श्रीः अध्यायः 132 भीमकर्णयोर्युद्धम् ॥ 1 ॥ धृतराष्ट्र उवाच 001
[स्वयं शिष्यो महेशस्य भृगूत्तमधनुर्धरः । 001a
शिष्यत्वं प्राप्तवान्कर्णस्तस्य तुल्योऽस्त्रविद्यया ॥ 001c
तद्विशिष्टोऽपि वा कर्णः शिष्यः शिष्यगुणैर्युतः । 002a
कुन्तीपुत्रेण भीमेन निर्जितः स तु लीलया ॥] 002c
यस्मिञ्जयाशा महती पुत्राणां मम सञ्जय । 003a
तं भीमाद्विमुखं दृष्ट्वा किन्नु दुर्योधनोऽब्रवीत् ॥ 003c
कथं च युयुधे भीमो वीर्यश्लाघी महाबलः ॥ 004ac
कर्णो वा समरे तात किमकार्षीदतः परम् । 005a
भीमसेनं रणे दृष्ट्वा ज्वलन्तमिव पावकम् ॥ 005c
सञ्जय उवाच 006
रथमन्यं समास्थाय विधिवत्कल्पितं पुनः । 006a
अभ्ययात्पाण्डवं कर्णो वातोद्धूत इवार्णवः ॥ 006c
क्रुद्धमाधिरथिं दृष्ट्वा पुत्रास्तव विशाम्पते । 007a
भीमसेनममन्यन्त वैश्वानरमुखे हुतम् ॥ 007c
चापशब्दं ततः कृत्वा तलशब्दं च भैरवम् । 008a
अभ्यद्रवत राधेयो भीमसेनरथं प्रति ॥ 008c
पुनरेव तयो राजन्घोर आसीत्समागमः । 009a
वैकर्तनस्य शूरस्य भीमस्य च महात्मनः ॥ 009c
संरब्धौ हि महाबाहू परस्परवधैषिणौ । 010a
अन्योन्यमीक्षाञ्चक्राते दहन्ताविव लोचनैः ॥ 010c
क्रोधरक्तेक्षणौ तीव्रौ निःश्वसन्ताविवोरगौ । 011a
शूरावन्योन्यमासाद्य ततक्षतुररिन्दमौ ॥ 011c
व्याघ्राविव सुसंरब्धौ श्येनाविव च शीघ्रगौ । 012a
शरभाविव सङ्क्रुद्धौ युयुधाते परस्परम् ॥ 012c
ततो भीमः स्मरन्क्लेशानक्षद्यूते वनेऽपि च । 013a
विराटनगरे चैव दुःखं प्राप्तमरिन्दमः ॥ 013c
राष्ट्राणां स्फीतरत्नानां हरणं च तवात्मजैः । 014a
सततं च परिक्लेशान्सपुत्रेण त्वया कृतान् ॥ 014c
दग्धुमैच्छश्च यः कुन्तीं सपुत्रां त्वमनागसम् । 015a
कृष्णायाश्च परिक्लेशं सभामध्ये दुरात्मभिः ॥ 015c
केशपक्षग्रहं चैव दुःशासनकृतं तथा । 016a
परुषाणि च वाक्यानि कर्णेनोक्तानि भारत ॥ 016c
पतिमन्यं परीप्सस्व न सन्ति पतयस्तव । 017a
पतिता नरके पार्थाः सर्वे षण्डतिलोपमाः ॥ 017c
समक्षं तव कौरव्य यदूचुः कौरवास्तदा । 018a
दासीभावेन कृष्णां च भोक्तुकामाः सुतास्तव ॥ 018c
यच्चापि तान्प्रव्रजतः कृष्णाजिननिवासिनः । 019a
परुषाण्युक्तवान्कर्णः सभायां सन्निधौ तव ॥ 019c
तृणीकृत्य च यत्पार्थांस्तव पुत्रो ववल्ग ह । 020a
विषमस्थान्समस्थो हि संरब्धो गतचेतनः ॥ 020c
बाल्यात्प्रभृति चारिघ्नः स्वानि दुःखानि चिन्तयन् । 021a
निरविद्यत धर्मात्मा जीवितेन वृकोदरः ॥ 021c
ततो विष्फार्य सुमहद्धेमपृष्ठं दुरासदम् । 022a
चापं भरतशार्दूलस्त्यक्तात्मा कर्णमभ्ययात् ॥ 022c
स सायकमयैर्जालैर्भीमः कर्णरथं प्रति । 023a
भानुमद्भिः शिलाधौतैर्भानोः प्राच्छादयत्प्रभाम् || 023c
ततः प्रहस्याधिरथिस्तूर्णमस्यञ्शिताञ्शरान् । 024a
व्यधमद्भीमसेनस्य शरजालानि पत्रिभिः ॥ 024c
महारथो महाबाहुर्महाबाणैर्महाबलः । 025a
विव्याधाधिरथिर्भीमं नवभिर्निशितैस्तदा ॥ 025c
स तोत्रैरिव मातङ्गो वार्यमाणः पतत्त्रिभिः । 026a
अभ्यधावदसम्भ्रान्तः सूतपुत्रं वृकोदरः ॥ 026c
तमापतन्तं वेगेन रभसं पाण्डवर्षभम् । 027a
कर्णः प्रत्युद्ययौ युद्धे मत्तो मत्तमिव द्विपम् ॥ 027c
ततः प्रध्याप्य जलजं भेरीशतसमस्वनम् । 028a
अक्षुभ्यत बलं हर्षादुद्धूत इव सागरः ॥ 028c
तदुद्धूतं बलं दृष्ट्वा नागाश्वरथपत्तिमत् । 029a
भीमः कर्णं समासाद्य च्छादयामास सायकैः ॥ 029c
अश्वानृक्षसवर्णांश्च हंसवर्णैर्हयोत्तमैः । 030a
व्यामिश्रयद्रणे कर्णः पाण्डवं छादयञ्छरैः ॥ 030c
ऋक्षवर्णान्हयान्कर्कैर्मिश्रान्मारुतरंहसः । 031a
निरीक्ष्य तव पुत्राणां हाहाकृतमभूद्बलम् ॥ 031c
ते हया बह्वशोभन्त मिश्रिता वातरंहसः । 032a
सितासिता महाराज यथा व्योम्नि बलाहकाः ॥ 032c
संरब्धौ क्रोधताम्राक्षौ प्रेक्ष्य कर्णवृकोदरौ । 033a
सन्त्रस्ताः समकम्पन्त त्वदीयानां महारथाः ॥ 033c
यमराष्ट्रोपमं घोरमासीदायोधनं तयोः । 034a
दुर्दर्शं भरतश्रेष्ठ प्रेतराजपुरं यथा ॥ 034c
समाजमिव तच्चित्रं प्रेक्षमाणा महारथाः । 035a
नालक्षयञ्जयं व्यक्तमेकस्यैव महारणे ॥ 035c
तयोः प्रैक्षन्त सम्मर्दं सन्निकृष्टं महास्त्रयोः । 036a
तव दुर्मन्त्रिते राजन्सपुत्रस्य विशाम्पते ॥ 036c
छादयन्तौ हि शत्रुघ्नावन्योन्यं सायकैः शितैः । 037a
शरजालावृतं व्योम चक्रातेऽद्भुतविक्रमौ ॥ 037c
तावन्योन्यं जिघांसन्तौ शरैस्तीक्ष्णैर्महारथौ । 038a
प्रेक्षणीयतरावास्तां वृष्टिमन्ताविवाम्बुदौ ॥ 038c
सुवर्णविकृतान्बाणान्विमुञ्चन्तावरिन्दमौ । 039a
भास्वरं व्योम चक्राते महोल्काभिरिव प्रभो ॥ 039c
ताभ्यां मुक्ताः शरा राजन्गार्ध्रपत्राश्चकाशिरे । 040a
श्रेण्यः शरदि मत्तानां सारसानामिवाम्बरे ॥ 040c
संसक्तं सूतपुत्रेण दृष्ट्वा भीममरिन्दमम् । 041a
अतिभारममन्येतां भीमे कृष्णधनञ्जयौ ॥ 041c
तत्राधिरथिभीमाभ्यां शरैर्मुक्तैर्दृढं हताः । 042a
इषुपातमतिक्रम्य पेतुरश्वनरद्विपाः ॥ 042c
पतद्भिः पतितैश्चान्यैर्गतासुभिरनेकशः । 043a
कृतो राजन्महाराज पुत्राणां ते जनक्षयः ॥ 043c
मनुष्याश्वगजानां च शरीरैर्गतजीवितैः । 044a
क्षणेन भूमिः सञ्जज्ञे संवृता भरतर्षभ ॥ ॥ 044c

इति श्रीमन्महाभारते द्रोणपर्वणि जयद्रथवधपर्वणि चतुर्दशदिवसयुद्धे द्वात्रिंशदधिकशततमोऽध्यायः ॥ 132 ॥

5-132-27 कुण्डलितौ द्वौ श्लोकौ झ. पुस्तके एव वर्तेते । भृगूत्तमधनुर्धरो रामः ॥ 5-132-31 कर्कैः श्वेतैरश्वैः ॥ 5-132-35 समाजं रङ्गम् । एकस्यैव कस्यचित् नान्यस्य ॥ द्वात्रिंशदधिकशततमोऽध्यायः ॥