श्रीः
अध्यायः 146
अर्जुनेन कर्णम् प्रति तत्कृतभीमगर्हणातितिक्षया तद्गर्हणपूर्वकं तत्सुतवधप्रतिज्ञा ॥ 1 ॥ कर्णदुर्योधनसंवादः सङ्कुलयुद्धं च ॥ 2 ॥
धृतराष्ट्र उवाच 001
तथा गतेषु शूरेषु तेषां मम च सञ्जय । 001a
किंस्विद्भीमार्जुनौ चैव सात्यकिश्चाकरोत्तदा ॥ 001c
सञ्जय उवाच 002
विरथो भीमसेनो वै कर्णवाक्शल्यपीडितः । 002a
अमर्षवशमापन्नः फल्गुनं वाक्यमब्रवीत् ॥ 002c
पुनःपुनस्तूबरक मूढ औदरिकेति च । 003a
अकृतास्त्रक मा योत्सीर्बाल सङ्ग्रामकातर ॥ 003c
इति मामब्रवीत्कर्णः पश्यतस्ते धनञ्जय । 004a
एवं वक्ता च मे वध्यस्तेन चोक्तस्तथा ह्यहम् ॥ 004c
एतद्व्रतं महाबाहो त्वया सह कृतं मया । 005a
तथैतन्मम कौन्तेय यथा तव न संशयः ॥ 005c
तद्वधाय नरश्रेष्ठ स्मरैतद्वचनं मम । 006a
यथा भवति तत्सत्यं तथा कुरु धनञ्जय ॥ 006c
तच्छ्रुत्वा वचनं तस्य भीमस्यामितविक्रमः । 007a
ततोऽर्जुनोऽब्रवीत्कर्णं किञ्चिदभ्येत्य संयुगे ॥ 007c
कर्णकर्ण वृथादृष्टे सूतपुत्रात्मसंस्तुत । 008a
अधर्मबुद्धे शृणु मे यत्त्वां वक्ष्यामि साम्प्रतम् ॥ 008c
द्वावेव कर्ण शूराणां रणे दृष्टौ जयाजयौ । 009a
तौ चाप्यनित्यौ राधेय वासवस्यापि युध्यतः ॥ 009c
'रणमुत्सृज्य निर्लज्ज गच्छसे च पुनः पुनः । 010a
माहात्म्यं पश्य भीमस्य कर्म जन्म कुले तथा । 010c
नोक्तवान्परुषं यत्त्वां पलायनपरायणम् ॥ 010e
भूयस्त्वमपि सङ्गम्यं सकृदेव यदृच्छया । 011a
विरथं कृतवान्वीरं पाण्डवं सूतदायद ॥ 011c
कुलस्य सदृशं चापि राधेय कृतवानसि । 012a
नैकान्तसिद्धिः सङ्ग्रामे वासवस्यापि विद्यते ॥' 012c
मुमूर्षुर्युयुधानेन विरथो विकलेन्द्रियः । 013a
मद्वध्यस्त्वमिति ज्ञात्वा जित्वा जीवन्विसर्जितः ॥ 013c
यदृच्छया रणे भीमं युध्यमानं महाबलम् । 014a
कथञ्चिद्विरथं कृत्वा यत्त्वं रूक्षमभाषथाः । 014c
अधर्मस्त्वेष सुमहाननार्यचरितं च तत् ॥ 014e
नारिं जित्वाऽतिकत्थन्ते न च जल्पन्ति दुर्वचः । 015a
न च कञ्चन निन्दन्ति सन्तः शूरा नरर्षभाः ॥ 015c
त्वं तु प्राकृतविज्ञानस्तत्तद्वदसि सूतज । 016a
बह्वबद्धमकर्ण्यं च चापलादपरीक्षितम् ॥ 016c
युध्यमानं पराक्रान्तं शूरमार्यव्रते रतम् । 017a
यदवोचोऽप्रियं भीमं नैतत्सत्यं वचस्तव । 017c
पश्यतां सर्वसैन्यानां केशवस्य ममैव च ॥ 017e
विरथो भीमसेनेन कृतोऽसि बहुशो रणे । 018a
न च त्वां परुषं किञ्चिदुक्तवान्पाण्डुनन्दनः ॥ 018c
यस्मात्तु बहु रूक्षं च श्रावितस्ते वृकोदरः । 019a
परोक्षं यच्च सौभद्रो युष्माभिर्बहुभिर्हतः । 019c
तस्मादस्यावलेपस्य सद्यः फलमवाप्नुहि ॥ 019e
त्वया तस्य धनुश्छिन्नमात्मनाशाय दुर्मते । 020a
तस्माद्वध्योऽसि मे मूढ सभृत्यसुतबान्धवः ॥ 020c
कुरु त्वं सर्वकृत्यानि महत्ते भयमागतम् । 021a
हन्ताऽस्मि वृषसेनं ते प्रेक्षमाणस्य संयुगे ॥ 021c
ये चान्येऽप्युपयास्यन्ति बुद्धिमोहेन मां नृपाः । 022a
तांश्च सर्वान्हनिष्यामि सत्येनायुधमालभे ॥ 022c
त्वां च मूढाकृतप्रज्ञमतिमानिनमाहवे । 023a
दृष्ट्वा दुर्योधनो मन्दो भृशं तप्स्यति पातितम् ॥ 023c
सञ्जय उवाच 024
अर्जुनेन प्रतिज्ञाते वधे कर्णसुतस्य तु । 024a
महान्सुतुमुलः शब्दो बभूव रथिनां तदा ॥ 024c
तस्मिन्नाकुलसङ्ग्रामे वर्तमाने महाभये । 025a
मन्दरश्मिः सहस्रांशुरस्तङ्गिरिमुपाद्रवत् ॥ 025c
ततो दुर्योधनो राजा राधेयं त्वरितोऽब्रवीत् । 026a
अर्जुनं प्रेक्ष्य संयातं जयद्रथवधं प्रति ॥ 026c
'अमानुषाणि कर्माणि कुर्वन्तौ भरतर्षभ । 027a
सात्यकिं भीमसेनं च यत्तौ तौ दर्शयन्निव ॥ 027c
अयं स वैकर्तन युद्धकालो विदर्शयस्वात्मबलं महात्मन् । 028a
यथा न वध्येत रणेऽर्जुनेन जयद्रथः कर्ण तथा कुरुष्व ॥ 028c
अल्पावशेषो दिवसो हि साम्प्रतं निवारयेहाद्य रिपुं शरौघैः । 029a
दिनक्षयं प्राप्य नरप्रवीर ध्रुवो हि नः कर्ण जयो भविष्यति ॥ 029c
सैन्धवे रक्ष्यमाणे तु सूर्यस्यास्तमनं प्रति । 030a
मिथ्याप्रतिज्ञः कौन्तेयः प्रवेक्ष्यति हुताशनम् ॥ 030c
अनर्जुनायां च भुवि मुहूर्तमपि मानद । 031a
जीवितुं नोत्सहेरन्वै भ्रातरोऽस्य सहानुगाः ॥ 031c
पाण्डवेषु विनष्टेषु सशैलवनकाननाम् । 032a
वसुन्धरामिमां कर्ण भोक्ष्यामो हतकण्टकाम् ॥ 032c
दैवेनोपहतः पार्थो विपरीतश्च मानद । 033a
कार्याकार्यमजानानः प्रतिज्ञां कृतवान्रणे ॥ 033c
नूनमात्मविनाशाय पाण्डवेन किरीटिना । 034a
मिथ्याप्रतिज्ञैव कृता जयद्रथवधं प्रति ॥ 034c
कथं जीवति दुर्धर्षे त्वयि राधेय फल्गुनः । 035a
अनस्तङ्गत आदित्ये हन्यात्सैन्धवकं नृपम् ॥ 035c
रक्षितं मद्रराजेन कृपेण च महात्मना । 036a
जयद्रथं रणमुखे कथं हन्याद्धनञ्जयः ॥ 036c
द्रौणिना रक्ष्यमाणं च मया दुःशासनेन च । 037a
कथं प्राप्स्यति बीभत्सुः सैन्धवं कालचोदितः ॥ 037c
युध्यन्ते बहवः शूरा लम्बते च दिवाकरः । 038a
शङ्के जयद्रथं पार्थो नैव प्राप्स्यति मानद ॥ 038c
स त्वं कर्ण मया सार्धं शूरैश्चान्यैर्महारथैः । 039a
द्रौणिना त्वं हि सहितो मद्रेशेन कृपेण च । 039c
युध्यस्व यत्नमास्थाय परं पार्थेन संयुगे ॥ 039e
एवमुक्तस्तु राधेयस्तव पुत्रेण मारिष । 040a
दुर्योधनमिदं वाक्यं प्रत्युवाच कुरूत्तमम् ॥ 040c
दृढलक्ष्येण वीरेण भीमसेनेन धन्विना । 041a
भृशं भिन्नतनुः सङ्ख्ये शरजालैरनेकशः ॥ 041c
स्थातव्यमिति तिष्ठामि रणे सम्प्रति मानद । 042a
नाङ्गमिङ्गति किञ्चिन्मे सन्तप्तस्य महेषुभिः । 042c
योत्स्यामि तु यथाशक्त्या त्वदर्थं जीवितं मम ॥ 042e
'तत्तथा प्रयतिष्येऽहं परं शक्त्या सुयोधन ।' 043a
यथा पाण्डवमुख्योऽसौ न हनिष्यति सैन्धवम् ॥ 043c
न हि मे युध्यमानस्य सायकानस्यतः शितान् । 044a
सैन्धवं प्राप्स्यते वीरः सव्यसाची धनञ्जयः ॥ 044c
यत्तु भक्तिमता कार्यं सततं हितकाङ्क्षिणा । 045a
तत्करिष्यामि कौरव्य जयो दैवे प्रतिष्ठितः ॥ 045c
सैन्धवार्थे परं यत्नं करिष्याम्यद्य संयुगे । 046a
त्वत्प्रियार्थं महाराज जयो दैवे प्रतिष्ठितः ॥ 046c
अद्य योत्स्येऽर्जुनमहं पौरुषं स्वं व्यपाश्रितः । 047a
त्वदर्थे पुरुषव्याघ्र जयो दैवे प्रतिष्ठितः ॥ 047c
अद्य युद्धं कुरुश्रेष्ठ मम पार्थस्य चोभयोः । 048a
पश्यन्तु सर्वसैन्यानि दारुणं रोमहर्षणम् ॥ 048c
सञ्जय उवाच 049
कर्णकौरवयोरेवं रणे सम्भाषमाणयोः । 049a
अर्जुनो निशितैर्बाणैर्जघान तव वाहिनीम् ॥ 049c
चिच्छेद निशितैर्बाणैः शूराणामनिवर्तिनाम् ॥ 050ac
भुजान्परिघसङ्काशान्हस्तिहस्तोपमान्रणे । 051a
शिरांसि च महाबाहुश्चिच्छेद निशितैः शरैः ॥ 051c
हस्तिहस्तान्द्विपस्कन्धान्रथाक्षांश्च समन्ततः । 052a
शोणिताक्तान्हयारोहान्गृहीतप्रासतोमरान् ॥ 052c
क्षुरैश्चिच्छेद बीभत्सुर्द्विधैकैकं त्रिधैव च । 053a
हयान्वारणमुख्यांश्च पदातींश्च समन्ततः । 053c
ध्वजांश्छत्राणि चापानि चामराणि शिरांसि च ॥ 053e
कक्षमग्निरिवोद्धूतः प्रादहत्तव वाहिनीम् । 054a
अचिरेण महीं पार्थश्चकार रुधिरोत्तराम् ॥ 054c
हतभूयिष्ठयोधं तत्कृत्वा तव बलं बली । 055a
आससाद दुराधर्षः सैन्धवं सत्यविक्रमः ॥ 055c
बीभत्सुर्भीमसेनेन सात्वतेन च रक्षितः । 056a
प्रबभौ भरतश्रेष्ठ ज्वलन्निव हुताशनः ॥ 056c
तं तथाऽवस्थितं दृष्ट्वा त्वदीया वीरसम्मताः । 057a
नामृष्यन्त महेष्वासाः पाण्डवं पुरुषर्षभाः ॥ 057c
दुर्योधनश्च कर्णश्च वृषसेनोऽथ मद्रराट् । 058a
अश्वत्थामा कृपश्चैव स्वयमेव च सैन्धवः ॥ 058c
सन्नद्धाः सैन्धवस्यार्थे समावृण्वन्किरीटिनम् । 059a
नृत्यन्तं रथमार्गेषु धनुर्ज्यातलनिःस्वनैः ॥ 059c
सङ्ग्रामकोविदं पार्थं सर्वे युद्धविशारदाः । 060a
अभीताः पर्यवर्तन्त व्यादितास्यमिवान्तकम् ॥ 060c
सैन्धवं पृष्ठतः कृत्वा जिघांसन्तोऽच्युतार्जुनौ । 061a
सूर्यास्तमनमिच्छन्तो लोहितायति भास्करे ॥ 061c
ते भुजैर्भोगिभोगाभैर्धनूंष्यानम्य सायकान् । 062a
मुमुचुः सूर्यरश्म्याभाञ्छतशः फल्गुनं प्रति ॥ 062c
ततस्तानस्यमानांश्च किरीटी युद्धदुर्मदः । 063a
द्विधा त्रिधाऽष्टधैकैकं छित्त्वा विव्याध तान्रथान् ॥ 063c
सिंहलाङ्गूलकेतुस्तु दर्शयन्वीर्यमात्मनः । 064a
शारद्वतीसुतो राजन्नर्जुनं प्रत्यवारयन् ॥ 064c
स विद्ध्वा दशभिः पार्थं वासुदेवं च सप्तभिः । 065a
अतिष्ठद्रथमार्गेषु सैन्धवं प्रतिपालयन् ॥ 065c
अथैनं कौरवश्रेष्ठाः सर्व एव महारथाः । 066a
महता रथवंशेन सर्वतः प्रत्यवारयन् ॥ 066c
विष्फारयन्तश्चापानि विसृजन्तश्च सायकान् । 067a
सैन्धवं पर्यरक्षन्त शासनात्तनयस्य ते ॥ 067c
ततः पार्थस्य शूरस्य बाह्वोर्बलमदृश्यत । 068a
इषूणामक्षयत्वं च धनुषो गाण्डिवस्य च ॥ 068c
अस्त्रैरस्त्राणि संवार्य द्रौणेः शारद्वतस्य च । 069a
एकैकं दशभिर्बाणैः सर्वानेव समार्पयत् ॥ 069c
तं द्रौणिः पञ्चविंशत्या वृषसेनश्च सप्तभिः । 070a
दुर्योधनश्च विंशत्या कर्णशल्यौ त्रिभिस्त्रिभिः ॥ 070c
त एनमभिगर्जन्तो विध्यन्तश्च पुनःपुनः । 071a
विधुन्वन्तश्च चापानि सर्वतः प्रत्यवारयन् ॥ 071c
श्लिष्टं च सर्वतश्चक्रू रथमण्डलमाशु ते । 072a
सूर्यास्तमनमिच्छन्तस्त्वरमाणा महारथाः ॥ 072c
त एनमभिनर्दन्तो विधुन्वाना धनूंषि च । 073a
सिषिचुर्मार्गणैस्तीक्ष्णैर्गिरिं मेघा इवाम्बुभिः ॥ 073c
ते महास्त्राणि दिव्यानि तत्र राजन्व्यदर्शयन् । 074a
धनञ्जयस्य गात्रे तु शूराः परिघबाहवः ॥ 074c
'निवार्य ताञ्शरव्रातैर्दिव्यान्यस्त्राणि दर्शयन् ।' 075a
हतभूयिष्ठयोधं तत्कृत्वा तव बलं बली । 075c
आससाद दुराधर्षः सैन्धवं सत्यविक्रमः ॥ 075e
तं कर्णः संयुगे राजन्प्रत्यवारयदाशुगैः । 076a
मिषतो भीमसेनस्य सात्वतस्य च भारत ॥ 076c
तं पार्थो दशभिर्बाणैः प्रत्यविध्यद्रणाजिरे । 077a
सूतपूत्रं महाबाहुः सर्वसैन्यस्य पश्यतः ॥ 077c
सात्वतश्च त्रिभिर्बाणैः कर्णं विव्याध मारिष । 078a
भीमसेनस्त्रिभिश्चैव पुनः पार्थश्च सप्तभिः ॥ 078c
तान्कर्णः प्रतिविव्याध षष्ट्याषष्ट्या महारथः । 079a
तद्युद्धमभवद्राजन्कर्णस्य बहुभिः सह ॥ 079c
तत्राद्भुतमपश्याम सूतपुत्रस्य मारिष । 080a
यदेकः समरे क्रुद्धस्त्रीन्रथान्पर्यवारयत् ॥ 080c
फल्गुनस्तु महाबाहुः कर्णं वैकर्तनं रणे । 081a
सायकानां शतेनैव सर्वमर्मस्वताडयत् ॥ 081c
रुधिरोक्षितसर्वाङ्गः सूतपुत्रः प्रतापवान् । 082a
शरैः पञ्चाशता वीरः फल्गुनं प्रत्यविध्यत ॥ 082c
तस्य तल्लाघवं दृष्ट्वा नामृष्यत रणेऽर्जुनः । 083a
तस्य पार्थो धनुश्छित्त्वा विव्याधैनं स्तनान्तरे । 083c
सायकैर्नवभिर्वीरस्त्वरमाणो धनञ्जयः ॥ 083e
अथान्यद्धनुरादाय सूतपुत्रः प्रतापवान् । 084a
सायकैरष्टसाहस्रैश्छादयामास पाण्डवम् ॥ 084c
तां बाणवृष्टिमतुलां कर्णचापसमुत्थिताम् । 085a
व्यधमत्सायकैः पार्थः शलभानिव मारुतः ॥ 085c
छादयामास च तदा सायकैरर्जुनो रणे । 086a
पश्यतां सर्वयोधानां दर्शयन्पाणिलाघवम् ॥ 086c
वधार्थं चास्य समरे सायकं सूर्यवर्चसम् । 087a
चिक्षेप त्वरया युक्तस्त्वराकाले धनञ्जयः ॥ 087c
तमापतन्तं वेगेन द्रौणिश्चिच्छेद सायकम् । 088a
अर्धचन्द्रेण तीक्ष्णेन स च्छिन्नः प्रापतद्भुवि ॥ 088c
कर्णोऽपि द्विषतां हन्ता छादयामास फल्गुनम् । 089a
सायकैर्बहुसाहस्रैः कृतप्रतिकृतेप्सया ॥ 089c
तौ वृषाविव नर्दन्तौ नरसिंहौ महारथौ । 090a
सायकैस्तु प्रतिच्छन्नं चक्रतुः खमजिह्मगैः ॥ 090c
अदृश्यौ च शरौथैस्तौ निघ्नन्तावितरेतरम् । 091a
कर्ण पार्थोऽस्मि तिष्ठ त्वं कर्णोऽहं तिष्ठ फल्गुन ॥ 091c
इत्येवं तर्जयन्तौ तौ वाक्शल्यैस्तु परस्परम् । 092a
विध्येतां समरे वीरौ चित्रं लघु च सुष्ठु च ॥ 092c
प्रेक्षणीयौ चाभवतां सर्वयोधसमागमे । 093a
प्रशस्यमानौ समरे सिद्धचारणपन्नगैः ॥ 093c
अयुध्येतां महाराज परस्परवधैषिणौ । 094a
ततो दुर्योधनो राजंस्तावकानभ्यभाषत ॥ 094c
यत्नाद्रक्षत राधेयं नाहत्वा समरेऽर्जुनम् । 095a
निवर्तिष्यति राधेयो न वाऽजित्वाऽद्य फल्गुनम् ॥ 095c
एतस्मिन्नन्तरे राजन्दृष्ट्वा कर्णस्य विक्रमम् । 096a
आकर्णमुक्तैरिषुभिः कर्णस्य चतुरो हयान् । 096c
अनयत्प्रेतलोकाय चतुर्भिः श्वेतवाहनः ॥ 096e
सारथिं चास्य भल्लेन रथनीडादपातयत् । 097a
छादयामास स शरैस्तव पुत्रस्य पश्यतः ॥ 097c
सञ्छाद्यमानः समरे हताश्वो हतसारथिः । 098a
मोहितः शरजालेन कर्तव्यं नाभ्यपद्यत ॥ 098c
तं तथा विरथं दृष्ट्वा रथमारोप्य तं तदा । 099a
अश्वत्थामा महाराज भूयोऽर्जुनमयोधयत् ॥ 099c
मद्रराजश्च कौन्तेयमविध्यत्त्रिंशता शरैः । 100a
'आवव्रेऽर्जुनमार्गं च शरजालेन भारत ॥' 100c
शारद्वतस्तु विंशत्यं वासुदेवं समार्पयत् । 101a
धनञ्जयं द्वादशभिराजघान शिलीमुखैः ॥ 101c
चतुर्भिः सिन्धुराजश्च वृषसेनश्च सप्तभिः । 102a
पृथक्पृथङ्महाराज विव्यधुः कृष्णपाण्डवौ ॥ 102c
तथैव तान्प्रत्यविध्यत्कुन्तीपुत्रो धनञ्जयः । 103a
द्रोणपुत्रं चतुःषष्ट्या मद्रराजं शतेन च ॥ 103c
सैन्धवं दशभिर्बाणैर्वृषसेनं त्रिभिः शरैः । 104a
शारद्वतं च विंशत्या विद्ध्वा पार्थो ननाद ह ॥ 104c
ते प्रतिज्ञाप्रतीघातमिच्छन्तः सव्यसाचिनः । 105a
सहितास्तावकास्तूर्णमभिपेतुर्धनञ्जयम् ॥ 105c
अथार्जुनः सर्वतो वारुणास्त्रं प्रादुश्चक्रे त्रासयन्धार्तराष्ट्रान् । 106a
तं प्रत्युदीयुः कुरवः पाण्डुपुत्रं रथैर्महार्हैः शरवर्षं सृजन्तः ॥ 106c
ततस्तु तस्मिंस्तुमले समुत्थिते सुदारुणे भारतमोहनीये । 107a
नो मुह्यत प्राप्य स राजपुत्रः किरीटमाली व्यसृजच्छरौघान् ॥ 107c
वधप्रेप्सुः सव्यसाची कुरूणां स्मरन्क्लेशान्द्वादशवर्षवृत्तान् । 108a
गाण्डीवमुक्तैरिषुभिर्महात्मा सर्वा दिशो व्यावृणोदप्रमेयः ॥ 108c
प्रदीप्तोल्कमभवच्चान्तरिक्षं मृतेषु देहेष्वपतन्वयांसि । 109a
यत्पिङ्गलज्येन किरीटमाली क्रुद्धो रिपूनाजगवेन हन्ति ॥ 109c
ततः किरीटि महता महायशाः शरासनेनास्य शराननीकजित् । 110a
हयप्रवेकोत्तमनागघूर्णितान्कुरुप्रवीरानिषुभिर्व्यपातयत् ॥ 110c
गदाश्च गुर्वीः परिघानयस्मयानसींश्च शक्तीश्च रणे नराधिपाः । 111a
महान्ति शस्त्राणि च भीमदर्शनाः प्रगृह्य पार्थं सहसाऽभिदुद्रुवुः ॥ 111c
ततो युगान्ताभ्रसमस्वनं महन्महेन्द्रचापप्रतिमं च गाण्डिवम् । 112a
चकर्ष दोर्भ्यां विहसन्भृशं ययौ दहंस्त्वहीयान्यमराष्ट्रवर्धनः ॥ 112c
स तानुदीर्णान्सरथान्सवारणान्पदातिसङ्घांश्च महाधनुर्धरः । 113a
विपन्नसर्वायुधजीवितान्रणे चकार वीरो यमराष्ट्रवर्धनान् ॥ ॥ 113c
इति श्रीमन्महाभारते द्रोणपर्वणि जयद्रथवधपर्वणि चतुर्दशदिवसयुद्धे षट्चत्वारिंशदधिकशततमोऽध्यायः ॥ 146 ॥
5-146-33 उपहतो मोहितः । विपरीतोऽन्यथाभूतप्रकृतिः ॥ 5-146-41 दृढलक्ष्येण दृढप्रहारेण ॥ 5-146-45 प्रतिष्ठितः अधीनः ॥ 5-146-106 सर्वतोदारमस्त्रम् इति । क. ख. ट. पाठः । सर्वतः सारमस्त्रम् इति ड. पाठः ॥ 5-146-107 प्राप्य युद्धमिति शेषः ॥ 5-146-110 आस्य समन्ततः क्षिप्त्वा ॥ षट्चत्वारिंशदधिकचततमोऽध्यायः ॥