुं निर्व्याजं भरतर्षभ । 063a
स्रक्ष्याम्यहमुपायं तमादित्यस्यापवारणे । 063c
ततोऽस्तं गतमादित्यं मंस्यते सिन्धुराडिह ॥ 063e
ततोऽस्य विस्मयः पार्थ हर्षश्चैव भविष्यति । 064a
आत्मजीवितलाभाच्च प्रतिज्ञायाश्च नाशनात् ॥ 064c
अस्तङ्गतमिवादित्यं दृष्ट्वा मोहेन बालिशः । 065a
न हि शक्ष्यत्यथाऽऽत्मानं रक्षितुं हर्षसम्भवात् ॥ 065c
एतस्मिन्नेव काले तु प्रहर्तव्यं धनञ्जय । 066a
जयद्रथस्य क्षुद्रस्य सवितुर्दर्शनार्थिनः ॥ 066c
सञ्जय उवाच 067
एवमुक्त्वा ततः पार्थं क्षिप्रमेवाहरत्प्रभाम् । 067a
जनार्दनेन सृष्टं वै तम आदित्यनाशनम् ॥ 067c
पार्थस्य बलमज्ञानात्तमो दृष्ट्वा सुदुःखितम् । 068a
अभवंस्तावका योधा हर्षसङ्कुलचेतसः ॥ 068c
ते प्रहृष्टा रणे राजन्नपश्यन्सैनिका रविम् । 069a
उन्नाम्य वक्त्राणि तदा स च राजा जयद्रथः ॥ 069c
वीक्षमाणे ततस्तस्मिन्सिन्धुराजे दिवाकरम् । 070a
उन्नमय्य शिरोग्रीवां वीक्षते सूर्यमण्डलम् । 070c
तस्य शीघ्रं पृषत्केन कायाच्छीर्षमपाहर ॥ 070e
केशवेनैवमुक्तः सन्नमर्षाद्रक्तलोचनः । 071a
उद्बबर्ह शरं तीक्ष्णममरैरपि दुःसहम् ॥ 071c
एवं तूणीशयं घोरमिन्द्राशनिसमप्रभम् । 072a
वर्मभेदिनमत्यर्थं गन्धमाल्यार्चितं सदा । 072c
विससर्ज ततस्तूर्णं सैन्धवस्य रथं प्रति ॥ 072e
स तु गाण्डीवनिर्मुक्तः शरः श्येन इवाशुगः । 073a
शकुन्तमिव वृक्षाग्रात्सैन्धवस्याहरच्छिरः ॥ 073c
प्रपतिष्यति शीर्षे तु कृष्णोऽर्जुनमथाब्रवीत् । 074a
पार्थ पार्थ शिरो ह्येतद्यथा नेयान्महीतलम् । 074c
तथा कुरु कुरुश्रेष्ठ वक्ष्ये तस्यापि कारणम् ॥ 074e
श्रुत्वा तु वचनं तस्य त्वरमाणोऽस्त्रमायया । 075a
तथाऽहरच्छिरस्तस्य शरैरूर्ध्वं धनञ्जयः । 075c
दुर्हृदामपहर्षाय सुहृदां हर्षणाय च ॥ 075e
तिर्यगूर्ध्वमधश्चैव पुनरूर्ध्वमथापि च । 076a
दीर्घकालमवाक्चैव सम्प्रक्रीडन्निवार्जुनः ॥ 076c
तत्सैन्यं सर्वतोपश्यन्महदाश्चर्यमद्भुतम् । 077a
प्रापयत्स शिरो यस्माद्योधयन्नेव पार्थिवान् ॥ 077c
शरैः कन्दुकवत्कृत्वा तस्यालोकाय पाण्डवः । 078a
स्यमन्तपञ्चकाद्बाह्ये शिरस्तदहरच्छरैः ॥ 078c
जयद्रथस्यार्जुनबाणनालं मुखारविन्दं रुधिराम्बुसिक्तम् । 079a
दृष्टं नरैश्चोपरिवर्तमानं विद्याधरोत्सृष्टमिवैकपद्मम् ॥ 079c
स देवशत्रूनिव देवराजः किरीटमाली व्यधमत्सपत्नान् । 080a
यथा तमांस्यभ्युदितस्तमोघ्नः पूर्णां प्रतिज्ञां स समाप्य वीरः ॥ 080c
अथाब्रवीत्केशवं पाण्डवेयः कियन्तमध्वानमिदं हरामि । 081a
किमर्थमेतन्न निपात्यमुर्व्यां क्व च प्रयातव्यमिदं च शंस । 081c
शक्नोम्यहं यत्र भवान्ब्रवीति तं भूमिदेशं च शिरो विनेतुम् ॥ ॥ 081e
इति श्रीमन्महाभारते द्रोणपर्वणि जयद्रथवधपर्वणि चतुर्दशदिवसयुद्धे सप्तचत्वारिंशदधिकशततमोऽध्यायः ॥ 147 ॥
5-147-6 कुण्डलितः पाठो झ. पुस्तक एवास्ति ॥ 5-147-49 कुण्डलितः पाठः झ. पुस्तक एव विद्यते ॥ 5-147-67 उक्त्वा सृष्टं तमः कर्तृ प्रभामहरदित्यन्वयः ॥ 5-147-68 बलं सैन्यं कर्तृ ॥ 5-147-* अथाब्रवीदित्यादीनां वीक्षते सूर्यमण्डलम् इत्यन्तानां श्लोकानां स्थाने अधोलिखिताः श्लोकाः ङ. पुस्तके वर्तन्ते । अनस्तमित आदित्ये एतान्निर्जित्य सैन्धवः । न शक्यो हन्तुमित्येवं मन्यमानो जनार्दनः ॥ 1 ॥ सस्मार चक्रं दैत्यारिर्हरिश्चक्रं सुदर्शनम् । तदादिदेश भगवान्स्मृतमात्रमुपस्थितम् ॥ 2 ॥ अस्तङ्गतमिवादित्यं तमसा च्छादयेति च । तत्तथोक्तं भगवता तमो भूत्वा विशाम्पते ॥ 3 ॥ अन्धं तम इवाज्ञानामादित्यस्याहरत्प्रभाम् । उन्नमय्य शिरोग्रीवामपश्यत्सैन्धवो रविम् ॥ 4 ॥ अथार्जुनं हृषीकेशः शोकपूर्णमथाब्रवीत् । पश्य कौन्तेय सिन्धूनामधिपं पापकारिणम् ॥ 5 ॥ एष तिष्ठति मध्ये वै स्यन्दनस्य धनञ्जय । सप्तचत्वारिंशदधिकशततमोऽध्यायः ॥