श्रीः अध्यायः 133 भीमेन कर्णसहकारिणो दुर्जयस्य वधः ॥ 1 ॥ धृतराष्ट्र उवाच 001
अत्यद्भुतमहं मन्ये भीमसेनस्य विक्रमम् । 001a
यत्कर्णं योधयामास समरे लघुविक्रमः ॥ 001c
त्रिदशानपि वा युक्तान्सर्वशस्त्रधरान्युधि । 002a
वारयेद्यो रणे कर्णः सयक्षासुरमानुषान् ॥ 002c
स कथं पाण्डवं युद्धे भ्राजमानमिव श्रिया । 003a
नातरत्संयुगे तात तन्ममाचक्ष्व सञ्जय ॥ 003c
कथं च युद्धं सम्भूतं तयोः प्राणदुरोदरे । 004a
अत्र मन्ये समायत्तो जयो वाऽजय एव च ॥ 004c
कर्णं प्राप्य रणे सूत मम पुत्रः सुयोधनः । 005a
जेतुमुत्सहते पार्थान्सगोविन्दान्ससात्वतान् ॥ 005c
श्रुत्वा तु निर्जितं कर्णमसकृद्भीमकर्मणा । 006a
भीमसेनेन समरे मोह आविशतीव माम् ॥ 006c
विनष्टान्कौरवान्मन्ये मम पुत्रस्य दुर्नयैः । 007a
नहि कर्णो महेष्वासान्पार्थाञ्जेष्यति सञ्जय ॥ 007c
कृतवान्यानि युद्धानि कर्णः पाण्डुसुतैः सह । 008a
सर्वत्र पाण्डवाः कर्णमजयंस्ते रणाजिरे ॥ 008c
अजेयाः पाण्डवास्तात देवैरपि सवासवैः । 009a
न च तद्बुध्यते मन्दः पुत्रो दुर्योधनो मम ॥ 009c
धनं धनेश्वरस्येव हृत्वा पार्थस्य मे सुतः । 010a
मधुप्रेप्सुरिवाबुद्धिः प्रपातं नावबुध्यते ॥ 010c
निकृत्या निकृतिप्रज्ञो राज्यं हृत्वा महात्मनाम् । 011a
जितमित्येव मन्वानः पाण्डवानवमन्यते ॥ 011c
पुत्रस्नेहाभिभूतेन मया चाप्यकृतात्मना । 012a
धर्मे स्थिता महात्मानो निकृताः पाण्डुनन्दनाः ॥ 012c
शमकामः ससोदर्यो दीर्घप्रेक्षी युधिष्ठिरः । 013a
अशक्त इति मत्वा तु मम पुत्रैर्निराकृतः ॥ 013c
तानि दुःखान्यनेकानि विप्रकारांश्च सर्वशः । 014a
हृदि कृत्वा महाबाहुर्भीमोऽयुध्यत सूतजम् ॥ 014c
तस्मान्मे सञ्जय ब्रूहि कर्णभीमौ यथा रणे । 015a
अयुध्येतां युधांश्रेष्ठौ परस्परवधैषिणौ ॥ 015c
सञ्जय उवाच 016
शृणु राजन्यथावृत्तं सङ्ग्रामं कर्णभीमयोः । 016a
परस्परवधप्रेप्स्वोर्वनकुञ्जरयोरिव ॥ 016c
राजन्वैकर्तनो भीमं क्रुद्धः क्रुद्धमरिन्दमम् । 017a
पराक्रान्तं पराक्रम्य विव्याध त्रिंशता शरैः ॥ 017c
महावेगैः प्रसन्नाग्रैः शातकुम्भपरिष्कृतैः । 018a
नातरद्भरतश्रेष्ठ भीमं वैकर्तनः शरैः ॥ 018c
तस्यास्यतो धनुर्भीमश्चकर्त विशिखैस्त्रिभिः । 019a
रथनीडाच्च यन्तारं भल्लेनापातयत्क्षितौ ॥ 019c
स काङ्क्षन्भीमसेनस्य वधं वैकर्तनो भृशम् । 020a
शक्तिं कनकवैदूर्यचित्रदण्डां परामृशत् ॥ 020c
प्रगृह्य च महाशक्तिं कालरात्रिमिवापराम् । 021a
समुत्क्षिप्य च राधेयः सन्धाय च महाबलः । 021c
चिक्षेप भीमसेनाय जीवितान्तकरीमिव ॥ 021e
शक्तिं विसृज्य राधेयः पुरन्दर इवाशनिम् । 022a
ननाद सुमहानादं बलवान्सूतनन्दनः ॥ 022c
तं च नादं ततः श्रुत्वा पुत्रास्ते हर्षिताऽभवन् ॥ 023ac
तां कर्णभुजनिर्मुक्तामर्कवैश्वानरप्रभाम् | 024a
शक्तिं वियति चिच्छेद भीमः सप्तभिराशुगैः ॥ 024c
छित्त्वा शक्तिं ततो भीमो निर्मुक्तोरगसन्निभाम् । 025a
मार्गमाणामिव प्राणान्सूतपुत्रस्य मारिष ॥ 025c
प्राहिणोत्कृतसंरम्भः शरान्बर्हिणवाससः । 026a
स्वर्णपुङ्खाञ्शिलाधौतान्यमदण्डोपमान्मृधे ॥ 026c
कर्णोऽप्यन्यद्धनुर्गृह्य हेमपृष्ठं दुरासदम् । 027a
विकृष्य तन्महच्चापं व्यसृजत्सायकांस्तदा ॥ 027c
तान्पाण्डुपुत्रश्चिच्छेद नवभिर्नतपर्वभिः । 028a
वसुषेणेन निर्मुक्तान्नव राजन्महाशरान् । 028c
छित्त्वा भीमो महाराज नादं सिंह इवानदत् ॥ 028e
तौ वृषाविव नर्दन्तौ बलिनौ वासितान्तरे । 029a
शार्दूलाविव चान्योन्यमामिषार्थेऽभ्यगर्जताम् ॥ 029c
अन्योन्यं प्रजिहीर्षन्तावन्योन्यस्यान्तरैषिणौ । 030a
अन्योन्यमभिवीक्षन्तौ गोष्ठेष्विव महर्षभौ ॥ 030c
महागजाविवासाद्य विषाणाग्रैः परस्परम् । 031a
शरैः पूर्णायतोत्सृष्टैरन्योन्यमभिजघ्नतुः ॥ 031c
निर्दहन्तौ महाराज शस्त्रवृष्ट्या परस्परम् । 032a
अन्योन्यमभिवीक्षन्तौ कोपाद्विवृतलोचनौ ॥ 032c
प्रहसन्तौ तथाऽन्योन्यं भर्त्सयन्तौ मुहुर्मुहुः । 033a
शङ्खशब्दं च कुर्वाणौ युयुधाते परस्परम् ॥ 033c
तस्य भीमः पुनश्चापं मुष्टौ चिच्छेद मारिष । 034a
शङ्खवर्णांश्च तानश्वान्बाणैर्निन्ये यमक्षयम् । 034c
सारथिं च तथाप्यस्य रथनीडादपातयत् ॥ 034e
ततो वैकर्तनः कर्णश्चिन्तां प्राप दुरत्ययाम् । 035a
स च्छाद्यमानः समरे हताश्वो हतसारथिः । 035c
मोहितः शरजालेन कर्तव्यं नाभ्यपद्यत ॥ 035e
तथा कृच्छ्रगतं दृष्ट्वा कर्णं दुर्योधनो नृपः । 036a
वेपमान इव क्रोधाद्व्यादिदेशाथ दुर्जयम् ॥ 036c
गच्छ दुर्जय राधेयं पुरा ग्रसति पाण्डवः । 037a
जहि तूबरकं क्षिप्रं कर्णस्य बलमादधत् ॥ 037c
एवमुक्तस्तथेत्युक्त्वा तव पुत्रं तवात्मजः । 038a
अभ्यद्रवद्भीमसेनं व्यासक्तं विकिरञ्छरैः ॥ 038c
स भीमं नवभिर्बाणैरश्वानष्टभिरार्दयत् । 039a
षड्भिः सूतं त्रिभिः केतं पुनस्तं चापि सप्तभिः ॥ 039c
भीमसेनोऽपि सङ्क्रुद्धः साश्वयन्तारमाशुगैः । 040a
दुर्जयं भिन्नमर्माणमनयद्यमसादनम् ॥ 040c
बाढं हतं क्षितौ क्षुण्णं वेष्टमानं यथोरगम् । 041a
रुदन्नार्तस्तव सुतं कर्णश्चक्रे प्रदक्षिणम् ॥ 041c
स तु तं विरथं कृत्वा स्मयन्नत्यन्तवैरिणम् । 042a
समाचिनोद्बाणगणैः शतघ्नीभिश्च शङ्कुभिः ॥ 042c
तथाप्यतिरथः कर्णो भिद्यमानोऽस्य सायकैः । 043a
न जहौ समरे भीमं क्रुद्धरूपं परन्तपः ॥ ॥ 043c

इति श्रीमन्महाभारते द्रोणपर्वणि जयद्रथवधपर्वणि चतुर्दशदिवसयुद्धे त्रयस्त्रिंशदधिकशततमोऽध्यायः ॥ 133 ॥

5-133-4 प्राणदुरोदरे प्राणद्युते ॥ त्रयस्त्रिंशदधिकशततमोऽध्यायः ॥