श्रीः
अध्यायः 139
भीमकर्णयुद्धवर्णनम् ॥ 1 ॥
सञ्जय उवाच 001
ततः कर्णो महाराज भीमं विद्ध्वा त्रिभिः शरैः । 001a
'पुनश्च षड्भिस्तीक्ष्णाग्रैरविध्यत्कङ्कपत्रिभिः ।' 001c
मुमोच शरवर्षाणि विचित्राणि बहूनि च ॥ 001e
वध्यमानो महाबाहुः सूतपुत्रेण पाण्डवः । 002a
न विव्यथे भीमसेनो भिद्यमान इवाचलः ॥ 002c
स कर्णं कर्णिना कर्णे पीतेन निशितेन च । 003a
विव्याध सुभृशं सङ्ख्ये तैलधौतेन मारिष ॥ 003c
स कुण्डलं महच्चारु कर्णस्यापातयद्भुवि । 004a
तपनीयं महाराज दीप्तं ज्योतिरिवाम्बरात् ॥ 004c
अथापरेण भल्लेन सूतपुत्रं स्तनान्तरे । 005a
आजघान भृशं क्रुद्धो हसन्निव वृकोदरः ॥ 005c
पुनरस्य त्वरन्भीमो नाराचान्दश भारत । 006a
रणे प्रैषीन्महाबाहुर्निर्मुक्ताशीविषोपमान् ॥ 006c
ते ललाटं विनिर्भिद्य सूतपुत्रस्य भारत । 007a
विविशुश्चोदितास्तेन वल्मीकमिव पन्नगाः ॥ 007c
ललाटस्थैस्ततो बाणैः सूतपुत्रो व्यरोचत । 008a
नीलोत्पलमयीं मालां धारयन्वै यथा पुरा ॥ 008c
सोऽतिविद्धो भृशं कर्णः पाण्डवेन तरस्विना । 009a
रथकूबरमालम्ब्य न्यमीलयत लोचने ॥ 009c
स मुहूर्तात्पुनः सञ्ज्ञां लेभे कर्णः परन्तपः । 010a
रुधिरोक्षितसर्वाङ्गः क्रोधमाहारयत्परम् ॥ 010c
ततः क्रुद्धो रणे कर्णः पीडितो दृढधन्वना । 011a
वेगं चक्रे महावेगो भीमसेनरथं प्रति ॥ 011c
तस्मै कर्णः शतं राजन्निषूणां गार्ध्रवाससाम् । 012a
अमर्षी बलवान्क्रुद्धः प्रेषयामास भारत ॥ 012c
ततः प्रासृजदुग्राणि शरवर्षाणि पाण्डवः । 013a
समरे तमनादृत्य तस्य वीर्यमचिन्तयन् ॥ 013c
कर्णस्ततो महाराज पाण्डवं नवभिः शरैः । 014a
आजघानोरसि क्रुद्धः क्रुद्धरूपं परन्तप ॥ 014c
तावुभौ नरशार्दूलौ शार्दूलाविव दंष्ट्रिणौ । 015a
'शरदंष्ट्रौ समासाद्य ततक्षतुररिन्दमौ ।' 015c
जिमूताविव चान्योन्यं प्रववर्षतुराहवे ॥ 015e
तलशब्दरवैश्चैव त्रासयेतां परस्परम् । 016a
शरजालैश्च विविधैस्त्रासयामासतुर्मृधे ॥ 016c
अन्योन्यं समरे क्रुद्धौ कृतप्रतिकृतैषिणौ । 017a
ततो भीमो महाबाहुः सूतपुत्रस्य भारत ॥ 017c
क्षुरप्रेण धनुश्छित्त्वा ननाद परवीरहा । 018a
तदपास्य धनुश्छिन्नं सूतपुत्रो महारथः ॥ 018c
अन्यत्कार्मुकमादत्त भारघ्नं वेगवत्तरम् । 019a
तदप्यथ निमेषार्धाच्चिच्छेदास्य वृकोदरः ॥ 019c
तृतीयं च चतुर्थं च पञ्चमं षष्ठमेव हि । 020a
सप्तमं चाष्टमं चैव नवमं दशमं तथा ॥ 020c
एकादशं द्वादशं च त्रयोदशमथापि च । 021a
चतुर्दशं पञ्चदशं षोडशं च वृकोदरः ॥ 021c
तथा सप्तदशं वेगादष्टादशमथापि वा । 022a
बहूनि भीमश्चिच्छेद कर्णस्यैवं धनूंषि हि । 022c
निमेषार्धात्ततः कर्णो धनुर्हस्तो व्यतिष्ठत ॥ 022e
दृष्ट्वा स कुरुसौवीरसिन्धुवीरबलक्षयम् । 023a
स वर्मध्वजशस्त्रैश्च पतितैः संवृतां महीम् ॥ 023c
'रथैर्विमथितैर्भल्लैरश्वैश्चान्यैः प्रवल्गितैः । 024a
भ्रष्टश्रीकैर्नरवरैः पांसुकुण्ठितमूर्धजैः ॥' 024c
हस्त्यश्वरथदेहांश्च गतासून्प्रेक्ष्य सर्वशः । 025a
सूतपुत्रस्य संरम्भाद्दीप्तं वपुरजायत ॥ 025c
स विष्फार्य महच्चापं कार्तस्वरविभूषितम् । 026a
भीमं प्रैक्षत राधेयो घोरं घोरेण चक्षुषा ॥ 026c
ततः क्रुद्धः शरानस्यन्सूतपुत्रो व्यरोचत । 027a
मध्यन्दिनगतोऽर्चिष्माञ्शरदीव दिवाकरः ॥ 027c
मरीचिविकचस्येव राजन्भानुमतो वपुः । 028a
आसीदाधिरथेर्घोरं वपुः शरशताचितम् ॥ 028c
कराभ्यामाददानस्य सन्दधानस्य चाशुगान् । 029a
कर्षतो मुञ्चतो बाणान्नान्तरं ददृशे रणे ॥ 029c
अग्निचक्रोपमं घोरं मण्डलीकृतमायुधम् । 030a
कर्णस्यासीन्महीपाल सव्यं दक्षिणमस्यतः ॥ 030c
स्वर्णपुङ्खाः सुनिशिताः कर्मचापच्युताः शराः । 031a
प्राच्छादयन्महाराज दिशः सूर्य इवांशुभिः ॥ 031c
ततः कनकपुङ्खानां शराणां नतपर्वणाम् । 032a
धनुश्च्युतानां वियति ददृशे बहुधा व्रजः ॥ 032c
बाणासनादाधिरथेः प्रभवन्ति स्म सायकाः । 033a
श्रेणीकृता व्यरोचन्त राजन्क्रौञ्चा इवाम्बरे ॥ 033c
गार्ध्रपत्राञ्शिलाधौतान्कार्तस्वरविभूषितान् । 034a
महावेगान्प्रदीप्ताग्रान्मुमोचाधिरथिः शरान् ॥ 034c
ते तु चापबलोद्धूताः शातकुम्भविभूषिताः । 035a
अजस्रमपतन्बाणा भीमसेनरथं प्रति ॥ 035c
ते व्योम्नि रुक्मविकृता व्यकाशन्त सहस्रशः । 036a
शलभानामिव व्राताः शराः कर्णसमीरिताः ॥ 036c
चापादाधिरथेर्मुक्ताः प्रपतन्तश्चकाशिरे । 037a
एको दीर्घ इवात्यर्थमाकाशे संस्थितः शरः ॥ 037c
पर्वतं वारिधाराभिच्छादयन्निव तोयदः । 038a
कर्णः प्राच्छादयत्क्रुद्धो भीमं सायकवृष्टिभिः ॥ 038c
तत्र भारत भीमस्य बलं वीर्यं पराक्रमम् । 039a
व्यवसायं च पुत्रास्ते ददृशुः सहसैनिकाः ॥ 039c
तां समुद्रमिवोद्धूतां शरवृष्टिं समुत्थिताम् । 040a
अचिन्तयित्वा भीमस्तु क्रुद्धः कर्णमुपाद्रवत् ॥ 040c
रुक्मपृष्ठं महच्चापं भीमस्यासीद्विशाम्पते । 041a
आकर्षान्मण्डलीभूतं शक्रचापमिवापरम् । 041c
तस्माच्छराः प्रादुरासन्पूरयन्त इवाम्बरम् ॥ 041e
सुवर्णपुङ्खैर्भीमेन सायकैर्नतपर्वभिः । 042a
गगने रचिता माला काञ्चनीव व्यरोचत ॥ 042c
ततो व्योम्नि विषक्तानि शरजालानि भागशः । 043a
आहतानि व्यशीर्यन्त भीमसेनस्य पत्रिभिः ॥ 043c
कर्णस्य शरजालौघैर्भीमसेनस्य चोभयोः । 044a
अग्निस्फुलिङ्गसंस्पर्शैरञ्जोगतिभिराहवे । 044c
तैस्तैः कनकपुङ्खानां द्यौरासीत्संवृता व्रजैः ॥ 044e
न स्म सूर्यस्तदा भाति न स्म वाति समीरणः । 045a
शरजालावृते व्योम्नि न प्राज्ञायत किञ्चन ॥ 045c
स भीमं छादयन्बाणैः सूतपुत्रः पृथग्विधैः । 046a
उपारोहदनादृत्य तस्य वीर्यं महात्मनः ॥ 046c
तयोर्विसृजतोस्तत्र शरजालानि मारिष । 047a
वायुभूतान्यदृश्यन्त संसक्तानीतरेतरम् ॥ 047c
अन्योन्यशरसंसम्पर्शात्तयोर्मनुजसिंहयोः । 048a
आकाशे भरतश्रेष्ठ पावकः समजायत ॥ 048c
तथा कर्णः शितान्बाणान्कर्मारपरिमार्जितान् । 049a
सुवर्णविकृतान्क्रुद्धः प्राहिणोद्वधकाङ्क्षया ॥ 049c
तानन्तरिक्षे विशिखैस्त्रिधैकैकमशातयत् । 050a
विशेषयन्सूतपुत्रं भीमस्तिष्ठेति चाब्रवीत् ॥ 050c
पुनश्चासृजदुग्राणि शरवर्षाणि पाण्डवः । 051a
अमर्षी बलवान्क्रुद्धो दिधक्षन्निव पावकः ॥ 051c
ततश्चटचटाशब्दो गोधाघातादभूत्तयोः ॥ 052ac
तलशब्दश्च सुमहान्सिंहनादश्च भैरवः । 053a
रथनेमिनिनादश्च ज्याशब्दश्चैव दारुणः ॥ 053c
योधा व्युपारमन्युद्धाद्दिदृक्षन्तः पराक्रमम् । 054a
कर्णपाण्डवयो राजन्परस्परवधैषिणोः ॥ 054c
देवर्षिसिद्धगन्धर्वाः साधुसाध्वित्यपूजयन् । 055a
मुमुचुः पुष्पवर्षं च विद्याधरगणास्तथा ॥ 055c
ततो भीमो महाबाहुः संरम्भी दृढविक्रमः । 056a
अस्त्रैरस्त्राणि संवार्य शरैर्विव्याध सूतजम् ॥ 056c
कर्णोऽपि भीमसेनस्य निवार्येषून्महाबलः । 057a
प्राहिणोन्नव नाराचानाशीविषसमान्रणे ॥ 057c
तावद्भिरथ तान्भीमो व्योम्नि चिच्छेद पत्रिभिः । 058a
नाराचान्सूतपुत्रस्य तिष्ठतिष्ठेति चाब्रवीत् ॥ 058c
ततो भीमो महाबाहुः शरं क्रुद्धान्तकोपमम् । 059a
मुमोचाधिरथेर्वीरो यमदण्डमिवापरम् ॥ 059c
तमापतन्तं चिच्छेद राधेयः प्रहसन्निव । 060a
त्रिभिः शरैः शरं राजन्पाण्डवस्य प्रतापवान् ॥ 060c
पुनश्चासृजदुग्राणि शरवर्षाणि पाण्डवः । 061a
तस्य तान्याददे कर्णः सर्वाण्यस्त्राण्यभीतवत् । 061c
युध्यमानस्य भीमस्य सूतपुत्रोऽस्त्रमायया ॥ 061e
तस्येषुधी धनुर्ज्यां च बाणैः सन्नतपर्वभिः । 062a
रश्मीन्योक्त्राणि चाश्वानां क्रुद्धः कर्णोऽच्छिनन्मृधे || 062c
तस्याश्वांश्च पुनर्हत्वा सूतं विव्याध पञ्चभिः । 063a
सोपसृत्य द्रुतं सूतो युधामन्यो रथं ययौ ॥ 063c
विहसन्निव भीमस्य क्रुद्धः कालानलद्युतिः । 064a
ध्वजं चिच्छेद राधेयः पताकां च व्यपातयत् ॥ 064c
स विधन्वा महाबाहुरथ शक्तिं परामृशत् । 065a
तां व्यवासृजदाविध्य क्रुद्धः कर्णरथं प्रति ॥ 065c
तामाधिरथिरायस्तः शक्तिं काञ्चनभूषणाम् । 066a
आपतन्तीं महोल्काभां चिच्छेद दशभिः शरैः ॥ 066c
साऽपतद्दशधा छिन्ना कर्णस्य निशितैः शरैः । 067a
अस्यतः सूतपुत्रस्य मित्रार्थे चित्रयोधिनः ॥ 067c
स चर्मादत्त कौन्तेयो जातरूपपरिष्कृतम् । 068a
खड्गं चान्यतरप्रेप्सुर्जयं मरणमेव वा ॥ 068c
तदस्य तरसा क्रुद्धो व्यधमच्चर्म सुप्रभम् । 069a
शरैर्बहुभिरत्युग्रैः प्रहसन्निव भारत ॥ 069c
स विचर्मा महाराज विरथः क्रोधमूर्च्छितः । 070a
असिं प्रासृजदाविध्य त्वरन्कर्णरथं प्रति ॥ 070c
स धनुः सूतपुत्रस्य सज्यं छित्त्वा महानसिः । 071a
पपात भुवि राजेन्द्र क्रुद्धः सर्प इवाम्बरात् ॥ 071c
ततः प्रहस्याधिरथिरन्यदादाय कार्मुकम् । 072a
शत्रुघ्नं समरे क्रुद्धो दृढज्यं वेगवत्तरम् ॥ 072c
व्यायच्छत्स शरान्कर्णः कुन्तीपुत्रजिघांसया । 073a
सहस्रशो महाराज रुक्मपुङ्खान्सुतेजनान् ॥ 073c
स वध्यमानो बलवान्कर्णचापच्युतैः शरैः । 074a
वैहायसं प्राक्रमद्वै कर्णस्य रथमाविशत् ॥ 074c
स तस्य चरितं दृष्ट्वा सङ्ग्रामे विजयैषिणः । 075a
ध्वजालयस्थो राधेयो भीमसेनमवञ्चयत् ॥ 075c
तमदृष्ट्वा रथोपस्थे निलीनं व्यथितेन्द्रियम् । 076a
ध्वजमस्य समारुह्य तस्मै भीमो महीतले ॥ 076c
तदस्य कुरवः सर्वे चारणाश्चाभ्यपूजयन् । 077a
यदि येष रथात्कर्णं हर्तुं तार्क्ष्य इवोरगम् ॥ 077c
स च्छिन्नधन्वा विरथः स्वधर्ममनुपालयन् । 078a
स्वरथं पृष्ठतः कृत्वा युद्धायैव व्यवस्थितः ॥ 078c
तद्विचिन्त्य स राधेयस्तत एनं समभ्ययात् । 079a
संरम्भात्पाण्डवं सङ्ख्ये युद्धाय समुपस्थितम् ॥ 079c
तौ समेतौ महाराज स्पर्धमानौ महाबलौ । 080a
जीमूताविव घर्मान्ते गर्जमानौ नरर्षभौ ॥ 080c
तयोरासीत्सम्प्रहारः क्रुद्धयोर्नरसिंहयोः । 081a
अमृष्यमाणयोः सङ्ख्ये देवदानवयोरिव ॥ 081c
क्षीणशस्त्रस्तु कौन्तेयः कर्णेन समभिद्रुतः । 082a
दृष्ट्वाऽर्जुनहतान्नागान्पतितान्पर्वतोपमान् । 082c
रथमार्गविघातार्थं व्यायुधः प्रविवेश ह ॥ 082e
हस्तिनां व्रजमासाद्य रथदुर्गं प्रविश्य च । 083a
पाण्डवो जीविताकाङ्क्षी राधेयं नाभ्यवर्तत ॥ 083c
व्यवस्थानमथाकाङ्क्षन्धनञ्जयशरैर्हतम् । 084a
उद्यम्य कुञ्जरं पार्थस्तस्थौ परपुरञ्जयः ॥ 084c
महौषधिसमायुक्तं हनूमानिव पर्वतम् । 085a
तमस्य विशिखैः कर्णो व्यधमत्कुञ्जरं पुनः ॥ 085c
हस्त्यङ्गान्यथ कर्णाय प्राहिणोत्पाण्डुनन्दनः । 086a
चक्राण्यश्वांस्तथा चान्यद्यद्यत्पश्यति भूतले ॥ 086c
तत्तदादाय चिक्षेप क्रुद्धः कर्णाय पाण्डवः । 087a
तदस्य सर्वं चिच्छेद क्षिप्तङ्क्षिप्तं शितैः शरैः ॥ 087c
भीमोऽपि मुष्टिमुद्यम्य वज्रगर्भं सुदारुणम् । 088a
हन्तुमैच्छत्सूतपुत्रं संस्मरन्नर्जुनं क्षणात् ॥ 088c
शक्तोऽपि नावधीत्कर्णं समर्थः पाण्डुनन्दनः । 089a
रक्षमाणः प्रतिज्ञां तां या कृता सव्यसाचिना ॥ 089c
तमेवं व्याकुलं भीमं भूयोभूयः शितैः शरैः । 090a
मूर्च्छयाभिपरीताङ्गमकरोत्सूतनन्दनः ॥ 090c
व्यायुधं नावधीच्चैनं कर्णः कुन्त्या वचः स्मरन् । 091a
धनुषोग्रेण तं कर्णः सोऽभिद्रुत्य परामृशत् ॥ 091c
धनुषा स्पृष्टमात्रेण क्रुद्धः सर्प इव श्वसन् । 092a
आच्छिद्य स धनुस्तस्य कर्णं मूर्धन्यताडयत् ॥ 092c
ताडितो भीमसेनेन क्रोधादारक्तलोचनः । 093a
विहसन्निव राधेयो वाक्यमेतदुवाच ह ॥ 093c
पुनः पुनस्तूबरक मूढ औदरिकेति च । 094a
अकृतास्त्रक मा योत्सीर्बाल सङ्ग्रामकातर ॥ 094c
यत्र भोज्यं बहुविधं भक्ष्यं पेयं च पाण्डव । 095a
तत्र त्वं दुर्मते योग्यो न युद्धेषु कदाचन ॥ 095c
मूलपुष्पफलाहारो व्रतेषु नियमेषु च । 096a
उचितस्त्वं वने भीम न त्वं युद्धविशारदः ॥ 096c
क्व युद्वं क्व मुनित्वं च वनं गच्छ वृकोदर । 097a
न त्वं युद्धोचितस्तात वनवासरतिर्भवान् ॥ 097c
सूदान्भृत्यजनान्दासांस्त्वं गृहे त्वरयन्भृशम् । 098a
योग्यस्ताडयितुं क्रोधाद्भोजनार्थं वृकोदर ॥ 098c
मुनिर्भूत्वाऽथवा भीम फलान्यादत्स्व दुर्मते । 099a
वनाय व्रज कौन्तेय न त्वं युद्धविशारदः ॥ 099c
फलमूलाशने शक्तस्त्वं तथाऽतिथिपूजने । 100a
न त्वां शस्त्रसमुद्योगे योग्यं मन्ये वृकोदर ॥ 100c
'सञ्जय उवाच 101
एवं तं विरथं दृष्ट्वा स्मृत्वा कर्णोऽब्रवीद्वचः ॥' 101ac
कौमारे यानि वृत्तानि विप्रियाणि विशाम्पते । 102a
तानि सर्वाणि चाप्येव रूक्षाण्यश्रावयद्भृशम् ॥ 102c
अथैनं तत्र संलीनमस्पृशद्धनुषा पुनः । 103a
प्रहसंश्च पुनर्वाक्यं भीममाह वृषस्तदा ॥ 103c
योद्धव्यं मारिषान्यत्र न योद्धव्यं च मादृशैः । 104a
मादृशैर्युध्यमानानामेतच्चान्यच्च विद्यते ॥ 104c
गच्छ वा यत्र तौ कृष्णौ तौ त्वां रक्षिष्यतो रणे । 105a
गृहं वा गच्छ कौन्तेय किं ते युद्धेन बालक ॥ 105c
सञ्जय उवाच 106
कर्णस्य वचनं श्रुत्वा भीमसेनोऽतिदारुणम् । 106a
उवाच कर्णं प्रहसन्सर्वेषां शृण्वतां वचः ॥ 106c
जितस्त्वमसकृद्दुष्ट कत्थसे किं वृथात्मना । 107a
जयाजयौ महेन्द्रस्य लोके दृष्टौ पुरातनैः ॥ 107c
मल्लयुद्धं मया सार्धं कुरु दुष्कुलसम्भव । 108a
महाबलो महाभोगी कीचको निहतो यथा । 108c
तथा त्वां घातयिष्यामि पश्यत्सु सर्वराजसु ॥ 108e
भीमस्य मतमाज्ञाय कर्णो बुद्धिमतां वरः । 109a
विरराम रणात्तस्मात्पश्यतां सर्वधन्विनाम् ॥ 109c
एवं तं विरथं कृत्वा कर्णो राजन्व्यकत्थयत् । 110a
प्रमुखे वृष्णिसिंहस्य पार्थस्य च महात्मनः ॥ 110c
तं ब्रुवाणं तु भीमः स काङ्क्षन्भीमपराक्रमः । 111a
न चाकार्षीन्मृतं स्मृत्वा ह्यर्जुनस्य महाबलम् ॥ 111c
तस्य कार्मुकमारुज्य बभञ्जाशुपराक्रमी ॥ 112ac
ततो दृष्ट्वा महाराज वासुदेवो महाद्युतिः । 113a
अर्जुनार्जुन पश्येमं भीमं कर्णेन बाधितम् ॥ 113c
सञ्जय उवाच 114
एवमुक्तस्तदा पार्थः केशवेन महात्मना । 114a
भीमसेनं तथाभूतं क्रोधसंरक्तलोचनः । 114c
अमर्षवशमापन्नो निर्दहन्निव चक्षुषा ॥' 114e
ततो राजञ्शिलाधौताञ्शराञ्शाखामृगध्वजः । 115a
प्राहिणोत्सूतपुत्राय केशवेन प्रचोदितः ॥ 115c
ततः पार्थभुजोत्सृष्टाः शराः कनकभूषणाः । 116a
गाण्डीवप्रभवाः कर्णं हंसाः क्रौञ्चमिवाविशन् ॥ 116c
स भुजङ्गैरिवाविष्टैर्गाण्डीवप्रेषितैः शरैः । 117a
भीमसेनादपासेधत्सूतपुत्रं धनञ्जयः ॥ 117c
स च्छिन्नधन्वा भीमेन धनञ्जयशराहतः । 118a
कर्णो भीमादपायासीद्रथेन महता द्रुतम् ॥ 118c
भीमोऽपि सात्यकेर्वाहं समारुह्य नरर्षभः । 119a
अन्वयाद्धातरं सङ्ख्ये पाण्डवं सव्यसाचिनम् ॥ 119c
ततः कर्णं समुद्दिश्य त्वरमाणो धनञ्जयः । 120a
नाराचं क्रोधताम्राक्षः प्रैषीन्मृत्युमिवान्तकः ॥ 120c
स गरुत्मानिवाकशे प्रार्थयन्भुजगोत्तमम् । 121a
नाराचोऽभ्यपतत्कर्णं तूर्णं गाण्डीवचोदितः ॥ 121c
तमन्तरिक्षे नाराचं द्रौणिश्चिच्छेद पत्रिणा । 122a
धनञ्जयभयात्कर्णमुज्जिहीर्षन्महारथः ॥ 122c
ततो द्रौणिं चतुःषष्ट्या विव्याध कुपितोऽर्जुनः । 123a
शिलीमुखैर्महाराज मागास्तिष्ठेति चाब्रवीत् ॥ 123c
स तु मत्तगजाकीर्णमनीकं रथसङ्कुलम् । 124a
तूर्णमभ्याविशद्द्रौणिर्धनञ्जयशरार्दितः ॥ 124c
ततः सुवर्णपृष्ठानां चापानां कूजतां रणे । 125a
शब्दं गाण्डीवघोषेण कौन्तेयोऽभ्यभवद्बली ॥ 125c
धनञ्जयस्तथाऽऽयान्तं पृष्ठतो द्रौणिमभ्यगात् । 126a
नातिदीर्घमिवाध्वानं शरैः सन्त्रासयन्बलम् ॥ 126c
विदार्य देहान्नाराचैर्नरवारणवाजिनाम् । 127a
कङ्कबर्हिणवासोभिर्बलं व्यधमदर्जुनः ॥ 127c
तद्बलं भरतश्रेष्ठ सवाजिद्विपमानवम् । 128a
पाकशासनिरायत्तः पार्थः स निजघान ह ॥ ॥ 128c
इति श्रीमन्महाभारते द्रोणपर्वणि जयद्रथवधपर्वणि चतुर्दशदिवसयुद्धे एकोनचत्वारिंशदधिकशततमोऽध्यायः ॥ 139 ॥
5-139-46 उपारोहत्सन्निकर्षमगात् ॥ 5-139-47 वायुभूतानि वातोद्भूतान्यतिवेगवन्ति वा ॥ 5-139-74 वैहायसमाकाशम् ॥ 5-139-75 लयमङ्गसङ्कोचम् ॥ 5-139-87 तद्रथादिसाधनम् ॥ 5-139-88 वज्रगर्भमन्तर्विहिताङ्गुष्ठम् ॥ 5-139-89 समर्थः समीचीनार्थो धर्मापेक्षीति यावत् ॥ 5-139-94 तूबरकः पुंश्चिह्नरहितः षण्ड इतियावत् । तूबरोऽश्मश्रुपुरुषे इत्युपक्रम्य पुरुषव्यञ्जनत्यक्तो इति मेदिनी । औदरिको बह्वाशी ॥ 5-139-96 व्रतेषु नियमेषु आगन्तुकेषु ॥ 5-139-103 संलीनं सङ्कुचिताङ्गम् ॥ 5-139-110 व्यकत्थयत् भर्त्सितवान् ॥ 5-139-139 एकोनचत्वारिंशदधिकशततमोऽध्यायः ॥