श्रीः
अध्यायः 143
अर्जुनच्छिन्नभुजस्य भूरिश्रवसः तदुपालम्भपूर्वकं प्रायोपवेशः ॥ 1 ॥ सात्यकिना भूरिश्रवश्शिरश्छेदः ॥ 2 ॥
सञ्जय उवाच 001
स बाहुर्न्यपतद्भूमौ सखड्गः सशुभाङ्गदः । 001a
आदधज्जीवलोकस्य दुःखमद्भुतमुत्तमः । 001c
'यन्त्रमुक्तो महेन्द्रस्य ध्वजो वृत्तोत्सवो यथा ॥' 001e
प्रहरिष्यन्हृतो बाहुरदृश्येन किरीटिना । 002a
वेगेन न्यपतद्भूमौ पञ्चास्य इव पन्नगः ॥ 002c
स मोघं कृतमात्मानं दृष्ट्वा पार्थेन कौरवः । 003a
उत्सृज्य सात्यकिं क्रोधाद्गर्हयामास पाण्डवम् ॥ 003c
'स विबाहुर्महाराज एकपक्ष इवाण्डजः । 004a
एकचक्रो रथो यद्वद्धरणीमास्थितो नृपः । 004c
उवाच पाण्डवं चैव सर्वक्षत्रस्य पश्यतः ॥ 004e
भूरिश्रवा उवाच 005
नृशंसं बत कौन्तेय कर्मेदं कृतवानसि । 005a
अपश्यतो विषक्तस्य यन्मे त्वं बाहुमच्छिनः ॥ 005c
येषु येषु नरः पार्थ वर्तते सुसमाहितः । 006a
आशु तच्छीलतामेति तदिदं दृश्यते त्वयि ॥ 006c
किं नु वक्ष्यसि राजानं धर्मपुत्रं युधिष्ठिरम् | 007a
किं कुर्वाणो मया सङ्ख्ये हतो भूरिश्रवा इति ॥ 007c
इदमिन्द्रेण ते साक्षादुपदिष्टं महात्मना । 008a
अस्त्रं रुद्रेण वा पार्थ द्रोणेनाथ कृपेण वा ॥ 008c
ननु नामास्त्रधर्मज्ञस्त्वं लोकेऽभ्यधिकः परैः । 009a
सोऽयुध्यमानस्य कथं रणे प्रहृतवानसि ॥ 009c
न प्रमत्ताय भीताय विरथाय प्रयाचते । 010a
व्यसने वर्तमानाय प्रहरन्ति मनीषिणः ॥ 010c
इदं तु नीचाचरितमसत्पुरुषसेवितम् । 011a
कथमाचरितं पार्थ पापकर्म सुदुष्करम् ॥ 011c
आर्येण सुकरं त्वाहुरार्यकर्म धनञ्जय । 012a
अनार्यकर्म त्वार्येण सुदुष्करतमं भुवि ॥ 012c
कथं हि राजवंश्यस्त्वं कौरवेयो विशेषतः । 013a
क्षत्रधर्मादपक्रान्तः सुवृत्तश्चरितव्रतः ॥ 013c
'अल्पस्तवापराधोऽत्र न त्वां तात विगर्हये । 014a
वार्ष्णेयापशदं प्राप्य क्षुद्रं कृतमिदं त्वया ॥' 014c
इदं तु यदतिक्षुद्रं वार्ष्णेयार्थे कृतं त्वया । 015a
वासुदेवमतं नूनं नैतत्त्वय्युपपद्यते ॥ 015c
को हि नाम प्रमत्ताय परेण सह युध्यते । 016a
ईदृशं व्यसनं दद्याद्यो न कृष्णसखो भवेत् ॥ 016c
व्रात्याः सङ्क्लिष्टकर्माणः प्रकृत्यैव च गर्हिताः । 017a
वृष्ण्यन्धकाः कथं पार्थ प्रमाणं भवता कृताः ॥ 017c
सञ्जय उवाच 018
एवमुक्तो रणे पार्थो भूरिश्रवसमब्रवीत् । 018a
व्यक्तं हि जीर्यमाणोऽपि बुद्धिं जरयते नरः । 018c
अनर्थकमिदं सर्वं यत्त्वया व्याहृतं प्रभो ॥ 018e
जानन्नेव हृषीकेशं गर्हसे मां च पाण्डवम् । 019a
सङ्ग्रामाणां हि धर्मज्ञः सर्वशास्त्रार्थपारगः ॥ 019c
न चाधर्ममहं कुर्यां जानंश्चैव हि मुह्यसे ॥ 020ac
युध्यन्ते क्षत्रियाः शत्रून्स्वैःस्वैः परिवृता नराः । 021a
भ्रातृभिः पितृभिः पुत्रैस्तथा सम्बन्धिबान्धवैः । 021c
वयस्यैरथ मित्रैश्च स्वबाहुबलमाश्रिताः ॥ 021e
स कथं सात्यकिं शिष्यं सुखसम्बन्धिमेव च । 022a
अस्मदर्थे च युध्यन्तं त्यक्त्वा प्राणान्सुदुस्त्यजान् ॥ 022c
मम बाहुं रणे राजन्दक्षिणं युद्धदुर्मदम् । 023a
*त्वया निकृष्यमाणं च दृष्टवानस्मि निष्क्रियम् ॥ 023c
न च त्वं रक्षितव्यो हि एको रणगतेन हि । 024a
यो यस्य युध्यतेऽर्थाय संरक्ष्यो नराधिप । 024c
तै रक्ष्यमाणैः स नृपो रक्षितव्यो महामृधे ॥ 024e
यद्यहं सात्यकिं दृष्ट्वा तूष्णीमासिष्य आहवे । 025a
ततस्तेन वियोगश्च प्राप्यं नरकमेव च ॥ 025c
रक्षितव्यो मया यस्मात्तस्माल्लब्धो मया स च । 026a
यशश्चैव स्वपक्षेभ्यः फलं मित्रस्य रक्षणात् ॥ 026c
यच्च मां गर्हसे राजन्कृष्णेन सह सङ्गतम् । 027a
कस्तेन सङ्गमं नेच्छेत्तत्र ते बुद्धिविभ्रमः ॥ 027c
आबद्धकवचस्येह रथमारुह्य तिष्ठतः । 028a
सर्वायुधैरुपेतस्य प्रतियोद्धृप्रतीक्षिणः ॥ 028c
अस्मिन्रथगजानीके हयपत्तिसमाकुले । 029a
सिंहनादोद्धतरवे गम्भीरे सैन्यसागरे ॥ 029c
स्वैश्चापि समुपेतस्य विक्रान्तस्य तथा रणे । 030a
सात्यकेन कथं योग्यः सङ्ग्रामस्ते भविष्यति ॥ 030c
बहुभिः सह सङ्गम्य निर्जित्य च महारथान् । 031a
श्रान्तश्च श्रान्तवाहश्च क्षीणसर्वायुधस्त्वया । 031c
समेतः सात्यकिः सङ्ख्ये निर्जितश्च महारथः ॥ 031e
ईदृशं सात्यकिं सङ्ख्ये निर्जित्य च महारथम् । 032a
अधिकत्वं विजानीषे स्ववीर्यवशमागतम् ॥ 032c
इच्छसि त्वं शिरस्तस्य असिना हर्तुमाहवे । 033a
तथा कृच्छ्रगतं दृष्ट्वा सात्यकिं कः क्षमिष्यति । 033c
एकस्यैकेन हि कथं सङ्ग्रामः सम्भविष्यति ॥ 033e
त्वं तु गर्हय चात्मानं स्वधर्मं यो न रक्षसि । 034a
कथं रक्षिष्यसे वीर ये वै त्वां संश्रिता जनाः ॥ 034c
आत्तशस्त्रस्य हि रणे वृष्णिपुत्रं जिघांसतः । 035a
छिन्नवान्यदहं बाहुं नैतल्लोकविगर्हितम् ॥ 035c
न्यस्तशस्त्रस्य हि पुनर्विकलस्य विवर्मणः । 036a
अभिमन्योर्वधं तात धार्मिकः को नु पूजयेत् ॥ 036c
सञ्जय उवाच 037
एवमुक्तो महाबाहुर्यूपकेतुर्महायशाः । 037a
युयुधानं समुत्सृज्य रणे प्रायमुपाविशत् ॥ 037c
शरानास्तीर्य सव्येन पाणिना पुण्यलक्षणः । 038a
यियासुर्ब्रह्मलोकाय प्राणान्प्राणेष्वथाजुहोत् ॥ 038c
सूर्ये चक्षुः समाधाय प्रसन्नं सलिले मनः । 039a
ध्यायन्महोपनिषदं योगयुक्तोऽभवन्मुनिः ॥ 039c
ततस्ते सर्वसेनासु जनाः कृष्णधनञ्जयौ । 040a
गर्हयामासुरप्येतौ शशंसुर्भूरिदक्षिणम् ॥ 040c
निन्द्यमानौ तथा कृष्णौ नोचतुः किञ्चिदप्रियम् । 041a
ततः प्रशस्यमानश्च नाहृष्यद्यूपकेतनः ॥ 041c
तांस्तथावादिनो राजन्पुत्रांस्तव धनञ्जयः । 042a
अमृष्यमाणो मनसा तेषां तस्य च भाषितम् ॥ 042c
असङ्क्रुद्धमना वाचः स्मारयन्निव भारत । 043a
उवाच पाण्डुतनयः साक्षेपमिव फल्गुनः ॥ 043c
मम सर्वेऽपि राजानो जानन्त्येतन्महाव्रतम् । 044a
न शक्यो मामको हन्तुं यो मे स्याद्बाणगोचरे ॥ 044c
यूपकेतुं समीक्ष्यैतन्न मां गर्हितुमर्हथ । 045a
न हि धर्ममविज्ञाय युक्तं गर्हयितुं परम् ॥ 045c
न्यस्तशस्त्रस्य बालस्य विरथस्य विवर्मणः । 046a
'नाभिमन्योर्वधं यूयं गर्हयध्वं कुतस्तदा ॥ 046c
दुर्योधनस्य क्षुद्रस्य अप्रमाणे च तिष्ठतः । 047a
सौमदत्तेरयं साधुः सर्वसाहाय्यकारिणः ॥ 047c
अस्मदीया मया रक्ष्याः प्राणबाध उपस्थिते । 048a
ये मे प्रत्यक्षतो वीरा हन्येरन्निति मे मतिः ॥ 048c
सात्यकश्च वशं नीतः कौरवेण महात्मना । 049a
ततो मयैतच्चरितं प्रतिज्ञारक्षणं प्रति ॥ 049c
सञ्जय उवाच 050
पुनश्च कृपयाऽऽविष्टो बहु तत्तद्विचिन्तयन् । 050a
उवाच चैनं कौरव्यमर्जुनः शोकपीडितः ॥ 050c
धिगस्तु क्षत्रधर्मं तु यत्र त्वं पुरुषेश्वरः । 051a
अवस्थामीदृशीं प्राप्तः शरण्यः शरणप्रदः ॥ 051c
नातिभारः कृतान्तस्य विद्यते कुरुनन्दन । 052a
यत्र त्वं पुरुषव्याघ्रः प्राप्तः पापामिमां दशाम् ॥ 052c
नात्मनः सुकृतस्यास्य फलं वै नृपसत्तम । 053a
यत्र त्वं कुरुशार्दूल प्राप्तः पापामिमां दशाम् ॥ 053c
रौरवं नरकं भीमं गमिष्यति सुयोधनः । 054a
यत्कृते नरशार्दूलः प्राप्तः पापामिमां दशाम् ॥ 054c
को हि नाम पुमाल्ँलोके मादृशः पुरुषोत्तम । 055a
प्रहरेत्त्वद्विधे त्वद्य प्रतिज्ञा यदि नो भवेत् ॥' 055c
एवमुक्तः स पार्थेन शिरसा भूमिमस्पृशत् । 056a
पाणिना चैव सव्येन प्राहिणोदस्य दक्षिणम् ॥ 056c
एतत्पार्थस्य तु वचस्ततः श्रुत्वा महाद्युतिः । 057a
युपकेतुर्महाराज तूष्णीमासीदवाङ्मुखः ॥ 057c
अर्जुन उवाच 058
या प्रीतिर्धर्मराजे मे भीमे च बलिनां वरे । 058a
नकुले सहदेवे च सा मे त्वयि शलाग्रज ॥ 058c
मया त्वं समनुज्ञातः कृष्णेन च महात्मना । 059a
गच्छ पुण्यकृतां लोकाञ्छिबिरौशीनरो यथा ॥ 059c
वासुदेव उवाच 060
ये लोका मम विमलाः सकृद्विभाता ब्रह्माद्यैः सुरवृषभैरपीष्यमाणाः । 060a
तान्क्षिप्रं व्रज सतताग्निहोत्रयाजिन्मत्तुल्यो भव गरुडोत्तमाङ्गयानः ॥ 060c
सञ्जय उवाच 061
'धनञ्जये ब्रुवत्येवं घृणया च परिप्लुते । 061a
अवाङ्मुखा बभूवुश्च सैनिकाः सर्व एव ते ॥ 061c
मुहूर्तादिव विश्रम्य सात्यकिः क्रोधमूर्च्छितः । 062a
अमर्षवशमापन्नः सौमदत्तिनिराकृतः ॥' 062c
उत्थितः स तु शैनेयो विमुक्तः सौमदत्तिना । 063a
खड्गमादाय चिच्छित्सुः शिरस्तस्य महात्मनः ॥ 063c
निहतं पाण्डुपुत्रेण प्रसक्तं भूरिदक्षिणम् । 064a
इयेष सात्यकिर्हन्तुं शलाग्रजमकल्मषम् ॥ 064c
निकृत्तभुजमासीनं छिन्नहस्तमिव द्विपम् । 065a
क्रोशतां सर्वसैन्यानां निन्द्यमानः सुदुर्मनाः ॥ 065c
वार्यमाणः स कृष्णेन पार्थेन च महात्मना । 066a
भीमेन चक्ररक्षाभ्यामश्वत्थाम्ना कृपेण च ॥ 066c
कर्णेन वृषसेनेन सैन्धवेन तथैव च । 067a
विक्रोशतां च सैन्यानामवधीत्तं धृतव्रतम् ॥ 067c
प्रायोपविष्टस्य रणे पार्थेन च्छिन्नबाहुनः । 068a
सात्यकिः कौरवेयस्य खड्गेनापाहरच्छिरः ॥ 068c
नाभ्यनन्दन्त तं सैन्याः सात्यकिं तेन कर्मणा । 069a
अर्जुनेन हतं पूर्वं यज्जघान कुरूद्वहम् ॥ 069c
सहस्राक्षसमं चैव सिद्धचारणमानवाः । 070a
भूरिश्रवसमालोक्य युद्धे प्रायगतं हतम् ॥ 070c
अपूजयन्त तं देवा विस्मितास्तेऽस्य कर्मभिः । 071a
पक्षवादांश्च सुबहून्प्रावदंस्तव सैनिकाः ॥ 071c
न वार्ष्णेयस्यापराधो भवितव्यं हि तत्तथा । 072a
तस्मान्मन्युर्न वः कार्यः क्रोधो दुःखतरो नृणाम् ॥ 072c
हन्तव्यश्चैष वीरेण नात्र कार्या विचारणा । 073a
विहितो ह्यस्य धात्रैव मृत्युः सात्यकिराहवे ॥ 073c
'मर्तव्यमेव सर्वेण चरमं पूर्वमेव वा । 074a
मन्यध्वं मृत इत्येष माभूद्वो बुद्धिलाघवम् ॥ 074c
तस्मिन्हते महाबाहौ यूपकेतौ महात्मनि । 075a
धिगेनमिति चाक्रन्दन्क्षत्रियाः क्रोधमूर्च्छिताः ॥ 075c
अन्ये न युक्तमित्येव भवितव्यं तथेति च । 076a
केचिदासन्विमनसः केचिद्दुःखसमन्विताः ॥' 076c
सात्यकिरुवाच 077
न हन्तव्यो न हन्तव्य इति मन्दाः प्रभाषत । 077a
धर्मवादैरधर्मिष्ठा धर्मकञ्चुकमास्थिताः ॥ 077c
यदा बालः सुभद्रायाः सुतः शस्त्रविनाकृतः । 078a
युष्माभिर्निहतो युद्धे तदा धर्मः क्व वो गतः ॥ 078c
मया त्वेतत्प्रतिज्ञातं क्षेपे कस्मिंश्चिदेव हि । 079a
'श्रुत्वा तत्सर्वभावेन गर्हयध्वं न चार्जुनम् । 079c
शृणुध्वं सर्वमेवेह श्रुत्वा गर्हथ मानवाः ॥' 079e
यो मां निष्पिष्य सङ्ग्रामे जीवन्हन्यात्पदा रुषा । 080a
स मे वध्यो भवेच्छत्रुर्यद्यपि स्यान्मुनिव्रतः ॥ 080c
चेष्टमानं प्रतीघाते सभुजं मां सचक्षुषः । 081a
मन्यध्वं मृत इत्येवमेतद्वो बुद्धिलाघवम् ॥ 081c
युक्तो ह्यस्य प्रतीघातः कृतो मे कुरुपुङ्गवाः ॥ 082ac
यत्तु पार्थेन मां दृष्ट्वा प्रतिज्ञामभिरक्षता । 083a
सखड्गोऽस्य हृतो बाहुरेतेनैवास्मि वञ्चितः ॥ 083c
भवितव्यं हि यद्भावि दैवं चेष्टयते हि तत् । 084a
सोयं हतो विमर्देऽस्मिन्किमत्राधर्मचेष्टितम् ॥ 084c
अपि चायं पुरा गीतः श्लोको वाल्मीकिना भुवि । 085a
न हन्तव्याः स्त्रिय इति यद्ब्रवीषि प्लवङ्गम ॥ 085c
सर्वकालं मनुष्येण व्यवसायवता सदा । 086a
पीडाकरममित्राणां यत्स्यात्कर्तव्यमेव तत् । 086c
अनुष्ठितं मया तच्च कस्माद्गर्हथ मूढवत् ॥ 086e
सञ्जय उवाच 087
एवमुक्ते महाराज सर्वे कौरवपुङ्गवाः । 087a
न स्म किञ्चिदभाषन्त मनसा समपूजयन् ॥ 087c
मन्त्राभिपूतस्य महाध्वरेषु यशस्विनो भूरिसहस्रदस्य । 088a
मुनेरिवारण्यगतस्य तस्य न तत्र कश्चिद्वधमभ्यनन्दत् ॥ 088c
सुनीलकेशं वरदस्य तस्य सूरस्य पारावतलोहिताक्षम् । 089a
अश्वस्य मेध्यस्य शिरो निकृत्तं न्यस्तं हविर्धानमिवान्तरेण ॥ 089c
स तेजसा शस्त्रकृतेन पूतो महाहवे देहवरं विसृज्य । 090a
आक्रामदूर्ध्वं वरदो वरार्हो व्यावृत्त्य धर्मेण परेण रोदसी ॥ ॥ 090c
इति श्रीमन्महाभारते द्रोणपर्वणि जयद्रथवधपर्वणि चतुर्दशदिवसयुद्धे त्रिचत्वारिंशदधिकशततमोऽध्यायः ॥ 143 ॥
5-143-5 विषक्तस्यान्यासक्तस्य ॥ 5-143-6 येषुयेषु सत्स्वसत्सु वा ॥ 5-143-23 * एतदादि 35 तमश्लोकपर्यन्तं विद्यमानानां श्लोकानां स्थाने अधोलिखिताः श्लोकाः झ. पुस्तके सन्ति । नचात्मा रक्षितव्यो वै राजन्रणगतेन हि । यो यस्य युज्यतेऽर्थेषु स वै रक्ष्यो नराधिप ॥ 1 ॥ तै रक्ष्यमाणैः स नृपो रक्षितव्यो महामृधे । यद्यहं सात्यकिं पश्ये वध्यमानं महारणे ॥ 2 ॥ ततस्तस्य वियोगेन पापं मेऽनर्थतो भवेत् । रक्षितश्च मया यस्मात्तस्मात्क्रुध्यसि किं मयि ॥ 3 ॥ यच्च मे गर्हसे राजन्नन्येन सह सङ्गतम् । अहं त्वया विनिकृतस्तत्र मे बुद्धिविभ्रमः ॥ 4 ॥ कवचं धुन्वतस्तुभ्यं रथं चारोहतः स्वयम् । धनुर्ज्यां कर्षतश्चैव युध्यतः सह शत्रुभिः ॥ 5 ॥ एवं रथगजाकीर्णे हयपत्तिसमाकुले । सिंहनादोद्धतरवे गम्भीरे सैन्यसागरे ॥ 6 ॥ स्वैः परैश्च समेतेभ्यः सात्वतेन च सङ्गमे । एकस्यैकेन हि कथं सङ्ग्रामः सम्भविष्यति ॥ 7 ॥ बहुभिः सह सङ्गम्य निर्जित्य च महारथान् । श्रान्तश्च श्रान्तवाहश्च विमनाः शस्त्रपीडितः ॥ 8 ॥ ईदृशं सात्यकिं सङ्ख्ये निर्जित्य च महारथम् । अधिकत्वं विजानीषे स्ववीर्यवशमागतम् ॥ 9 ॥ यदिच्छसि शिरश्चास्य असिना हन्तुमाहवे । तथा कृच्छ्रगतं चैव सात्यकिं कः क्षमिष्यति ॥ 10 ॥ त्वं वै विगर्हयात्मानमात्मानं यो न रक्षसि । कथं करिष्यसे वीर यो वा त्वां संश्रयेज्जनः ॥ 11 ॥ 5-143-23 दक्षिणं बाहुं तत्स्थनीयम् ॥ 5-143-37 प्रायम् आमरणानशनं प्रारब्धवान् ॥ 5-143-38 प्राणानसून् प्राणेषु वायुषु अजुहोदाहितवान् ॥ 5-143-39 प्रसन्नमकल्मषम् ॥ 5-143-49 स कथं च वधं नीतः इति ङ. पाठः । सः सात्यकिः वधमुद्दिश्येति शेषः ॥ 5-143-52 नातिहारः कृतान्तस्येति ठ. पाठः । अतिहारः परिहारः ॥ 5-143-56 दक्षिणं कृत्तमात्मनः पाणिम् अस्यार्जुनस्य समीपे प्राहिणोत् प्रहितवान् ॥ 5-143-60 ये लोका इति श्लोकः झ. घ. ञ. पुस्तकेष्वेवास्ति । सकृद्विभाताः सहप्रकाशाः । गरुडस्योत्तमाङ्गेन पृष्ठेन यानं यस्य ॥ 5-143-64 प्रसक्तमन्यासक्तम् ॥ 5-143-79 क्षेपे निन्दामाम् । जीवन्निति द्वितीयार्थे प्रथमा ॥ 5-143-85 न हन्तव्या इत्यर्थं घ. ङ. झ. ञ. पाठेष्वेवास्ति ॥ 5-143-89 वरदस्यार्थितार्थप्रदातुः । हविर्धानमन्तरेण हविर्गृहस्य मध्ये ॥ 5-143-143 त्रिचत्वारिंशदधिकशततमोऽध्यायः ॥