श्रीः
अध्यायः 138
भीमकर्णयोर्युद्धम् || 1 ||
01 धृतराष्ट्र उवाच
महानपनयः सूत ममैवात्र विशेषतः | 01a
स इदानीमनुप्राप्तो मन्ये सञ्जय शोचतः || 01c
यद्गतं तद्गतमिति ममासीन्मनसि स्थितम् | 02a
इदानीमत्र किं कार्यं प्रकरिष्यामि सञ्जय || 02c
यथा ह्येष क्षयो वृत्तो ममापनयसम्भवः | 03a
वीराणां तन्ममाचक्ष्व स्थिरीभूतोऽस्मि सञ्जय || 03c
04 सञ्जय उवाच
कर्णभीमौ महाराज पराक्रान्तौ महाहवे | 04a
बाणवर्षाण्यसृजतां वृष्टिमन्ताविवाम्बुदौ || 04c
भीमनामाङ्किता बाणाः स्वर्णपुङ्खाः शिलाशिताः | 05a
विविशुः कर्णमासाद्य भिन्दन्त इव जीवितम् || 05c
तथैव कर्णनिर्मुक्ताः शरा बर्हिणवाससः | 06a
छादयाञ्चक्रिरे वीरं शतशोऽथ सहस्रशः || 06c
तयोः शरैर्महाराज सम्पतद्भिः समन्ततः | 07a
बभूव तव सैन्यानां सङ्क्षोभः सागरोत्तरः || 07c
भीमचापच्युतैर्बाणैस्तव सैन्यमरिन्दम | 08a
अवध्यत चमूमध्ये घोरैराशीविषोपमैः || 08c
वारणैः पतितै राजन्वाजिभिश्च नरैः सह | 09a
अदृश्यत मही कीर्णा वातभग्नैरिव द्रुमैः || 09c
ते वध्यमानाः समरे भीमचापच्युतैः शरैः | 010a
प्राद्रवंस्तावका योधाः किमेतदिति चाब्रुवन् || 010c
ततो व्युदस्तं तत्सैन्यं सिन्धुसौवीरकौरवम् | 011a
प्रोत्सारितं महावेगैः कर्णपाण्डवयोः शरैः || 011c
ते शूरा हतभूयिष्ठा हताश्वरथवारणाः | 012a
उत्सृज्य भीमकर्णौ च सर्वतो व्यद्रवन्दिशः || 012c
नूनं पार्थार्थमेवास्मान्मोहयन्ति दिवौकसः | 013a
यत्कर्णभीमप्रभवैर्वध्यते नो बलं शरैः || 013c
एवं ब्रुवाणा योधास्ते तावका भयपीडिताः | 014a
शरपातं समुत्सृज्य स्थिता युद्धदिदृक्षवः || 014c
ततः प्रावर्तत नदी घोररूपा रणाजिरे | 015a
शूराणां हर्षजननी भीरूणां भयवर्धिनी || 015c
वारणाश्वमनुष्याणां रुधिरौघसमुद्भवा | 016a
संवृता गतसत्त्वैश्च मनुष्यगजवाजिभिः || 016c
सानुकर्षपताकैश्च द्विपाश्वरथभूषणैः | 017a
स्यन्दनैरपविद्धैश्च भग्नचक्राक्षकूबरैः || 017c
जातरूपपरिष्कारैर्धनुर्भिः सुमहास्वनैः | 018a
सुवर्णपुङ्खैरिषुभिर्नाराचैश्च सहस्रशः || 018c
कर्णपाण्डवनिर्मुक्तैर्निर्मुक्तैरिव पन्नगैः | 019a
प्रासतोमरसङ्घातैः खड्गैश्च सपरश्वथैः || 019c
सुवर्णविकृतैश्चापि गदामुसलपट्टसैः | 020a
वज्रैश्च विविधाकारैः शक्तिभिः परिघैरपि || 020c
शतघ्नीभिश्च चित्राभिर्बभौ भारत मेदिनी | 021a
कनकाङ्गदहारैश्च कुण्डलैर्मुकुटैस्तथा || 021c
वलयैरपविद्धैश्च तत्रैवाङ्गुलिवेष्टकैः | 022a
चूडामणिभिरुष्णीषैः स्वर्णसूत्रैश्च मारिष || 022c
तनुत्रैः सतलत्रैश्च हारैर्निष्कैश्च भारत | 023a
वस्त्रैश्छत्रैश्च विध्वस्तैश्चामरव्यजनैरपि || 023c
गजाश्वमनुजैर्भिन्नैः शोणिताक्तैश्च पत्रिभिः | 024a
तैस्तैश्च विविधैर्भिन्नैस्तत्रतत्र वसुन्धरा || 024c
पतितैरपविद्धैश्च विबभौ द्यौरिव ग्रहैः | 025a
अचिन्त्यमद्भुतं चैव तयोः कर्मातिमानुषम् || 025c
दृष्ट्वा चारणसिद्धानां विस्मयः समजायत | 026a
अग्नेर्वायुसहायस्य गतिः कक्ष इवाहवे || 026c
आसीद्भीमसहायस्य रौद्रमाधिरथेर्गतम् | 027a
निपातितध्वजरथं हतवाजिनरद्विपम् || 027c
गजाभ्यां सम्प्रयुक्ताभ्यामासीन्नलवनं यथा | 028a
तथाभूतं महत्सैन्यमासीत्तव नराधिप || 028c
विमर्दः कर्णभीमाभ्यामासीच्च परमो रणे || 029ac
इति श्रीमन्महाभारते द्रोणपर्वणि जयद्रथवधपर्वणि चतुर्दशदिवसयुद्धे अष्टत्रिंशदधिकशततमोऽध्यायः ॥ 138 ॥
07-05-138-7 सागरोत्तरः महत्तरः || 07-05-138-11 शरैर्व्युदस्तमाक्षिप्तम् | प्रोत्सारितं दूरमपसारितम् || अष्टत्रिंशदधिकशततमोऽध्यायः ॥