श्रीः अध्यायः 137 भीमेन कर्णसहकारीणां विकर्णादीनां वधः || 1 || 001 सञ्जय उवाच भीमसेनस्य राधेयः श्रुत्वा ज्यातलनिस्वनम् | 001a
नामृष्यत यथा मत्तो गजः प्रतिगजस्वनम् || 001c
सोपक्रम्य मुहूर्तं तु भीमसेनस्य गोचरात् | 002a
पुत्रांस्तव ददर्शाथ भीमसेनेन पातितान् || 002c
तानवेक्ष्य नरश्रेष्ठ विमना दुःखितस्तदा | 003a
निःश्वसन्दीर्घमुष्णं च कर्णः पाण्डवमभ्ययात् || 003c
स ताम्रनयनः क्रोधाच्छ्वसन्निव महोरगः | 004a
बभौ कर्णः शरानस्यन्रश्मिवानिव भास्करः || 004c
किरणैरिव सूर्यस्य महीध्रो भरतर्षभ | 005a
कर्णचापच्युतैर्बाणैः प्राच्छाद्यत वृकोदरः || 005c
ते कर्णचापप्रभावाः शरा बर्हिणवाससः | 006a
विविशुः सर्वतः पार्थं वासायेवाण्डजा द्रुमम् || 006c
कर्णचापच्युता बाणाः सम्पतन्तस्ततस्ततः | 007a
रुक्मपुङ्खा व्यराजन्त हंसाः श्रेणीकृता इव || 007c
चापध्वजोपस्करेभ्यश्छत्रादीषामुखाद्युगात् | 008a
प्रभवन्तो व्यदृश्यन्त राजन्नाधिरथेः शराः || 008c
खं पूरयन्महावेगान्खगमान्गृध्रवाससः | 009a
सुवर्णविकृतांश्चित्रान्मुमोचाधिरथिः शरान् || 009c
तमन्तकमिवायस्तमापतन्तं वृकोदरः | 010a
त्यक्त्वा प्राणानतिक्रम्य विव्याध निशितैः शरैः || 010c
तस्य वेगमसह्यं स दृष्ट्वा कर्णस्य पाण्डवः | 011a
महतश्च शरौघांस्तान्न्यवारयत वीर्यवान् || 011c
ततो विधम्याधिरथेः शरजालानि पाण्डवः | 012a
विव्याध कर्णं विंशत्या पुनरन्यैः शिलाशितैः || 012c
यथैव हि स कर्णेन पार्थः प्रच्छादितः शरैः | 013a
तथैव स रणे कर्णं छादयामास पाण्डवः || 013c
दृष्ट्वा तु भीमसेनस्य विक्रमं युधि भारत | 014a
अभ्यनन्दंस्त्वदीयाश्च सम्प्रहृष्टाश्च चारणाः || 014c
भूरिश्रवाः कृपो द्रौणिर्मद्रराजो जयद्रथः | 015a
उत्तमौजा युधामन्युः सात्यकिः केशवार्जुनौ || 015c
कुरुपाण्डवपक्षस्था दश राजन्महारथाः | 016a
साधुसाध्विति वेगेन सिंहनादमथानदन् || 016c
तस्मिन्समुत्थिते शब्दे तुमुले लोमहर्षणे | 017a
अभ्यभाषत पुत्रस्ते राजन्दुर्योधनस्त्वरन् || 017c
राज्ञः सराजपुत्रांश्च सोदर्यांश्च विशेषतः | 018a
कर्णं गच्छत भद्रं वः परीप्सन्तो वृकोदरात् || 018c
पुरा निघ्नन्ति राधेयं भीमचापच्युताः शराः | 019a
ते यतध्वं महेष्वासाः सूतपुत्रस्य रक्षणे || 019c
सञ्जय उवाच 020
दुर्योधनसमादिष्टाः सोदर्याः सप्त मारिष | 020a
भीमसेनमभिद्रुत्य संरब्धाः पर्यवारयन् || 020c
ते समासाद्य कौन्तेयमावृण्वञ्शरवृष्टिभिः | 021a
पर्वतं वारिधाराभिः प्रावृषीव बलाहकाः || 021c
तेऽपीडयन्भीमसेनं क्रुद्धाः सप्त महारथाः | 022a
प्रजासंहरणे राजन्सोमं सप्त ग्रहा इव || 022c
ततो वेगेन कौन्तेयः पीडयित्वा शरासनम् | 023a
मुष्टिना पाण्डवो राजन्दृढेन सुपरिष्कृतम् || 023c
अमानुषं कर्म कृत्वा सप्त सन्धाय सायकान् | 024a
तेभ्यो व्यसृजदायस्तः सूर्यरश्मिनिभान्प्रभुः || 024c
निरस्यन्निव देहेभ्यस्तनयानामसूंस्तव | 025a
भीमसेनो महाराज पूर्ववैरमनुस्मरन् || 025c
ते क्षिप्ता भीमसेनेन शरा भारत भारतान् | 026a
विदार्य खं समुत्पेतुः स्वर्णपुङ्खाः शिलाशिताः || 026c
तेषां विदार्य देहांस्ते शरा हेमविभूषिताः | 027a
'भित्त्वाभित्त्वा क्षितिं जग्मुस्तेषामेवासुभिःः सह |' 027c
व्यराजन्त महाराज सुपर्णा इव खेचराः || 027e
शोणितादिग्धवाजाग्राः सप्त हेमपरिष्कृताः | 028a
पुत्राणां तव राजेन्द्र पीत्वा शोणितमुद्गताः || 028c
ते शरैर्भिन्नमर्माणो रथेभ्यः प्रापतन्क्षितौ | 029a
गिरिसानुरुहा भग्ना द्विपेनेव महाद्रुमाः || 029c
शत्रुञ्जयः शत्रुसहश्चित्रश्चित्रायुधो दृढः | 030a
चित्रसेनो विकर्णश्च सप्तैते विनिपातिताः || 030c
[पुत्राणां तव सर्वेषां निहतानां वृकोदरः | 031a
शोचत्यतिभृशं दुःखाद्विकर्णं पाण्डवः प्रियम् || 031c
प्रतिज्ञेयं मया वृत्ता निहन्तव्यास्तु संयुगे | 032a
विकर्ण तेनासि हतः प्रतिज्ञा रक्षिता मया || 032c
त्वमागाः समरं वीर क्षात्रं धर्ममनुस्मरन् | 033a
ततो विनिहतः सङ्ख्ये युद्धधर्मो हि निष्ठुरः || 033c
विशेषतो हि नृपतेस्तथाऽस्माकं हिते रतः | 034a
न्यायतोन्यायतो वाऽपि हतः शेते महाद्युतिः || 034c
अगाधबुद्धिर्गाङ्गेयः क्षितौ सुरगुरोः समः | 035a
त्याजितः समरे प्राणांस्तस्माद्युद्धं हि निष्ठुरम् ||] 035c
सञ्जय उवाच 036
तान्निहत्य महाबाहू राधेयस्यैव पश्यतः | 036a
सिंहनादरवं घोरमसृजत्पाण्डुनन्दनः || 036c
स रवस्तस्य शूरस्य धर्मराजस्य भारत | 037a
आचख्याविव तद्युद्धं विजयं चात्मनो महत् || 037c
तं श्रुत्वा तु महानादं भीमसेनस्य धन्विनः | 038a
बभूव परमा प्रीतिर्धर्मराजस्य धीमतः || 038c
ततो हृष्टो राजन्वादित्राणां महास्वनैः | 039a
सिंहनादरवं भ्रातुः प्रतिजग्राह पाण्डवः || 039c
हर्षेण महता युक्तः कृतसञ्ज्ञे वृकोदरे | 040a
अभ्ययात्समरे द्रोणं सर्वशस्त्रभृतां वरः || 040c
एकत्रिंशन्महाराज पुत्रांस्तव निपातितान् | 041a
हतान्दुर्योधनो दृष्ट्वा क्षत्तुः सस्मार तद्वचः || 041c
तदिदं समनुप्राप्तं क्षत्तुर्नैःश्रेयसं वचः | 042a
इति सञ्चिन्त्य ते पुत्रो नोत्तरं प्रत्यपद्यत || 042c
यद्द्यूतकाले दुर्बुद्धिरब्रवीत्तनयस्तव | 043a
सभामानाय्य पाञ्चालीं कर्णेन सहितोऽल्पधीः || 043c
यच्च कर्णोऽब्रवीत्कृष्णां सभायां परुषं वचः | 044a
प्रमुखे पाण्डुपुत्राणां तव चैव विशाम्पते | 044c
शृण्वतस्तव राजेन्द्र कौरवाणां च सर्वशः || 044e
विनष्टाः पाण्डवाः कृष्णे शाश्वतं नरकं गताः | 045a
पतिमन्यं वृणीष्वेति तस्येदं फलमागतम् || 045c
यच्च षण्डतिलादीनि परुषाणि तवात्मजैः | 046a
श्रावितास्ते महात्मानः पाण्डवाः कोपयिष्णुभिः || 046c
तं भीमसेनः क्रोधाग्निं त्रयोदश समाः स्थितम् | 047a
उद्गिरंस्तव पुत्राणामन्तं गच्छति पाण्डवः || 047c
विलपंश्च बहु क्षत्ता शमं नालभत त्वयि | 048a
सपुत्रो भरतश्रेष्ठ तस्य भुङ्क्ष्व फलोदयम् || 048c
त्वया वृद्धेन धीरेण कार्यतत्त्वार्थदर्शिना | 049a
न कृतं सुहृदां वाक्यं दैवमत्र परायणम् || 049c
तन्मा शुचो नरव्याघ्र तवैवापनयो महान् | 050a
विनाशहेतुः पुत्राणां भवानेव मतो मम || 050c
हतो विकर्णो राजेन्द्र चित्रसेनश्च वीर्यवान् | 051a
प्रवराश्चात्मजानां ते सुताश्चान्ये महारथाः || 051c
यानन्यान्ददृशे भीमश्चक्षुर्विषयमागतान् | 052a
पुत्रांस्तव महाराज त्वरया ताञ्जघान ह || 052c
त्वत्कृते ह्यहमद्राक्षं दह्यमानां वरूथिनीम् | 053a
सहस्रशः शरैर्मुक्तैः पाण्डवेन वृषेण च || || 053c

इति श्रीमन्महाभारते द्रोणपर्वणि जयद्रथवधपर्वणि चतुर्दशदिवसयुद्धे सप्तत्रिंशदधिकशततमोऽध्यायः ॥ 137 ॥

07-05-137-31 घ. ड. पुस्तकयोरिमे कुण्डलिनाः पञ्च श्लोका अधिका दृश्यन्ते || 07-05-137-42 नैःश्रेयसं निश्चितं श्रेयःसाधनम् || सप्तत्रिंशदधिकशततमोऽध्यायः ॥