श्रीः
अध्यायः 142
सात्यकिभूरिश्रवसोर्युद्धम् ॥ 1 ॥ सात्यकिशिरच्छेदायोन्नमितस्य खड्गभृतो भूरिश्रवोभुजस्यार्जुनेन सञ्छेदः ॥ 2 ॥
सञ्जय उवाच 001
तमापतन्तं सम्प्रेक्ष्य सात्वतं युद्धदुर्मदम् । 001a
क्रोधाद्भूरिश्रवा राजन्सहसा समुपाद्रवत् ॥ 001c
तमब्रवीन्महाराज कौरव्यः शिनिपुङ्गवम् । 002a
अद्य प्राप्तोऽसि दिष्ट्या मे चक्षुर्विषयमित्युत ॥ 002c
चिराभिलषितं काममहं प्राप्स्यामि संयुगे । 003a
न हि मे मोक्ष्यसे जीवन्यदि नोत्सृजसे रणम् ॥ 003c
अद्य त्वां समरे हत्वा नित्यं शूराभिमानिनम् । 004a
नन्दयिष्यामि दाशार्ह कुरुराजं सुयोधनम् ॥ 004c
अद्य मद्बाणनिर्दग्धं पतितं धरणीतले । 005a
द्रक्ष्यतस्त्वां रणे वीरौ सहितौ केशवार्जुनौ ॥ 005c
अद्य धर्मसुतो राजा श्रुत्वा त्वां निहतं मया । 006a
सव्रीडो भविता सद्यो येनासीह प्रवेशितः ॥ 006c
अद्य मे विक्रमं पार्थो विज्ञास्यति धनञ्जयः । 007a
त्वयि भूमौ विनिहते शयाने रुधिरोक्षिते ॥ 007c
चिराभिलषितो ह्येष त्वया सह समागमः । 008a
पुरा देवासुरे युद्धे शक्रस्य बलिना यथा ॥ 008c
अद्य युद्धं महाघोरं तव दास्यामि सात्वत । 009a
ततो ज्ञास्यसि तत्त्वेन मद्वीर्यबलपौरुषम् ॥ 009c
अद्य संयमनीं याता मया त्वं निहतो रणे । 010a
यथा रामानुजेनाजौ रावणिर्लक्ष्मणेन ह ॥ 010c
अद्य कृष्णश्च पार्थश्च धर्मराजश्च माधव । 011a
हते त्वयि निरुत्साहा रणं त्यक्ष्यन्त्यसंशयम् ॥ 011c
अद्य तेऽपचितिं कृत्वा शितैर्माधव सायकैः । 012a
तत्स्त्रियो नन्दयिष्यामि ये त्वया निहता रणे ॥ 012c
मच्चक्षुर्विषयं प्राप्तो न त्वं माधव मोक्ष्यसे । 013a
सिंहस्य विषयं प्राप्तो यथा क्षुद्रमृगस्तथा ॥ 013c
सञ्जय उवाच 014
युयुधानस्तु तं राजन्प्रत्युवाच हसन्निव । 014a
कौरवेय न सन्त्रासो विद्यते मम संयुगे ॥ 014c
नाहं भीषयितुं शक्यो वाङ्मात्रेण तु केवलम् । 015a
स मां निहन्यात्सङ्ग्रामे यो मां कुर्यान्निरायुधम् ॥ 015c
समास्तु शाश्वतीर्हन्याद्यो मां हन्याद्धि संयुगे । 016a
किं वृथोक्तेन बहुना कर्मणा तत्समाचर ॥ 016c
शारदस्येव मेघस्य गर्जितं निष्फलं हि ते । 017a
श्रुत्वा त्वद्गर्जितं वीर हास्यं हि मम जायते ॥ 017c
चिरकालेप्सितं लोके युद्धमद्यास्तु कौरव । 018a
त्वरते मे मतिस्तात तव युद्धाभिकाङ्क्षिणी । 018c
नाहत्वाऽहं निवर्तिष्ये त्वामद्य पुरुषाधम ॥ 018e
सञ्जय उवाच 019
अन्योन्यं तौ तथा वाग्भिस्तक्षन्तौ नरपुङ्गवौ । 019a
जिघांसू परमक्रुद्धावभिजघ्नतुराहवे ॥ 019c
समेतौ तौ महेष्वासौ शुष्मिणौ स्पर्धिनौ रणे । 020a
द्विरदाविव सङ्क्रुद्धौ वासितार्थे मदोत्कटौ ॥ 020c
भूरिश्रवाः सात्यकिश्च ववर्षतुररिन्दमौ । 021a
शरवर्षाणि घोराणि मेघाविव परस्परम् ॥ 021c
सौमदत्तिस्तु शैनेयं प्रच्छाद्येषुभिराशुगैः । 022a
जिघांसुर्भरतश्रेष्ठ विव्याध निशितैः शरैः ॥ 022c
दशभिः सात्यकिं विद्ध्वा सौमदत्तिरथापरान् । 023a
मुमोच निशितान्बाणाञ्जिघांसुः शिनिपुङ्गवम् ॥ 023c
तानस्य विशिखांस्तीक्ष्णानन्तरिक्षे विशाम्पते । 024a
अप्राप्तानस्त्रमायाभिरग्रसत्सात्यकिः प्रभो ॥ 024c
तौ पृथक्शस्त्रवर्षाभ्यामवर्षेतां परस्परम् । 025a
उत्तमाभिजनौ वीरौ कुरुवृष्णियशस्करौ ॥ 025c
तौ नखैरिव शार्दूलौ दन्तैरिव महाद्विपौ । 026a
रथशक्तिभिरन्योन्यं विशिखैश्चाप्यकृन्तताम् ॥ 026c
निर्भिदन्तौ हि गात्राणि विक्षरन्तौ च शोणितम् । 027a
व्यष्टम्भयेतामन्योन्यं प्राणद्यूताभिदेविनौ ॥ 027c
एवमुत्तमकर्माणौ कुरुवृष्णियशस्करौ । 028a
परस्परमयुध्येतां वारणाविव यूथपौ ॥ 028c
तावदीर्घेण कालेन ब्रह्मलोकपुरस्कृतौ । 029a
यियासन्तौ परं स्थानमन्योन्यं सञ्जगर्जतुः ॥ 029c
सात्यकिः सौमदत्तिश्च शरवृष्ट्या परस्परम् । 030a
हृष्टवद्धार्तराष्ट्राणां पश्यतामभ्यवर्षताम् ॥ 030c
सम्प्रैक्षन्त जनास्तौ तु युध्यमानौ युधाम्पती । 031a
यूथपौ वासिताहेतोः प्रयुद्धाविव कुञ्जरौ ॥ 031c
'भूयोभूयः शरै राजंस्तक्षन्तौ क्रोधमूर्च्छितौ । 032a
अयुध्येतां महारङ्गे वने केसरिणाविव ॥ 032c
मर्मज्ञाविव सङ्क्रुद्धौ जिघांसन्तौ जगर्जतुः । 033a
विमर्दन्तावथान्योन्यं बलवज्रधराविव ॥ 033c
अथान्योन्यं पताकाश्च रथोपकरणानि च । 034a
सञ्चिच्छिदतुरायान्तौ बाणैः सन्नतपर्वभिः ॥ 034c
पुनश्च शरवर्षाभ्यामन्योन्यमभिवर्षताम् । 035a
उभौ तु जघ्नतुस्तूर्णमितरेतरसारथी ॥' 035c
अन्योन्यस्य हयान्हत्वा धनुषी विनिकृत्य च । 036a
विरथावसियुद्धाय समेयातां महारणे ॥ 036c
आर्षभे चर्मणी चित्रे प्रगृह्य विपुले शुभे । 037a
विकोशौ चाप्यसी कृत्वा समरे तौ विचेरतुः ॥ 037c
चरन्तौ विविधान्मार्गान्मण्डलानि च भागशः । 038a
मुहुराजघ्नतुः क्रुद्धावन्योन्यमरिमर्दनौ । 038c
सखड्गौ चित्रवर्माणौ सनिष्काङ्गदभूषणौ ॥ 038e
भ्रान्तमुद्धान्तमाविद्धमाप्लुतं विप्लुतं सृतम् । 039a
सम्पातं समुदीर्णं च दर्शयन्तौ यशस्विनौ ॥ 039c
असिभ्यां सम्प्रजह्राते परस्परमरिन्दमौ । 040a
उभौ छिद्रैषिणौ वीरावुभौ चित्रं ववल्गतुः ॥ 040c
दर्शयन्तावुभौ शिक्षां लाघवं सौष्ठवं तथा । 041a
रणे रणकृतां श्रेष्ठावन्योन्यं पर्यकर्षताम् ॥ 041c
मुहूर्तमिव राजेन्द्र समाहत्य परस्परम् । 042a
पश्यतां सर्वसैन्यानां वीरावाश्वसतां पुनः ॥ 042c
असिभ्यां चर्मणी चित्रे शतचन्द्रे नराधिप । 043a
निकृत्य पुरुषव्याघ्रौ बाहुयुद्धं प्रचक्रतुः ॥ 043c
व्यूढोरस्कौ दीर्घभुजौ नियुद्धकुशलावुभौ । 044a
बाहुभिः समसज्जेतामायसैः परिघैरिव ॥ 044c
तयो राजन्भुजाघातनिग्रहप्रग्रहास्तथा । 045a
शिक्षाबलसमुद्भूताः सर्वयोधप्रहर्षणाः ॥ 045c
तयोर्नृवरयो राजन्समरे युध्यमानयोः । 046a
भीमोऽभवन्महाशब्दो वज्रपर्वतयोरिव ॥ 046c
द्विपाविव विषाणाग्रैः शृङ्गैरिव महर्षभौ । 047a
भुजयोक्त्रावबन्धैश्च शिरोभ्यां चावघातनैः ॥ 047c
पादावकर्षसन्धानैस्तोमराङ्कशलासनैः । 048a
पादोदरविबन्धैश्च भूमावुद्भ्रमणैस्तथा ॥ 048c
गतप्रत्यागताक्षेपैः पातनोत्थानसम्प्लुतैः । 049a
युयुधाते महात्मानौ कुरुसात्वतपुङ्गवौ ॥ 049c
द्वात्रिंशत्कारणानि स्युर्यानि युद्धानि भारत । 050a
तान्यदर्शयतां तत्र युध्यमानौ महाबलौ ॥ 050c
क्षीणायुधे सात्वते युध्यमाने ततोऽब्रवीदर्जुनं वासुदेवः । 051a
पश्यस्वैनं विरथं युध्यमानं रणे वरं सर्वधनुर्धराणाम् ॥ 051c
'सिन्धुराजवधे सक्तं पार्थं कृष्णोऽब्रवीत्पुनः । 052a
सीदन्तं सात्यकिं पश्य पार्थैनं परिरक्ष च ॥' 052c
प्रविष्टो भारतीं भित्त्वा तव पाण्डव पृष्ठतः । 053a
योधितश्च महावीर्यैः सर्वैर्भारत भारतैः ॥ 053c
धार्तराष्ट्राश्च ये मुख्या ये च मुख्या महारथाः । 054a
निहता वृष्णिवीरेण शतशोऽथ सहस्रशः ॥ 054c
परिश्रान्तं युधां श्रेष्ठं सम्प्राप्तो भूरिदक्षिणः । 055a
युद्धाकाङ्क्षी समायान्तं नैतत्सममिवार्जुन ॥ 055c
ततो भूरिश्रवाः क्रुद्धः सात्यकिं युद्धदुर्मदः । 056a
उद्यम्याभ्याहनद्राजन्मत्तो मत्तमिव द्विपम् ॥ 056c
ततो जलदनिर्घोषः समीपे नृपसत्तम । 057a
हाहाकारो महानासीत्सैन्यानां भरतर्षभ । 057c
यदुद्यम्य महाबाहुः सात्यकिं न्यहनद्भुवि ॥ 057e
रथस्थयोर्द्वयोर्युद्धे क्रुद्धयोर्योधमुख्ययोः । 058a
केशवार्युनयो राजन्समरे प्रेक्षमाणयोः ॥ 058c
अथ कृष्णो महाबाहुरर्जुनं प्रत्यभाषत । 059a
पश्य वृष्ण्यन्धकव्याघ्रं सौमदत्तिवशं गतम् ॥ 059c
परिश्रान्तं गतं भूमौ कृत्वा कर्म सुदुष्करम् । 060a
तवान्तेवासिनं वीरं पालयार्जुन सात्यकिम् ॥ 060c
न वशं यज्ञशीलस्य गच्छेदेष वरोऽर्जुन । 061a
त्वत्कृते पुरुषव्याघ्र तदाऽऽशु क्रियतां विभो ॥ 061c
सञ्जय उवाच 062
स सिंह इव मातङ्गं विकर्षन्भूरिदक्षिणः । 062a
व्यरोचत कुरुश्रेष्ठः सात्वतप्रवरं युधि ॥ 062c
अथाब्रवीद्धृष्टमना वासुदेवं धनञ्जयः । 063a
पश्य वृष्णिप्रवीरेण क्रीडन्तं कुरुपुङ्गवम् । 063c
महाद्विपेनेव वने मत्तेन हरियूथपम् ॥ 063e
'मामेव च महाबाहो परियान्ति महारथाः । 064a
यथाशक्ति यतन्तो मां योधयन्तो जनार्दन ॥ 064c
ध्रुवं च योधयाम्येताञ्छिद्रान्वेषणतत्परान् । 065a
रक्षामि सात्यकिं चैव सौमदत्तिवशं गतम् ॥ 065c
अप्राप्तोऽयं मया कृष्ण हन्तुं भूरिश्रवा रणे । 066a
अन्येन तु समासक्तं मम नोत्सहते मनः ॥ 066c
अवश्यं च मया कृष्ण वृष्णिवीरस्य रक्षणम् । 067a
मदर्थं युध्यमानस्य कार्यं प्राणैरपि प्रभो ॥ 067c
अधर्मो वाऽस्तु धर्मो वा मम माधव माधवः । 068a
परेण निहतो मा स्म प्राणान्हासीन्महारथः ॥ 068c
सञ्जय उवाच 069
एवमुक्त्वाऽर्जुनः कृष्णं परानाशु शितैः शरैः । 069a
छादयामास सङ्क्रुद्धः परे चापि धनञ्जयम् ॥ 069c
एवं स्म युध्यते वीरः सात्यकिं च मुहुर्मुहुः । 070a
प्रेक्षते स्म नरव्याघ्रो भूरिश्रवसमेव च ॥' 070c
तथा तु कृष्यमाणं तं दृष्ट्वा सात्यकिमाहवे । 071a
वासुदेवस्तदा वाक्यं भूयोऽप्यर्जुनमब्रवीत् ॥ 071c
पश्य वृष्ण्यन्धकव्याघ्रं सौमदत्तिवशं गतम् । 072a
तव शिष्यं महाबाहो धनुष्यनवमं त्वया ॥ 072c
अनित्यो विक्रमः पार्थ यत्र भूरिश्रवा रणे । 073a
विशेषयति वार्ष्णेयं सात्यकिं सत्यविक्रमम् ॥ 073c
'बहुभिर्महारथैरेष पराक्रान्तैर्युयुत्सुभिः । 074a
युद्ध्वा भृशं परिश्रान्तः क्षीणायुधरपरिच्छदः ॥' 074c
सञ्जय उवाच 075
एवमुक्तो महाराज वासुदेवेन पाण्डवः । 075a
मनसा पूजयामास भूरिश्रवसमाहवे ॥ 075c
विकर्षन्सात्वतां श्रेष्ठं क्रीडमान इवाहवे । 076a
स हर्षयति मां भूयः कुरूणां नन्दिवर्धनः ॥ 076c
प्रवरं वृष्णिवीराणां यन्निहन्त्येष सात्यकिम् । 077a
महाद्विपमिवारण्ये कर्षन्निव हरिर्भृशम् ॥ 077c
एवं तु मनसा राजन्पार्थः सम्पूज्य कौरवम् । 078a
'अयुध्यतारिभिर्वीरस्तं च सम्प्रेक्षते मुहुः ॥' 078c
अथ कोशाद्विनिष्कृष्य खड्गं भूरिश्रवाः शितम् । 079a
मूर्धजेषु च जग्राह पदा चोरस्याताडयत् । 079c
'आक्रम्य चाप्यथोद्यम्य सहासिं सुभुजो भुजम् ॥ 079e
शुशुभे स भुजस्तस्य तपनीयविभूषणः । 080a
मध्ये रथसमूहस्य इन्द्रध्वज इवोच्छ्रितः ॥ 080c
हाहाकृतमभूत्सर्वं पाण्डवानां महद्बलम् । 081a
तावकाश्च मुदा युक्ताः सिंहनादं विचुक्रुशुः ॥ 081c
निमीलिताक्षास्त्वभवञ्जनाः सङ्ग्रामभीरवः । 082a
तथा भूरिश्रवोग्रस्ते सात्वते नष्टविक्रमे ॥ 082c
वासुदेवं महाबाहुरर्जुनः प्रत्यभाषत । 083a
सैन्धवे सक्तदृष्टित्वान्न तं पश्यामि माधवम् ॥ 083c
एष त्वसुकरं कर्म यादवार्थे करोम्यहम् । 084a
मम शिष्यो ममार्थाय युध्यते मम शत्रुभिः । 084c
तं कृष्ण मोक्षयिष्यामि दावात्सिंहशिशुं यथा ॥' 084e
सञ्जय उवाच 085
इत्युक्त्वा वचनं कुर्वन्वासुदेवस्य पाण्डवः । 085a
ततः क्षुरप्रं निशितं गाण्डीवे समयोजयत् ॥ 085c
पार्थबाहुविसृष्टः स महोल्केव नभश्च्युता । 086a
सखड्गं यज्ञशीलस्य बाहुं दक्षिणमच्छिनत् ॥ ॥ 086c
इति श्रीमन्महाभारते द्रोणपर्वणि जयद्रथवधपर्वणि चतुर्दशदिवसयुद्धे द्विचत्वारिंशदधिकशततमोऽध्यायः ॥ 142 ॥
5-142-2 उतात्यर्थम् ॥ 5-142-16 शाश्वतीः समाः सर्वकालम् । तुरवधारणे । नित्यमेव असौ हन्यात् । जय एव तस्येत्यर्थः ॥ 5-142-29 ब्रह्मलोकपुरस्कृतौ ब्राह्मणसमूहसत्कृतौ ॥ 5-142-45 भुजाघातो भुजस्फोटः । निग्रहो हस्तधारणम् । प्रग्रहो गलहस्तकः ॥ 5-142-47 भुजयोक्त्रावबन्धैर्बाहुपाशवेष्टनैः । अवघातनैस्ताडनैः ॥ 5-142-48 पादशब्दः प्रत्येकं सम्बध्यते । पादावकर्षैश्चरणावकर्षणैः । पादसन्धानैश्चरणच्छन्दितकैः । तोमरैरतिस्फोटनैः । अङ्कुशैरवलुञ्चनैः । पादोदरविबन्धैः पादाभ्यामुदरक्रोडीकरणैः । उद्भ्रमणैः परिवर्तनैः ॥ 5-142-49 गतैर्गमनैः प्रत्यागतैरावर्तनैः । आक्षेपैरास्फालनैः । पातनैर्भूमिप्रापणैः उत्थानैः उत्पतनैः । सम्प्लुतैः विष्फारानुबन्धैः ॥ 5-142-55 सममनुरूपम् ॥ 5-142-56 अभ्याहनदास्फालितवान् ॥ 5-142-142 द्विचत्वारिंशदधिकशततमोऽध्यायः ॥