श्रीः अध्यायः 144 सञ्जयेन धृतराष्ट्रम् प्रति सात्यकेः भूरिश्रवसा पराभवकारणकथनम् ॥ 1 ॥ तथा यादवानां प्रशंसनम् ॥ 2 ॥ धृतराष्ट्र उवाच 001
अजितो द्रोणराधेयविकर्णकृतवर्मभिः । 001a
'यश्चैवोत्सहते वेतुं समस्तं मामकं बलम् ।' 001c
तीर्णः सैन्यार्णवं वीरः प्रतिश्रुत्य युधिष्ठिरे ॥ 001e
स कथं कौरवेयेण समरेष्वनिवारितः । 002a
निगृह्य भूरिश्रवसा बलाद्भुवि निपातितः ॥ 002c
सञ्जय उवाच 003
शृणु राजन्निहोत्पत्तिं शैनेयस्य यथा पुरा । 003a
यथा च भूरिश्रवसो यत्र ते संशयो नृप ॥ 003c
'ब्रह्मणस्त्वभवत्पुत्रो मानसोऽत्रिर्महातपाः ।' 004a
अत्रेः पुत्रोऽभवत्सोमः सोमस्य तु बुधः स्मृतः ॥ 004c
बुधस्यैलो महाबाहुः पुत्र आसीत्पुरूरवाः । 005a
पुरूरवस आयुस्तु आयुषो नहुषः सुतः ॥ 005c
नहुषस्य ययातिस्तु राजा देवर्षिसम्मतः । 006a
ययातेर्देवयान्यां तु यदुर्ज्येष्ठोऽभवत्सुतः ॥ 006c
यदोरभूदन्ववाये आजमीढ इति स्मृतः । 007a
यादवस्तस्य तु सुतः शूरस्त्रैलोक्यसम्मतः ॥ 007c
शूरस्य शौरिर्नृवरो वसुदेवो महायशाः । 008a
धनुष्यनवरः शूरः कार्तवीर्यसमो युधि | 008c
तद्वीर्यश्चापि तत्रैव कुले शिनिरभून्नृप || 008e
एतस्मिन्नेव काले तु देवकस्य महात्मनः। 009a
दुहितुः स्वयंवरे राजन्सर्वक्षत्रसमागमे ॥ 009c
तत्र वै देवकीं देवीं वसुदेवार्थमाशु वै । 010a
निर्जित्य पार्थिवान्सर्वान्रथमारोपयच्छिनिः ॥ 010c
तां दृष्ट्वा देवकीं शूरो रथस्थां पुरुषर्षभः । 011a
नामृष्यत महातेजाः सोमदत्तः शिनेर्नृप ॥ 011c
तयोर्युद्धमभूद्राजन्दिनार्धं चित्रमद्भुतम् । 012a
बाहुयुद्धं सुबलिनोः प्रसक्तं पुरुषर्षभः ॥ 012c
शिनिना सोमदत्तस्तु प्रसह्य भुवि पातितः । 013a
असिमुद्यम्य केशेषु प्रगृह्य च पदा हतः ॥ 013c
मध्ये राजसहस्राणां प्रेक्षकाणां समन्ततः । 014a
कृपया च पुनस्तेन स जीवेति विसर्जितः ॥ 014c
तदवस्थः कृतस्तेन सोमदत्तोऽथ मारिष । 015a
प्रासादयन्महादेवममर्षवशमास्थितः ॥ 015c
तस्य तुष्टो महादेवो वराणां वरदः प्रभुः । 016a
वरेण च्छन्दयामास स तु वव्रे वरं नृपः ॥ 016c
पुत्रमिच्छामि भगवन्यो निपात्य शिनेः सुतम् । 017a
मध्ये राजसहस्राणां पदा हन्याच्च संयुगे ॥ 017c
तस्य तद्वचनं श्रुत्वा सोमदत्तस्य पार्थिव । 018a
एवमस्त्विति तत्रोक्त्वा स देवोऽन्तरधीयत । 018c
स तेन वरदानेन लब्धवान्भूरिदक्षिणम् ॥ 018e
अपातयच्च समरे सौमदत्तिः शिनेः सुतम् । 019a
पश्यतां सर्वसैन्यानां पदा चैनमताडयत् ॥ 019c
एतत्ते कथितं राजन्यन्मां त्वं परिपृच्छसि । 020a
न हि शक्यो रणे जेतुं सात्वतो मनुजर्षभैः ॥ 020c
लब्धलक्ष्याश्च सङ्ग्रामे बहुशश्चित्रयोधिनः । 021a
देवदानवगन्धर्वान्विजेतारो ह्यविस्मिताः । 021c
स्ववीर्यविजये युक्ता नैते परपरिग्रहाः ॥ 021e
न तुल्यं वृष्णिभिरिह दृश्यते किञ्चन प्रभो । 022a
भूतं भव्यं भविष्यच्च बलेन भरतर्षभ ॥ 022c
न ज्ञातिमवमन्यन्ते वृद्धानां शासने रताः ॥ 023ac
न देवासुरगन्धर्वा न यक्षोरगराक्षसाः । 024a
जेतारो वृष्णिवीराणां किं पुनर्मानवा रणे ॥ 024c
ब्रह्मद्रव्ये गुरुद्रव्ये ज्ञातिस्वे चाप्यहिंसकाः । 025a
एतेषां रक्षितारश्च ये स्युः कस्याञ्चिदापदि ॥ 025c
अर्थवन्तो न चोत्सिक्ता ब्रह्मण्याः सत्यवादिनः । 026a
समर्थान्नावमन्यन्ते दीनानभ्युद्धरन्ति च ॥ 026c
नित्यं देवपरा दान्तास्त्रातारश्चाविकत्थनाः । 027a
तेन वृष्णिप्रवीराणां चक्रं न प्रतिहन्यते ॥ 027c
अपि मेरुं वहेत्कश्चित्तरेद्वा मकरालयम् । 028a
न तु वृष्णिप्रवीराणां समेत्यान्तं व्रजेन्नृप ॥ 028c
एतत्ते सर्वमाख्यातं यत्र ते संशयः प्रभो । 029a
कुरुराज नरश्रेष्ठ तव व्यपनयो महान् ॥ ॥ 029c

इति श्रीमन्महाभारते द्रोणपर्वणि जयद्रथवधपर्वणि चतुर्दशदिवसयुद्धे चतुश्चत्वारिंशदधिकशततमोऽध्यायः ॥ 144 ॥

5-144-21 परप्रग्रहाः रिपुरधीनाः ॥ 21 ॥ 5-144-27 चक्रं प्रतापः ॥ 5-144-144 चतुश्चत्वारिंशदधिकशततमोऽध्यायः ॥