श्रीः
अध्यायः 141
सात्यकेरर्जुनदर्शनं भूरिश्रवसा समागमश्च ॥ 1 ॥
सञ्जय उवाच 001
तमुद्यतं महाबाहुं दुःशासनरथं प्रति । 001a
त्वरितं त्वरणीयेषु धनञ्जयजयैषिणम् ॥ 001c
त्रिगर्तानां महेष्वासाः सुवर्णविकृतध्वजाः । 002a
सेनासमुद्रमाविष्टमनन्तं पर्यवारयन् ॥ 002c
अथैनं रथवंशेन सर्वतः सन्निवार्य ते । 003a
अवाकिरञ्छरव्रातैः क्रुद्धाः परमधन्विनः ॥ 003c
अजयद्राजपुत्रांस्तान्भ्राजमानान्महारणे । 004a
एकः पञ्चाशतं शत्रून्सात्यकिः सत्यविक्रमः ॥ 004c
सम्प्राप्य भारतीमध्यं तलघोषसमाकुलम् । 005a
असिशक्तिगदापूर्णमप्लवं सागरं यथा ॥ 005c
'अथैनमनुवृत्तास्तु त्रिगर्ताः सहिताः पुनः । 006a
तीव्रेण रथवंशेन महता पर्यवारयन् । 006c
विकर्षन्तोऽतिमात्राणि चापानि भरतर्षभ ॥' 006e
तत्राद्भुतमपश्याम शैनेयचरितं रणे । 007a
प्रतीच्यां दिशि तं दृष्ट्वा प्राच्यां पश्यामि लाघवात् ॥ 007c
उदीचीं दक्षिणां प्राचीं प्रतीचीं विदिशस्तथा । 008a
पुनर्मध्यगतो वीर आहवे युद्धदुर्मदः ॥ 008c
एकः पर्यचरन्रङ्गे बहुधा स महाबलः । 009a
नृत्यन्निवाचरच्छूरो यथा रथशतं तथा ॥ 009c
तद्दृष्ट्वा चरितं तस्य सिंहविक्रान्तगामिनः । 010a
त्रिगर्ताः सन्न्यवर्तन्त सन्तप्ताः स्वजनं प्रति ॥ 010c
तमन्ये शूरसेनानां शूराः सङ्ख्ये न्यवारयन् । 011a
नियच्छन्तः शरव्रातैर्मत्तं द्विपमिवाङ्कुशैः ॥ 011c
तैर्व्यवाहरदार्यात्मा मुहूर्तादेव सात्यकिः । 012a
ततः कलिङ्गैर्युयुधे सोऽचिन्त्यबलविक्रमः ॥ 012c
तां च सेनामतिक्रम्य कलिङ्गानां दुरत्ययाम् । 013a
अथ पार्थं महाबाहुर्धनञ्जयमुपासदत् ॥ 013c
तरन्निव जले श्रान्तो यथा स्थलमुपेयिवान् । 014a
तं दृष्ट्वा पुरुषव्याघ्रं युयुधानः समाश्वसत् ॥ 014c
तमायान्तमभिप्रेक्ष्य केशवः पार्थमब्रवीत् । 015a
असावायाति शैनेयस्तव पार्थ पदानुगः ॥ 015c
एष शिष्यः सखा चैव तव सत्यपराक्रमः । 016a
सर्वान्योधांस्तृणीकृत्य विजिग्ये पुरुषर्षभः ॥ 016c
एष कौरवयोधानां कृत्वा घोरमुपद्रवम् । 017a
तव प्राणैः प्रियतमः किरीटिन्नेति सात्यकिः ॥ 017c
एष द्रोणं तथा भोजं कृतवर्माणमेव च । 018a
कदर्थीकृत्य विशिखैः फल्गुनाभ्येति सात्यकिः ॥ 018c
धर्मराजप्रियान्वेषी हत्वा योधान्वरान्वरान् । 019a
शूरश्चैव कृतास्त्रश्च फल्गुनाभ्येति सात्यकिः ॥ 019c
कृत्वा सुदुष्करं कर्म सैन्यमध्ये महाबलः । 020a
तव दर्शनमन्विच्छन्पाण्डवाभ्येति सात्यकिः ॥ 020c
बहूनेकरथेनाजौ योधयित्वा महारथान् । 021a
आचार्यप्रमुखान्पार्थ प्रयात्येष स सात्यकिः ॥ 021c
स्वबाहुबलमाश्रित्य विदार्य च वरूथिनीम् । 022a
प्रेषितो धर्मराजेन पार्थैषोऽभ्येति सात्यकिः ॥ 022c
प्रियः शिष्यश्च ते पार्थ त्वया तुल्यपराक्रमः । 023a
विद्राव्य महतीं सेनामेष ह्यायाति सात्यकिः ॥ 023c
यस्य नास्ति समो योधः कौरवेषु कथञ्चन । 024a
सोऽयमायाति कौन्तेय सात्यकिर्युद्धदुर्मदः ॥ 024c
कुरुसैन्याद्विमुक्तो वै सिंहो मध्याद्गवामिव । 025a
निहत्य बहुलाः सेनाः पार्थैषोऽभ्येति सात्यकिः ॥ 025c
एष राजसहस्राणां वक्त्रैः पङ्कजसन्निभैः । 026a
आस्तीर्य वसुधां पार्थ क्षिप्रमायाति सात्यकिः ॥ 026c
एष दुर्योधनं जित्वा भ्रातृभिः सहितं रणे । 027a
निहत्य जलसन्धं च क्षिप्रमायाति सात्यकिः ॥ 027c
रुधिरौघवतीं कृत्वा नदीं शोणितकर्दमाम् । 028a
तृणवद्व्यस्य कौरव्यानेष ह्यायाति सात्यकिः ॥ 028c
सञ्जय उवाच 029
ततः प्रहृष्टः कौन्तेयः केशवं वाक्यमब्रवीत् । 029a
न मे प्रियं महाबाहो यन्मामभ्येति सात्यकिः ॥ 029c
न हि जानामि वृत्तान्तं धर्मराजस्य केशव । 030a
सात्वतेन विहीनः स यदि जीवति वा न वा ॥ 030c
एतेन हि महाबाहो रक्षितव्यः स पार्थिवः । 031a
तमेष कथमुत्सृज्य मम कृष्ण पदानुगः ॥ 031c
राजा द्रोणाय चोत्सृष्टः सैन्धवश्चानिपातितः । 032a
प्रत्युद्याति च शैनेयमेष भूरिश्रवा रणे ॥ 032c
सोऽयं गुरुतरो भारः सैन्धवार्थे समाहितः । 033a
ज्ञातव्यश्च हि मे राजा रक्षितव्यश्च सात्यकिः ॥ 033c
जयद्रथश्च हन्तव्यो लम्बते च दिवाकरः । 034a
श्रान्तश्चैष महाबाहुरल्पप्राणश्च साम्प्रतम् ॥ 034c
परिश्रान्ता हयाश्चास्य हययन्ता च माधव । 035a
न च भूरिश्रवाः श्रान्तः ससहायश्च केशव ॥ 035c
अपीदानीं भवेदस्य क्षेममस्मिन्समागमे । 036a
कच्चिन्न सागरं तीर्त्वा सात्यकिः सत्यविक्रमः । 036c
गोष्पदं प्राप्य सीदेत महौजाः शिनिपुङ्गवः ॥ 036e
अपि कौरवमुख्येन कृतास्त्रेण महात्मना । 037a
समेत्य भूरिश्रवसा स्वस्तिमान्सात्यकिर्भवेत् ॥ 037c
व्यतिक्रममिमं मन्ये धर्मराजस्य केशव । 038a
आचार्याद्भयमुत्सृज्य यः प्रैषयत सात्यकिम् ॥ 038c
ग्रहणं धर्मराजस्य खगः श्येन इवामिषम् । 039a
नित्यमाशंसते द्रोणः कच्चित्स्यात्कुशली नृपः ॥ ॥ 039c
इति श्रीमन्महाभारते द्रोणपर्वणि जयद्रथवधपर्वणि चतुर्दशदिवसयुद्धे एकचत्वारिंशदधिकशततमोऽध्यायः ॥ 141 ॥
5-141-1 तुरणीयेषु कृत्येषु ॥ 5-141-141 एकचत्वारिंशदधिकशततमोऽध्यायः ॥