श्रीः अध्यायः 140 सात्यकिना अलम्बुसदधः ॥ 1 ॥ धृतराष्ट्र उवाच 001
'दातव्यमद्य मन्येऽहं पाण्डवानां स्वकं पुनः । 001a
न विग्रहो हि बलिना श्रेयसे स्याद्यथातथा ॥ 001c
पादयोः प्रणतेनापि भुक्त्वाऽप्युच्छिष्टमप्यरेः । 002a
अतोऽन्यद्वापि कृत्वैव जीव्यं लोके नरेण वै ॥ 002c
जीवतैव परो लोकः साध्यते चैव सर्वथा । 003a
अजीवतस्तथैवासीन्न सुखं न परा गतिः ॥ 003c
विनाशे सर्वथोत्पन्ने न बालो बुध्यते क्रियाम् । 004a
मिथ्याभिमानदग्धो हि न बुद्ध्येत कृताकृते ॥' 004c
अहन्यहनि मे दीप्तं यशः पतति सञ्जय । 005a
हता मे बहवो योधा मन्ये कालस्य पर्ययम् ॥ 005c
धनञ्जयः सुसङ्क्रद्धः प्रविष्टो मामकं बलम् । 006a
रक्षितं द्रौणिकर्णाभ्यामप्रवेश्यं सुरैरपि ॥ 006c
ताभ्यामूर्जितवीर्याभ्यामाप्यायितपराक्रमः । 007a
सहितः कृष्णभीमाभ्यां शिनीनामृषभेण च ॥ 007c
तदाप्रभृति मां शोको दहत्यग्निरिवाशयम् । 008a
ग्रस्तानिव प्रपश्यामि भूमिपालान्ससैन्धवान् ॥ 008c
अप्रियं सुमहत्कृत्वा सिन्धुराजः किरीटिनः । 009a
'क्रुद्धस्य देवराजस्य शक्रस्येव महाद्युतेः ।' 009c
चक्षुर्विषयमापन्नः कथं जीवितमाप्नुयात् ॥ 009e
अनुमानाच्च पश्यामि नास्ति सञ्जय सैन्धवः । 010a
युद्धं तु तद्यथावृत्तं तन्ममाचक्ष्व तत्त्वतः ॥ 010c
यच्च विक्षोभ्य महतीं सेनामालोक्य चासकृत् । 011a
एकः प्रविष्टः सङ्क्रुद्धो नलिनीमिव कुञ्जरः ॥ 011c
तस्य मे वृष्णिवीरस्य ब्रूहि युद्धं यथातथम् । 012a
धनञ्जयार्थे यत्तस्य कुशलो ह्यसि सञ्जय ॥ 012c
सञ्जय उवाच 013
तथा तु वैकर्तनपीडितं तं भीमं प्रयान्तं पुरुषप्रवीरम् । 013a
समीक्ष्य राजन्नरवीरमध्ये शिनिप्रवीरोऽनुययौ रथेन ॥ 013c
नदन्यथा वज्रधरस्तपान्ते ज्वलन्यथा जलदान्ते च सूर्यः । 014a
निघ्नन्नमित्रान्धनुषा दृढेन स कम्पयंस्तव पुत्रस्य सेनाम् ॥ 014c
तं यान्तमश्वै रजतप्रकाशैरायोधने वीरतरं नदन्तम् । 015a
नाशक्नुवन्वारयितुं त्वदीयाः सर्वे रथा भारत माधवाग्र्यम् ॥ 015c
अमर्षपूर्णस्त्वनिवृत्तयोधी शरासनी काञ्चनवर्मधारी । 016a
अलम्बुसः सात्यकिं माधवाग्र्यमवारयद्राजवरोऽभिपत्य ॥ 016c
तयोरभूद्भारत सम्प्रहारो यथाविधो नैव बभूव कश्चित् । 017a
प्रेक्षन्त एवाहवशोभिनौ तौ योधास्त्वदीयाश्च परे च सर्वे ॥ 017c
आविध्यदेनं दशभिः पृषत्कैरलम्बुसो राजवरः प्रसह्य । 018a
अनागतानेव तु तान्पृषत्कांश्चिच्छेद बाणैः शिनिपुङ्गवोऽपि ॥ 018c
पुनः स बाणैस्त्रिभिरग्निकल्पैराकर्णपूर्णैर्निशितैः सपुङ्खैः । 019a
विव्याध देहावरणं विदार्य ते सात्यकेराविविशुः शरीरम् ॥ 019c
तैः कायमस्याग्न्यनिलप्रभावैर्विदार्य बाणैर्निशितैर्ज्वलद्भिः । 020a
आजघ्निवांस्तान्रजतप्रकाशानश्वांश्चतुर्भिश्चतुरः प्रसह्य ॥ 020c
तथा तु तेनाभिहतस्तरस्वी नप्ता शिनेश्चक्रधरप्रभावः । 021a
अलम्बुसस्योत्तमवेगवद्भिरश्वांश्चतुर्भिर्निजघान बाणैः ॥ 021c
अथास्य सूतस्य शिरो निकृत्य भल्लेन कालानलसन्निभेन । 022a
सकुण्डलं पूर्णशशिप्रकाशं भ्राजिष्णु वक्त्रं निचकर्त देहात् ॥ 022c
निहत्य तं पार्थिवपुत्रपौत्रं सङ्ख्ये यदूनामृषभः प्रमाथी । 023a
ततोऽन्वयादर्जुनमेव वीरः सैन्यानि राजंस्तव सन्निवार्य ॥ 023c
अन्वागतं वृष्णिवीरं समीक्ष्य तथारिमध्ये परिवर्तमानम् । 024a
घ्नन्तं कुरूणामिषुभिर्बलानि पुनःपुनर्वायुमिवाभ्रपूगान् ॥ 024c
ततोऽवहन्सैन्धवाः साधुदान्ता गोक्षीरकुन्देन्दुहिमप्रकाशाः । 025a
सुवर्णजालावतताः सदश्वा यतोयतः कामयते नृसिंहः ॥ 025c
अथात्मजास्ते सहिताऽभिपेतुरन्ये च योधास्त्वरितास्त्वदीयाः । 026a
कृत्वा मुखं भारतयोधमुख्यं दुःशासनं त्वत्सुतमाजमीढ ॥ 026c
ते सर्वतः सम्परिवार्य सङ्ख्ये शैनेयमाजघ्नुरनीकसाहाः । 027a
स चापि तान्प्रवरः सात्वतानां न्यवारयद्बाणजालेन वीरः ॥ 027c
निवार्य तांस्तूर्णममित्रघाती नप्ता शिनेः पत्रिभिरग्निकल्पैः । 028a
दुःशासनस्याभिजघान वाहाञ्जवीयसस्तन्मनसोऽपि बाणैः ॥ 028c
ततोऽर्जुनो हर्षमवाप सङ्ख्ये कृष्णश्च दृष्ट्वा पुरुषप्रवीरम् ॥ ॥ 029ac

इति श्रीमन्महाभारते द्रोणपर्वणि जयद्रथवधपर्वणि चतुर्दशदिवसयुद्धे चत्वारिंशदधिकशततमोऽध्यायः ॥ 140 ॥

5-140-17 प्रेक्षन्तः प्रेक्षकाः । बभूवेत्येतत् बहुवचनतया परिणतमनुषज्यते ॥ 5-140-18 प्रसह्य अनादृत्य ॥ 5-140-140 चत्वारिंशदधिकशततमोऽध्यायः ॥