श्रीः
अध्यायः 136
भीमेन चित्रोपचित्रादिदुर्योधनानुजवधः ॥ 1 ॥
सञ्जय उवाच 001
तवात्मजांस्तु पतितान्दृष्ट्वा कर्णः प्रतापवान् । 001a
क्रोधेन महताऽऽविष्टो निर्विण्णोऽभूत्स जीविते ॥ 001c
आगस्कृतमिवात्मानं मेने चाधिरथिस्तदा । 002a
यत्प्रत्यक्षं तव सुता भीमेन निहता रणे ॥ 002c
भीमसेनस्ततः क्रुद्धः कर्णस्य निशिताञ्शरान् । 003a
निचखान स सम्भ्रान्तः पूर्ववैरमनुस्मरन् ॥ 003c
स भीमं पञ्चभिर्विद्ध्वा राधेयः प्रहसन्निव । 004a
पुनर्विव्याध सप्तत्या स्वर्णपुङ्खैः शिलाशितैः ॥ 004c
अविचिन्त्याथ तान्बाणान्कर्णेनास्तान्वृकोदरः । 005a
रणे विव्याध राधेयं शरेणानतपर्वणा ॥ 005c
पुनश्च विशिखैस्तीक्ष्णैर्विद्ध्वा मर्मसु पञ्चभिः । 006a
धनुश्चिच्छेद भल्लेन सूत पुत्रस्य मारिष ॥ 006c
अथान्यद्धनुरादाय कर्णो भारत दुर्मनाः । 007a
इषुभिश्छादयामास भीमसेनं परन्तपः ॥ 007c
तस्य भीमो हयान्हत्वा विनिहत्य च सारथिम् । 008a
प्रजहास महाहासं कृतप्रतिकृतं महत् ॥ 008c
इषुभिः कार्मुकं चास्य चकर्त पुरुषर्षभः । 009a
तत्पपात महाराज स्वर्णपृष्ठं महास्वनम् ॥ 009c
अवारोहद्रथात्तस्मादथ कर्णो महारथः । 010a
गदां गृहीत्वा समरे भीमाय प्राहिणोद्रुषा ॥ 010c
तामापतन्तीमालक्ष्य भीमसेनो महागदाम् । 011a
शरैरवारयद्राजन्सर्वसैन्यस्य पश्यतः ॥ 011c
ततो बाणसहस्राणि प्रेषयामास पाण्डवः । 012a
सूतपुत्रवधाकाङ्क्षी त्वरमाणः पराक्रमी ॥ 012c
तानिषूनिषुभिः कर्णो वारयित्वा महामृधे । 013a
कवचं भीमसेनस्य पाटयामास सायकैः ॥ 013c
अथैनं पञ्चविंशत्या नाराचानां समार्पयत् । 014a
पश्यतां सर्वसैन्यानां तदद्भुतमिवाभवत् ॥ 014c
ततो भीमो महाबाहुर्नवभिर्नतपर्वभिः । 015a
प्रेषयामास सङ्क्रुद्धः सूतपुत्रस्य मारिष ॥ 015c
ते तस्य कवचं भित्त्वा तथा बाहुं च दक्षिणम् । 016a
अभ्ययुर्धरणीं तीक्ष्णा वल्मीकमिव पन्नगाः ॥ 016c
स च्छाद्यमानो बाणौघैर्भीमसेनधनुश्च्युतैः । 017a
पुनरेवाभवत्कर्णो भीमसेनात्पराङ्मुखः ॥ 017c
तं पराङ्मुखमालोक्य पदातिं सूतनन्दनम् । 018a
कौन्तेयशरसञ्छन्नं राजा दुर्योधनोऽब्रवीत् ॥ 018c
त्वरध्वं सर्वतो यत्ता राधेयस्य रथं प्रति । 019a
ततस्तव सुता राजञ्श्रुत्वा भ्रातुर्वचो द्रुतम् ॥ 019c
अभ्ययुः पाण्डवं युद्धे विसृजन्तः शिलीमुखान् । 020a
चित्रोपचित्रश्चित्राक्षश्चारुचित्रः शरासनः ॥ 020c
चित्रायुधश्चित्रवर्मा समरे चित्रयोधिनः । 021a
तानापतत एवाशु भीमसेनो महारथः ॥ 021c
एकैकेन शरेणाजौ पातयामास ते सुतान् । 022a
ते हता न्यपतन्भूमौ वातरुग्णा इव द्रुमाः ॥ 022c
दृष्ट्वा विनिहतान्पुत्रांस्तव राजन्महारथान् । 023a
अश्रुपूर्णमुखः कर्णः क्षत्तुः सस्मार तद्वचः ॥ 023c
रथं चान्यं समास्थाय विधिवत्कल्पितं पुनः । 024a
अभ्ययात्पाण्डवं युद्धे त्वरमाणः पराक्रमी ॥ 024c
तावन्योन्यं शरैर्भित्त्वा स्वर्णपुङ्खैः शिलाशितैः । 025a
व्यभ्राजेतां यथा मेघौ संस्यूतौ सूर्यरश्मिभिः ॥ 025c
षट्त्रिंशद्भिस्ततो भल्लैर्निशितैस्तिग्मतेजनैः । 026a
व्यधमत्कवचं क्रुद्धः सूतपुत्रस्य पाण्डवः ॥ 026c
सूतपुत्रोऽपि कौन्तेयं शरैः सन्नतपर्वभिः । 027a
पञ्चाशता महाबाहुर्विव्याध भरतर्षभ ॥ 027c
रक्तचन्दनदिग्धाङ्गौ शरैः कृतमहाव्रणौ । 028a
शोणिताक्तौ व्यराजेतां कालसूर्याविवोदितौ ॥ 028c
तौ शोणितोक्षितैर्गात्रैः शरैश्छिन्नतनुच्छदौ । 029a
विवृताङ्गौ व्यराजेतां निर्मुक्ताविव पन्नगौ ॥ 029c
'क्रोधाग्नितेजसा दिप्तौ संरम्भाद्रक्तलोचनौ । 030a
व्यभ्राजेतां महाराज विधूमाविव पावकौ ॥' 030c
व्याघ्राविव नरव्याघ्रौ दंष्ट्राभिरितरेतरम् । 031a
शरधारासृजौ वीरौ मेघाविव ववर्षतुः ॥ 031c
वारणाविव चान्योन्यं विषाणाभ्यामरिन्दमौ । 032a
निर्भिन्दन्तौ स्वगात्राणि सायकैश्चारु रेजतुः ॥ 032c
नादयन्तौ प्रहर्षन्तौ विक्रीडन्तौ परस्परम् । 033a
मण्डलानि विकुर्वाणौ रथाभ्यां रथिषूत्तमौ ॥ 033c
वृषाविवाथ नर्दन्तौ बलिनौ वासितान्तरे । 034a
सिंहाविव पराक्रान्तौ नरसिंहौ महाबलौ ॥ 034c
परस्परं वीक्षमाणौ क्रोधसंरक्तलोचनौ । 035a
युयुधाते महावीर्यौ शक्रवैरोचनी यथा ॥ 035c
ततो भीमो महाबाहुर्बाहुभ्यां विक्षिपन्धनुः । 036a
व्यराजत रणे राजन्सविद्युदिव तोयदः ॥ 036c
सनेमिघोषस्तनितश्चापविद्युच्छराम्बुभिः । 037a
भीमसेनमहामेघः कर्णपर्वतमावृणोत् ॥ 037c
ततः शरसहस्रेण सम्यगस्तेन भारत । 038a
पाण्डवो व्यकिरत्कर्णं भीमो भीमपराक्रमः ॥ 038c
तत्रापश्यंस्तव सुता भीमसेनस्य विक्रमम् । 039a
सुपुङ्खैः कङ्कवासोभिर्यत्कर्णं छादयञ्शरैः ॥ 039c
स नन्दयन्रणे पार्थं केशवं च यशस्विनम् । 040a
सात्यकिं चक्ररक्षौ च भीमः कर्णमयोधयत् ॥ 040c
विक्रमं भुजयोर्वीर्यं धैर्यं च विदितात्मनः । 041a
पुत्रास्तव महाराज दृष्ट्वा विमनसोऽभवन् ॥ ॥ 041c
इति श्रीमन्महाभारते द्रोणपर्वणि जयद्रथवधपर्वणि चतुर्दशदिवसयुद्धे षट्त्रिंशदधिकशततमोऽध्यायः ॥ 136 ॥
5-136-10 अवारोहदवातरत् ॥ 5-136-20 चित्रोपचित्रः चित्रश्चासावुपचित्रश्चेति चित्रोपचित्रः ॥ 5-136-136 षट्त्रिंशदधिकशततमोऽध्यायः ॥