श्रीः अध्यायः 135 भीमेन दुर्मर्षणादिदुर्योधनानुजानां पञ्चानां हननम् ॥ 1 ॥ धृतराष्ट्र उवाच 001
दैवमेव परं मन्ये धिक्पौरुषमनर्थकम् । 001a
यत्राधिरथिरायत्तो नातरत्पाण्डवं रणे ॥ 001c
कर्णः पार्थान्सगोविन्दाञ्जेतुमुत्सहते रणे । 002a
न च कर्णसमं लोके पश्यामि कञ्चन । 002c
इति दुर्योधनस्याहमश्रौषं जल्पतो मुहुः ॥ 002e
कर्णो हि बलवाञ्छूरो दृढधन्वा जितक्लमः । 003a
इति मामब्रवीत्सूत मन्दो दुर्योधनः पुरा ॥ 003c
वसुषेणसहायं मां नालं देवाऽपि संयुगे । 004a
किं नु पाण्डुसुता राजन्गतसत्वा विचेतसः ॥ 004c
तत्र तं निर्जितं दृष्ट्वा भुजङ्गमिव निर्विषम् । 005a
युद्धात्कर्णमपक्रान्तं किंस्विद्दुर्योधनोऽब्रवीत् ॥ 005c
अहो दुर्मुखमेवैकं युद्धानामविशारदम् । 006a
प्रावेशयद्धुतवहं पतङ्गमिव मोहितः ॥ 006c
अश्वत्थामा मद्रराजः कृपः कर्णश्च सङ्गताः । 007a
न शक्ताः प्रमुखे स्थातुं नूनं भीमस्य सञ्जय ॥ 007c
तेऽपि चास्य महाघोरं बलं नागायुतोपमम् । 008a
जानन्तो व्यवसायं च क्रूरं मारुततेजसः ॥ 008c
किमर्थं क्रूरकर्माणं यमकालान्तकोपमम् । 009a
बलसंरम्भवीर्यज्ञाः कोपयिष्यन्ति संयुगे ॥ 009c
कर्णस्त्वेको महाबाहुः स्वबाहुबलदर्पितम् । 010a
भीमसेनमनादृत्य रणेऽयुध्यत सूतजः ॥ 010c
योऽजयत्समरे कर्णं पुरन्दर इवासुरम् । 011a
न स पाण्डुसुतो जेतुं शक्यः केनचिदाहवे ॥ 011c
द्रोणं यः सम्प्रमथ्यैकः प्रविष्टो मम वाहिनीम् । 012a
भीमो धनञ्जयान्वेषी कस्तमार्च्छेज्जिजीविषुः ॥ 012c
को हि सञ्जय भीमस्य स्थातुमुत्सहतेऽग्रतः । 013a
उद्यताशनिहस्तस्य महेन्द्रस्येव दानवः ॥ 013c
प्रेतराजपुरं प्राप्य निवर्तेतापि मानवः । 014a
न भीमसेनं सम्प्राप्य निवर्तेत कदाचन ॥ 014c
पतङ्गा इव वह्निं ते प्राविशन्नल्पचेतसः । 015a
ये भीमसेनं सङ्क्रुद्धमन्वधावन्विमोहिताः ॥ 015c
यत्तत्सभायां भीमेन मम पुत्रवधाश्रयम् । 016a
उक्तं संरम्भिणोग्रेण कुरूणां शृण्वतां तदा ॥ 016c
तन्नूनमभिसञ्चिन्त्य दृष्ट्वा कर्णं च निर्जितम् । 017a
दुःशासनः सह भ्रात्रा भयाद्भीमादुपारमत् ॥ 017c
यश्च सञ्जय दुर्बुद्धिरब्रवीत्समितौ मुहुः । 018a
कर्णो दुःशासनोऽहं च जेष्यामो युधि पाण्डवान् ॥ 018c
स नूनं विरथं दृष्ट्वा कर्णं भीमेन निर्जितम् । 019a
प्रत्याख्यानाच्च कृष्णस्य भृशं तप्यति पुत्रकः ॥ 019c
दृष्ट्वा भ्रातॄन्हतान्सङ्ख्ये भीमसेनेन दंशितान् । 020a
आत्मापराधात्सम्मूढो नूनं तप्यति पुत्रकः ॥ 020c
को हि जीवितमन्विच्छन्प्रतीपं पाण्डवं व्रजेत् । 021a
भीमं भीमायुधं क्रुद्धं साक्षात्कालमिव स्थितम् ॥ 021c
बडबामुखमध्यस्थो मुच्येतापि हि मानवः । 022a
न भीममुखसम्प्राप्तो मुच्येदिति मतिर्मम ॥ 022c
न पार्था न च पञ्चाला न च केशवसात्यकी । 023a
जानते युधि संरब्धा जीवितं परिरक्षितुम् ॥ 023c
अहो मम सुतानां हि विपन्नं सूत जीवितम् ॥ 024ac
सञ्जय उवाच 025
यस्त्वं शोचसि कौरव्य वर्तमाने महाभये । 025a
त्वमस्य जगतो मूलं विनाशस्य न संशयः ॥ 025c
स्वयं वैरं महत्कृत्वा पुत्राणां वचने स्थितः । 026a
उच्यमानो न गृह्णीषे मर्त्यः पथ्यमिवौषधम् ॥ 026c
स्वयं पीत्वा महाराज कालकूटं सुदुर्जरम् । 027a
तस्येदानीं फलं कृत्स्नमवाप्नुहि नरोत्तम ॥ 027c
यत्तु कुत्सयसे योधान्युध्यमानान्महाबलान् । 028a
तत्र ते वर्तयिष्यामि यथा युद्धमवर्तत ॥ 028c
दृष्ट्वा कर्णं तु पुत्रास्ते भीमसेनपराजितम् । 029a
नामृष्यन्त महेष्वासाः सोदर्याः पञ्च भारत ॥ 029c
दुर्मर्षणो दुःसहश्च दुर्मदो दुर्धरो जयः । 030a
पाण्डवं चित्रसन्नाहास्तं प्रतीपमुपाद्रवन् ॥ 030c
ते समन्तान्महाबाहुं परिवार्य वृकोदरम् । 031a
दिशः शरैः समावृण्वञ्शलभानामिव व्रजैः ॥ 031c
आगच्छतस्तान्सहसा कुमारान्देवरूपिणः । 032a
प्रतिजग्राह समरे भीमसेनो हसन्निव ॥ 032c
तव दृष्ट्वा तु तनयान्दुर्मर्षणपुरोगमान् । 033a
अभ्यवर्तत राधेयो भीमसेनं महाबलम् ॥ 033c
विसृजन्विशिखांस्तीक्ष्णान्स्वर्णपुङ्खाञ्ञ्छिलाशितान् । 034a
तं तु भीमोऽभ्ययात्तूर्णं वार्यमाणः सुतैस्तव ॥ 034c
कुरवस्तु ततः कर्णं परिवार्य समन्ततः । 035a
अवाकिरन्भीमसेनं शरैः सन्नतपर्वभिः ॥ 035c
तान्बाणैः पञ्चविंशत्या साश्वान्राजन्नरर्षभान् । 036a
ससूतान्भीमधनुषो भीमो निन्ये यमक्षयम् ॥ 036c
प्रापतन्स्यन्दनेभ्यस्ते सार्धं सूतैर्गतासवः । 037a
चित्रपुष्पधरा भग्ना वातेनेव महाद्रुमाः ॥ 037c
तत्राद्भुतमपश्याम भीमसेनस्य विक्रमम् । 038a
संवार्याधिरथिं बाणैर्यज्जघान तवात्मजान् ॥ 038c
स वार्यमाणो भीमेन शितैर्बाणैः समन्ततः । 039a
सूतपुत्रो महाराज भीमसेनमवैक्षत ॥ 039c
तं भीससेनः संरम्भात्क्रोधसंरक्तलोचनः । 040a
विष्फार्य सुमहच्चापं मुहुः कर्णमवैक्षत ॥ ॥ 040c

इति श्रीमन्महाभारते द्रोणपर्वणि जयद्रथवधपर्वणि चतुर्दशदिवसयुद्धे पञ्चत्रिंशदधिकशततमोऽध्यायः ॥ 135 ॥

5-135-9 यमः संयमनव्यापारः कालः कलनव्यापरः अन्तको मारणव्यापारः तदुपमम् ॥ 5-135-135 पञ्चत्रिंशदधिकशततमोऽध्यायः ॥