श्रीः
अध्यायः 145
कृष्णार्जुनयोः संवादः कर्णसात्यक्योर्युद्धं च ॥ 1 ॥
धृतराष्ट्र उवाच 001
तदवस्थे हते तस्मिन्भूरिश्रवसि कौरवे । 001a
यथा भूयोऽभवद्युद्धं तन्ममाचक्ष्व सञ्जय ॥ 001c
सञ्जय उवाच 002
भूरिश्रवसि सङ्क्रान्ते परलोकाय भारत । 002a
वासुदेवं महाबाहुरर्जुनः समचूचुदत् ॥ 002c
अर्जुन उवाच 003
चोदयाश्वान्भृशं कृष्ण यतो राजा जयद्रथः । 003a
[श्रूयते पुण्डरीकाक्ष त्रिषु धर्मेषु वर्तते ।] 003c
प्रतिज्ञां सफलां चापि कर्तुमर्हसि मेऽनघ ॥ 003e
अस्तमेति महाबाहो त्वरमाणो दिवाकरः ॥ 004ac
एतद्धि पुरुषव्याघ्र महदभ्युद्यतं मया । 005a
कार्यं संरक्ष्यते चैष कुरुसेनामहारथैः ॥ 005c
यथा नाभ्येति सूर्योऽस्तं यथा सत्यं भवेद्वचः । 006a
चोदयाश्वांस्तथा कृष्ण यथा हन्यां जयद्रथम् ॥ 006c
'ततः कृष्णो महाबाहुरश्वान्रजतसन्निभान् । 007a
हयज्ञश्चोदयामास जयद्रथवधं प्रति ॥ 007c
तं प्रयान्तममोघेषुमुत्पतद्भिरिवाशुगैः । 008a
त्वरमाणा महाराज सेनामुख्याः समाद्रवन् ॥ 008c
दुर्योधनश्च कर्णश्च वृषसेनोऽथ मद्रराट् । 009a
अश्वत्थामा कृपश्चैव स्वयमेव च सैन्धवः ॥ 009c
समासाद्य च बीभत्सुः सैन्धवं समुपस्थितम् । 010a
नेत्राभ्यां क्रोधदीप्ताभ्यां सम्प्रैक्षन्निर्दहन्निव ॥' 010c
यथाग्निरिन्धनेद्धो वै क्रोधेन्धनसमीरितः । 011a
सैन्धवस्य मुखं त्यक्त्वा कर्णः सात्वतमभ्ययात् ॥ 011c
*उपायान्तं तु राधेयं दृष्ट्वा पार्थो महारथः । 012a
प्रहसन्देवकीपुत्रमिदं वचनमब्रवीत् ॥ 012c
एष प्रयात्याधिरथिः सात्यकेः स्यन्दनं प्रति । 013a
न मृष्यति हतं नूनं भूरिश्रवसमाहवे ॥ 013c
यत्र यात्येष तत्र त्वं चोदयाश्वाञ्जनार्दन । 014a
न सौमदत्तिपदवीं गमयेत्सात्यकिं वृषः ॥ 014c
सञ्जय उवाच 015
एवमुक्तो महाबाहुः केशवः सव्यसाचिना । 015a
प्रत्युवाच महातेजाः कालयुक्तमिदं वचः ॥ 015c
अलमेष महाबाहुः कर्णायैकोऽपि पाण्डव । 016a
किं पुनर्द्रौपदेयाभ्यां सहितः सात्वतर्षभः ॥ 016c
न च तावत्क्षमः पार्थ तव कर्णेन सङ्गरः । 017a
प्रज्वलन्ती महोल्केव तिष्ठत्यस्मिन्हि वासवी । 017c
त्वदर्थं पूज्यमानैषा रक्ष्यते परवीरहन् ॥ 017e
'न कर्णं प्राकृतं मन्ये तेन योद्धुं न साम्प्रतम् । 018a
यः कर्णो बलवानेष शक्तोऽस्माञ्जेतुमोजसा ॥ 018c
कर्णस्यैष महान्दोषो यद्दूयेत पदेपदे । 019a
प्रमादाच्च घृणित्वाच्च तेन शोचिति मे मनः ॥' 019c
अतः कर्णः प्रयात्वत्र सात्वतस्य यथा तथा । 020a
अहं ज्ञास्यामि कौन्तेय कालमस्य दुरात्मनः ॥ 020c
यत्रैनं विशिखैस्तीक्ष्णैः पातयिष्यसि भूतले । 021a
तदा गन्तासि पार्थ त्वं तेन योद्धुं दुरात्मना ॥ 021c
धृतराष्ट्र उवाच 022
योऽसौ कर्णेन वीरस्य वार्ष्णेयस्य समागमः । 022a
हते तु भूरिश्रवसि तद्युद्धमभवत्कथम् ॥ 022c
सात्यकिश्चापि विरथः कं समारूढवान्रथम् । 023a
चक्ररक्षौ च पाञ्चाल्यौ तन्ममाचक्ष्व सञ्जय ॥ 023c
सञ्जय उवाच 024
हन्त ते कथयिष्यामि यथावृत्तं महारणे । 024a
पश्यतां सर्वसैन्यानां केशवार्जुनयोरपि । 024c
शुश्रूषस्व स्थिरो भूत्वा दुराचरितमात्मनः ॥ 024e
पूर्वमेव हि कृष्णस्य मनोगतमिदं प्रभो । 025a
विजेतव्यो यथा वीरः सात्यकिः सौमदत्तिना ॥ 025c
अतीतानागते राजन्स हि वेत्ति जनार्दनः । 026a
ततः सूतं समाहूय दारुकं सन्दिदेश ह । 026c
रथो मे युज्यतां कल्यमिति राजन्महाबालः ॥ 026e
न हि देवा न गन्धर्वा न यक्षोरगराक्षसाः । 027a
मानवा वाऽपि जेतारः कृष्णयोः सन्ति केचन || 027c
पितामहपुरोगाश्च देवाः सिद्धाश्च तं विदुः । 028a
तयोः प्रभावमतुलं शृणु युद्धं तु तत्तथा ॥ 028c
सात्यकिं विरथं दृष्ट्वा कर्णं चाभ्युद्यतं रणे । 029a
दध्मौ शङ्खं महानादमार्षभेणाथ माधवः ॥ 029c
दारुकोऽवेत्य सन्देशं श्रुत्वा शङ्खस्य च स्वनम् । 030a
रथमन्वानयत्तस्मै सुपर्णोच्छ्रितकेतनम् ॥ 030c
स केशवस्यानुमते रथं दारुकसंयुतम् । 031a
आरुरोह शिनेः पौत्रो ज्वलनादित्यसन्निभम् ॥ 031c
कामगैः शैब्यसुग्रीवमेघपुष्पबलाहकैः । 032a
हयोदग्रैर्महावेगैर्हेमभाण्डविभूषितैः ॥ 032c
युक्तं समारुह्य च तं विमानप्रतिमं रथम् । 033a
अभ्यद्रवत राधेयं प्रवपन्सायकान्बहून् ॥ 033c
चक्ररक्षावपि तदा युधामन्यूत्तमौजसौ । 034a
धनञ्जयरथं हित्वा राधेयं प्रत्युदीयतुः ॥ 034c
राधेयोऽपि महाराज शरवर्षं समुत्सृजन् । 035a
अभ्यद्रवत्सुसङ्क्रुद्धो रणे शैनेयमच्युतम् ॥ 035c
नैव दैवं न गान्धर्वं नासुरं न च राक्षसम् । 036a
तादृशं भुवि नो युद्धं दिवि वा श्रुतमित्युत । 036c
उपारमत तत्सैन्यं सरथाश्वनरद्विपम् ॥ 036e
तयोर्दृष्ट्वा महाराज कर्म सम्मूढचेतसः । 037a
सर्वे च समपश्यन्त तद्युद्धमतिमानुषम् ॥ 037c
तयोर्नृवरयो राजन्सारथ्यं दारुकस्य च ॥ 038ac
गतप्रत्यागतावृत्तैर्मण्डलैः सन्निवर्तनैः । 039a
सारथेस्तु रथस्थस्य काश्यपेयस्य विस्मिताः ॥ 039c
नभस्तलगताश्चैव देवगन्धर्वदानवाः । 040a
अतीवावहिता द्रष्टुं कर्णशैनेययो रणम् ॥ 040c
मित्रार्थे तौ पराक्रान्तौ शुष्मिणौ स्पर्धिनौ रणे ॥ 041ac
कर्णश्चामरसङ्काशो युयुधानश्च सात्यकिः । 042a
अन्योन्यं तौ महाराज शरवर्षैरवर्षताम् ॥ 042c
प्रममाथ शिनेः पौत्रं कर्णः सायकवृष्टिभिः । 043a
अमृष्यमाणो निधनं कौरव्यजलसन्धयोः ॥ 043c
कर्णः शोकसमाविष्टो महोरग इव श्वसन् । 044a
स शैनेयं रणे क्रुद्धः प्रदहन्निव चक्षुषा । 044c
अभ्यधावत वेगेन पुनःपुनररिन्दम ॥ 044e
तं तु सक्रोधमालोक्य सात्यकिः प्रत्ययुध्यत । 045a
महता शरवर्षेण गजं प्रतिगजो यथा ॥ 045c
तौ समेतौ नरव्याघ्रौ व्याघ्राविव तरस्विनौ । 046a
अन्योन्यं सन्ततक्षाते रणेऽनुपमविक्रमौ ॥ 046c
ततः कर्णं शिनेः पौत्रः सर्वपारसवैः शरैः । 047a
बिभेद सर्वगात्रेषु पुनःपुनररिन्दम ॥ 047c
सारथिं चास्य भल्लेन रथनीडादपातयत् । 048a
अश्वांश्च चतुरः श्वेतान्निजघान शितैः शरैः ॥ 048c
छित्त्वा ध्वजं रथं चैव शतधा पुरुषर्षभ । 049a
चकार विरथं कर्णं तव पुत्रस्य पश्यतः ॥ 049c
ततो विमनसो राजंस्तावकास्ते महारथाः । 050a
वृषसेनः कर्णसुतः शल्यो मद्राधिपस्तथा । 050c
द्रोणपुत्रश्च शैनेयं सर्वतः पर्यवारयन् ॥ 050e
ततः पर्याकुलं सर्वं न प्राज्ञायत किञ्चन ॥ 051ac
तथा सात्यकिना वीरे विरथे सूतजे कृते । 052a
हाहाकारस्ततो राजन्सर्वसैन्येष्वभून्महान् ॥ 052c
कर्णोऽपि विरथो राजन्सात्वतेन कृतः शरैः । 053a
दुर्योधनरथं तूर्णमारुरोह विनिःश्वसन् ॥ 053c
मानयंस्तव पुत्रस्य बाल्यात्प्रभृति सौहृदम् । 054a
कृतां राज्यप्रदानेन प्रतिज्ञां परिपालयन् ॥ 054c
तथा तु विरथं कर्णं पुत्रांश्च परिपालयन् | 055a
दुःशासनमुखान्वीरान्नावधीत्सात्यकिर्वशी ॥ 055c
रक्षन्प्रतिज्ञां भीमेन पार्थेन च पुराकृताम् । 056a
विरथान्विह्वलांश्चक्रे न तु प्राणैर्व्ययोजयत् ॥ 056c
भीमसेनेन तु वधः पुत्राणां ते प्रतिश्रुतः । 057a
अनुद्यूते च पार्थेन वधः कर्णस्य संश्रुतः ॥ 057c
वधे त्वकुर्वन्यत्नं ते तस्य कर्णमुखास्तदा । 058a
नाशक्नुवंस्ततो हन्तुं सात्यकिं प्रवरा रथाः ॥ 058c
द्रौणिश्च कृतवर्मा च तथैवान्ये महारथाः । 099a
निर्जिता धनुषैकेन शतशः क्षत्रियर्षभाः । 059c
काङ्क्षता परलोकं च धर्मराजस्य च प्रियम् ॥ 059e
कृष्णयोः सदृशो वीर्ये सात्यकिः शत्रुतापनः । 060a
जितवान्सर्वसैन्यानि तावकानि हसन्निव ॥ 060c
कृष्णो वाऽपि भवेल्लोके पार्थो वाऽपि धनुर्धरः । 061a
शैनेयो वा नरव्याघ्र चतुर्थस्तु न विद्यते ॥ 061c
धृतराष्ट्र उवाच 062
अजय्यं वासुदेवस्य रथमास्थाय सात्यकिः । 062a
विरथं कृतवान्कर्णं वासुदेवसमो युधि । 062c
दारुकेण समायुक्तः स्वबाहुबलदर्पितः ॥ 062e
कच्चिदन्यं समारूढः सात्यकिः शत्रुतापनः । 063a
एतदिच्छाम्यहं श्रोतुं कुशलो ह्यसि भाषितुम् । 063c
असह्यं तमहं मन्ये तन्ममाचक्ष्व सञ्जय ॥ 063e
सञ्जय उवाच 064
शृणु राजन्यथावृत्तं रथमन्यं महामतिः । 064a
दारुकस्यानुजस्तूर्णं कल्पनाविधिकल्पितम् ॥ 064c
आयसैः काञ्चनैश्चापि पट्टैः सन्नद्धकूबरम् । 065a
तारासहस्रखचितं सिंहध्वजपताकिनम् ॥ 065c
अश्वैर्वातजवैर्युक्तं हेमभाण्डपरिच्छदैः । 066a
सैन्धवैरिन्दुसङ्काशैः सर्वशब्दातिगैर्दृढैः ॥ 066c
चित्रकाञ्चनसन्नाहैर्वाजिमुख्यैर्विशाम्पते । 067a
घण्टाजालाकुलरवं शक्तितोमरविद्युतम् ॥ 067c
युक्तं साङ्ग्रामिकैर्द्रव्यैर्बहुशस्त्रपरिच्छदैः । 068a
रथं सम्पादयामास मेघगम्भीरनिःस्वनम् ॥ 068c
तं समारुह्य शैनेयस्तव सैन्यमुपाद्रवत् । 069a
दारुकोऽपि यथाकामं प्रययौ केशवान्तिकम् ॥ 069c
कर्णस्यापि रथं राजञ्शङ्खगोक्षीरपाण्डुरैः । 070a
चित्रकाञ्चनसन्नाहैः सदश्वैर्वेगवत्तरैः ॥ 070c
हेमकक्ष्याध्वजोपेतं क्लृप्तयन्त्रपताकिनम् । 071a
अग्र्यं रथं सुयन्तारं बहुशस्त्रपरिच्छदम् । 071c
उपाजह्रुस्तमास्थाय कर्णोऽप्यभ्यद्रवद्रिपून् ॥ 071e
एतत्ते सर्वमाख्यातं यन्मां त्वं परिपृच्छसि । 072a
भूयश्चापि निबोधेमं तवापनयजं क्षयम् ॥ 072c
एकत्रिंशत्तव सुता भीमसेनेन पातिताः । 073a
दुर्मुखं प्रमुखे कृत्वा सततं चित्रयोधिनम् ॥ 073c
शतशो निहताः शूराः सात्वतेनार्जुनेन च । 074a
भीष्मं प्रमुखतः कृत्वा भगदत्तं च भारत । 074c
एवमेष क्षयो वृत्तो राजन्दुर्मन्त्रिते तव ॥ ॥ 074e
इति श्रीमन्महाभारते द्रोणपर्वणि जयद्रथवधपर्वणि चतुर्दशदिवसयुद्धे पञ्चचत्वारिंशदधिकशततमोऽध्यायः ॥ 145 ॥
5-145-3 हेपुण्डरीकाक्ष स जयद्रथस्त्रिषु धर्मेषु वर्तते इति श्रूयते के पुनस्ते त्रयो धर्माः । अत्रोच्यते । यदि युध्यमानो हन्यते तदा तूर्णं स्वर्गप्राप्तिरेव तस्य धर्मः । अथ पलायमानो हन्यते तदा नरकप्राप्तिरेव तस्य धर्मः । अथ मद्भयात्स्वदेशं गच्छति तदा यशःशरीरनाश एव तस्य धर्मः । यावदसौ युद्धाभिमुखः प्रथमधर्मे तिष्ठति तावदेव हन्तुमुचितः अतः शीघ्रमश्वांश्चोदयेति । कुण्डलितोऽयं श्लोकार्धः झ. पुस्तक एव दृश्यते ॥ 5-145-7 हयज्ञः हयहृदयज्ञः ॥ 5-145-8 आशुगैः मारुतैः ॥ 5-145-14 वृषः कर्णः ॥ 5-145-* इत आरभ्य उत्तराध्यायस्थ-मन्दरश्मिः सहस्रांशुरस्तङ्गिरिमुपाद्रवत् इति 25 तमश्लोकपर्यन्तं विद्यमानाः श्लोकाः झ. पुस्तके जयद्रथवधादनन्तरं वर्तन्ते । 5-145-17 वासवी शक्तिरिति शेषः ॥ 5-145-20 यथा प्रयाति तथा प्रयात्विति योज्यम् । ज्ञास्यामि ज्ञापयिष्यामि ॥ 5-145-21 यत्र काले ॥ 5-145-25 पूर्वं पूर्वेद्युः ॥ 5-145-26 कल्यं प्रातः ॥ 5-145-29 आर्षभेण स्वार्थे तद्धितः । ऋषभस्वरेण ॥ 5-145-39 काश्यपेयस्य दारुकस्य ॥ 5-145-57 अनुद्यूते पुनर्द्यूते ॥ 5-145-145 पञ्चचत्वारिंशदधिकशततमोऽध्यायः ॥