श्रीः
अध्यायः 134
भीमेन पराजितस्य कर्णस्य पलायनम् ॥ 1 ॥
सञ्जय उवाच 001
सर्वथा विरथः कर्णः पुनर्भीमेन निर्जितः । 001a
रथमन्यं समास्थाय पुनर्विव्याध पाण्डवम् ॥ 001c
महागजाविवासाद्य विषाणाग्रैः परस्परम् । 002a
शरैः पूर्णायतोत्सृष्टैरन्योन्यमभिजघ्नतुः ॥ 002c
अथ कर्णः शरव्रातैर्भीमसेनं समार्पयत् । 003a
ननाद च महानादं पुनर्विव्याध चोरसि ॥ 003c
तं भीमो दशभिर्बाणैः प्रत्यविध्यदजिह्मगैः । 004a
पुनर्विव्याध सप्तत्या शराणां नतपर्वणाम् ॥ 004c
कर्णस्तु नवभिर्भीमं भित्त्वा राजंस्तनान्तरे । 005a
ध्वजमेकेन विव्याध विशोकं च त्रिभिः शरैः ॥ 005c
सायकानां ततः पार्थस्त्रिषष्ट्या प्रत्यविध्यत । 006a
तोत्रैरिव महानागं कशाभिरिव वाजिनम् ॥ 006c
सोऽतिविद्धो महाराज पाण्डवेन यशस्विना । 007a
सृक्विणी लेलिहन्वीरः क्रोधरक्तान्तलोचनः ॥ 007c
ततः शरं महाराज सर्वकायावदारणम् । 008a
प्राहिणोद्भीमसेनाय बलायेन्द्र इवाशनिम् ॥ 008c
स निर्भिद्य रणे पार्थं सूतपुत्रधनुश्च्युतः । 009a
अगच्छद्दारयन्भूमिं चित्रपुङ्खः शिलीमुखः ॥ 009c
ततो भीमो महाबाहुः क्रोधसंरक्तलोचनः । 010a
वज्रकल्पां चतुष्किष्कुं गुर्वीं रुक्माङ्गदां गदाम् । 010c
प्राहिणोत्सूतपुत्राय षडश्रामविचारयन् ॥ 010e
तया जघानाधिरथेः सदश्वान्साधुवाहिनः । 011a
गदया भारतः क्रुद्धो वज्रेणेन्द्र इवासुरान् ॥ 011c
ततो भीमो महाबाहुः क्षुराभ्यां भरतर्षभ । 012a
ध्वजमाधिरथेश्छित्त्वा सूतमभ्यहनच्छरैः ॥ 012c
हताश्वसूतमुत्सृज्य स रथं पतितध्वजम् । 013a
विष्फारयन्धनुः कर्णस्तस्थौ भारत दुर्मनाः ॥ 013c
तत्राद्भुतमपश्याम राधेयस्य पराक्रमम् । 014a
विरथो रथिनां श्रेष्ठो वारयामास यद्रिपुम् ॥ 014c
विरथं तं नरश्रेष्ठं दृष्ट्वाऽऽधिरथिमाहवे । 015a
दुर्योधनस्ततो राजन्नभ्यभाषत दुर्मुखम् ॥ 015c
एष दुर्मुख राधेयो भीमेन विरथीकृतः । 016a
तं रथेन नरश्रेष्ठ सम्पादय महारथम् ॥ 016c
ततो दुर्योधनवचः श्रुत्वा भारत दुर्मुखः । 017a
त्वरमाणोऽभ्ययात्कर्णं भीमं चावारयच्छरैः ॥ 017c
दुर्मुखं प्रेक्ष्य सङ्ग्रामे सूतपुत्रपदानुगम् । 018a
वायुपुत्रः प्रहृष्टोऽभूत्सृक्विणी परिसंलिहन् ॥ 018c
ततः कर्णं महाराज वारयित्वा शिलीमुखैः । 019a
दुर्मुखाय रथं तूर्णं प्रेषयामास पाण्डवः ॥ 019c
तस्मिन्क्षणे महाराज नवभिर्नतपर्वभिः । 020a
सुमुखैर्दुर्मुखं भीमः शरैर्निन्ये यमक्षयम् ॥ 020c
ततस्तमेवाधिरथिः स्यन्दनं दुर्मुखे हते । 021a
आस्थितः प्रबभौ राजन्दीप्यमान इवांशुमान् ॥ 021c
शयानं भिन्नमर्माणं दुर्मुखं शोणितोक्षितम् । 022a
दृष्ट्वा कर्णोऽश्रुपूर्णाक्षो मुहूर्तं नाभ्यवर्तत ॥ 022c
तं गतासुमतिक्रम्य कृत्वा कर्णः प्रदक्षिणम् । 023a
दीर्घमुष्णं श्वसन्वीरो न किञ्चित्प्रत्यपद्यत ॥ 023c
तस्मिंस्तु विवरे राजन्नाराचान्गार्ध्रवाससः । 024a
प्राहिणोत्सूतपुत्राय भीमसेनश्चतुर्दश ॥ 024c
ते तस्य कवचं भित्त्वा स्वर्णचित्रं महौजसः । 025a
हेमपुङ्खा महाराज व्यशोभन्त दिशो दश ॥ 025c
अपिबन्सूतपुत्रस्य शोणितं रक्तभोजनाः । 026a
क्रुद्धा इव मनुष्येन्द्र भुजङ्गाः कालचोदिताः ॥ 026c
प्रसर्पमाणा मेदिन्यां ते व्यरोचन्त मार्गणाः । 027a
अर्धप्रविष्टाः संरब्धा बिलानीव महोरगाः ॥ 027c
तं प्रत्यविध्यद्राधेयो जाम्बूनदविभूषितैः । 028a
चतुर्दशभिरत्युग्रैर्नाराचैरविचारयन् ॥ 028c
ते भीमसेनस्य भुजं सव्यं निर्भिद्य पत्रिणः । 029a
प्राविशन्मेदिनीं भीमाः क्रौञ्चं पत्ररथा इव ॥ 029c
ते व्यरोचन्त नाराचाः प्रविशन्तो वसुन्धराम् । 030a
गच्छत्यस्तं दिनकरे दीप्यमाना इवांशवः ॥ 030c
स निर्भिन्नो रणे भीमो नाराचैर्मर्मभेदिभिः । 031a
सुस्राव रुधिरं भूरि पर्वतः सलिलं यथा ॥ 031c
स भीमस्त्रिभिरायस्तः सूतपुत्रं पतत्रिभिः । 032a
सुपर्णवेगैर्विव्याध सारथिं चास्य सप्तभिः ॥ 032c
स विह्वलो महाराज कर्णो भीमशराहतः । 033a
प्राद्रवज्जवनैरश्वै रणं हित्वा महाभयात् ॥ 033c
भीमसेनस्तु विष्फार्य चापं हेमपरिष्कृतम् । 034a
आहवेऽतिरथोऽतिष्ठज्ज्वलन्निव हुताशनः ॥ ॥ 034c
इति श्रीमन्महाभारते द्रोणपर्वणि जयद्रथवधपर्वणि चतुर्दशदिवसयुद्धे चतुस्त्रिंशदधिकशततमोऽध्यायः ॥ 134 ॥
5-134-10 ततः शैक्यां चतुष्किष्कुम् इति क. ख. ङ. पाठः ॥ 5-134-32 सुष्ठु पर्णानां पत्राणां वेगो येषाम् ॥ 32 ॥ 5-134-134 चतुस्त्रिंशदधिकशततमोऽध्यायः ॥