श्रीः
अध्यायः 131
भीमेन कर्णस्य पराजयः ॥ 1 ॥
सञ्जय उवाच 001
वर्तमाने महाराज सङ्ग्रामे रोमहर्षणे । 001a
व्याकुलेषु च सर्वेषु पीड्यमानेषु सर्वशः ॥ 001c
राधेयो भीममानर्च्छ युद्धाय भरतर्षभ । 002a
यथा नागो वने नागं मत्तो मत्तमभिद्रवेत् ॥ 002c
'ततो व्यायच्छतामस्त्रैः पृथक्पृथगरिन्दमौ । 003a
मृदुपूर्वं च राधेयो दृढपूर्वं च पाण्डवः ॥' 003c
धृतराष्ट्र उवाच 004
यौ तौ कर्णश्च भीमश्च सम्प्रयुद्धौ महाबलौ । 004a
अर्जुनस्य रथोपान्ते कीदृशः सोऽभवद्रणः ॥ 004c
पूर्वं हि निर्जितः कर्णो भीमसेनेन संयुगे । 005a
कथं भूयः स राधेयो भीममागान्महारथः ॥ 005c
भीमो वा सूततनयं प्रत्युद्यातः कथं रणे । 006a
महारथसमाख्यातं पृथिव्यां प्रवरं रथम् ॥ 006c
भीष्मद्रोणावतिक्रम्य धर्मराजो युधिष्ठिरः । 007a
नान्यतो भयमादत्त विना कर्णान्महारथात् ॥ 007c
भयाद्यस्य महाबाहो न शेते बहुलाः समाः । 008a
चिन्तयन्नित्यशो वीर्यं राधेयस्य महात्मनः । 008c
तं कथं सूतपुत्रं तु भीमोऽयोधयताहवे ॥ 008e
ब्रह्मण्यं वीर्यसम्पन्नं समरेष्वनिवर्तिनम् । 009a
कथं कर्णं युधां श्रेष्ठं योधयामास पाण्डवः ॥ 009c
यौ तौ समीयतुर्वीरौ वैकर्तनवृकोदरौ । 010a
कथं तावत्र युध्येतां महाबलपराक्रमौ ॥ 010c
भ्रातृत्वं दर्शितं पूर्वं घृणी चापि स सूतजः । 011a
कथं भीमेन युयुधे कुन्त्या वाक्यमनुस्मरन् ॥ 011c
भीमो वा सूतपुत्रेण स्मरन्वैरं पुरा कृतम् । 012a
अयुध्यत कथं शूरः कर्णेन सह संयुगे ॥ 012c
आशास्ते च सदा सूतपुत्रे दुर्योधनो मम । 013a
कर्णो जेष्यति सङ्ग्रामे समस्तान्पाण्डवानिति ॥ 013c
जयाशा यत्र पुत्रस्य मम मन्दस्य संयुगे । 014a
स कथं भीमकर्माणं भीमसेनमयोधयत् ॥ 014c
यं समासाद्य पुत्रैर्मे कृतं वैरं महारथैः । 015a
तं सूततनयं तात कथं भीमो ह्ययोधयत् ॥ 015c
अनेकान्विप्रकारांश्च सूतपुत्रसमुद्भवान् । 016a
स्मरमाणः कथं भीमो युयुधे सूतसूनुना ॥ 016c
योऽजयत्पृथिवीं सर्वां रथेनैकेन वीर्यवान् । 017a
तं सूततनयं युद्धे कथं भीमो ह्ययोधयत् ॥ 017c
यो जातः कुण्डलाभ्यां च कवचेन सहैव च । 018a
तं सूतपुत्रं समरे भीमः कथमयोधयत् ॥ 018c
'अस्त्रहेतोः पुरा तात भार्गवं समपूजयत् । 019a
तस्य प्रसादाद्ब्रह्मास्त्रं लब्धवांश्च भृगूत्तमात् ॥' 019c
यथा तयोर्युद्धमभूद्यश्चासीद्विजयी तयोः । 020a
तन्ममाचक्ष्व तत्त्वेन कुशलो ह्यसि सञ्जय ॥ 020c
सञ्जय उवाच 021
भीमसेनस्तु राधेयमुत्सृज्य रथिनां वरम् । 021a
इयेष गन्तुं यत्रास्तां वीरौ कृष्णधनञ्जयौ ॥ 021c
तं प्रयान्तमभिद्रुत्य राधेयः कङ्कपत्रिभिः । 022a
अभ्यवर्षन्महाराज मेघो वृष्ट्येव पर्वतम् ॥ 022c
फुल्लता पङ्कजेनेव वक्त्रेण विहसन्बली । 023a
आजुहाव रणे यान्तं भीममाधिरथिस्तदा ॥ 023c
कर्ण उवाच 024
भीमाहितैस्तव रणः स्वप्नेऽपि न विभावितः । 024a
तद्दर्शयसि कस्मान्मे पृष्ठं पार्थदिदृक्षया ॥ 024c
कुन्त्याः पुत्रस्य सदृशं नेदं पाण्डवनन्दन । 025a
तेन मामभितः स्थित्वा शरवर्षैरवाकिर ॥ 025c
सञ्जय उवाच 026
भीमसेनस्तदाह्वानं कर्णान्नामर्षयद्युधि । 026a
अर्धमण्डलमावृत्य सूतपुत्रमयोधयत् ॥ 026c
अवक्रगामिभिर्बाणैरभ्यवर्षन्महायशाः । 027a
दंशितं द्वैरथे यत्तं सर्वशस्त्रविशारदम् ॥ 027c
विधित्सुः कलहस्यान्तं जिघांसुः कर्णमक्षिणोत् ॥ 028ac
हत्वा तस्यानुगांस्तं च हन्तुकामो महाबलः । 029a
तस्मै व्यसृजदुग्राणि विविधानि परन्तपः । 029c
अमर्षात्पाण्डवः क्रुद्धः शरवर्षाणि मारिष ॥ 029e
तस्य तानीषुवर्षाणि मत्तद्विरदगामिनः । 030a
सूतपुत्रोऽस्त्रमायाभिरग्रसत्परमास्त्रवित् ॥ 030c
स यथावन्महाबाहुर्विद्यया वै सुपूजितः । 031a
आचार्यवन्महेष्वासः कर्णः पर्यचरद्बली ॥ 031c
युध्यमानं तु संरम्भाद्भीमसेनं हसन्निव । 032a
अभ्यपद्यत कौन्तेयं कर्णो राजन्वृकोदरम् ॥ 032c
तन्नामृष्यत कौन्तेयः कर्णस्य स्मितमाहवे । 033a
युध्यमानेषु वीरेषु पश्यत्सु च समन्ततः ॥ 033c
तं भीमसेनः सम्प्राप्तं वत्सदन्तैः स्तनान्तरे । 034a
विव्याध बलवान्क्रुद्धस्तोत्रैरिव महाद्विपम् ॥ 034c
पुनश्च सूतपुत्रं तु स्वर्णपुङ्खैः शिलाशितैः । 035a
सुमुक्तैश्चित्रवर्माणं निर्बिभेद त्रिसप्तभिः ॥ 035c
कर्णो जाम्बूनदैर्जालैः सञ्छन्नान्वातरंहसः । 036a
हयान्विव्याध भीमस्य पञ्चभिः पञ्चभिः शरैः ॥ 036c
ततो बाणमयं जालं भीमसेनरथं प्रति । 037a
कर्णेन विहितं राजन्निमेषार्धाददृश्यत ॥ 037c
सरथः सध्वजस्तत्र ससूतः पाण्डवस्तदा । 038a
प्राच्छाद्यत महाराज कर्णचापच्युतैः शरैः ॥ 038c
तस्य कर्णश्चतुःषष्ट्या व्यधमत्कवचं दृढम् । 039a
क्रुद्धश्चाप्यहनत्पार्थं नाराचैर्मर्मभेदिभिः ॥ 039c
ततोऽचिन्त्य महाबाहुः कर्णकार्मुकनिःसृतान् । 040a
समाश्लिष्यदसम्भ्रान्तः सूतपुत्रं वृकोदरः ॥ 040c
स कर्णचापप्रभवानिषूनाशीविषोपमान् । 041a
बिभ्रद्भीमो महाराज न जगाम व्यथां रणे ॥ 041c
ततो द्वात्रिंशता भल्लैर्निशितैस्तिग्मतेजनैः । 042a
विव्याध समरे कर्णं भीमसेनः प्रतापवान् ॥ 042c
अयत्नेनैव तं कर्णः शरैर्भृशमवाकिरत् । 043a
भीमसेनं महाबाहुं सैन्धवस्य वधैषिणम् ॥ 043c
मृदुपूर्वं तु राधेयो भीममाजावयोधयत् । 044a
क्रोधपूर्वं तथा भीमः पूर्ववैरमनुस्मरन् ॥ 044c
तं भीमसेनो नामृष्यदवमानममर्षणः । 045a
स तस्मै व्यसृजत्तूर्णं शरवर्षममित्रहा ॥ 045c
ते शराः प्रेषितास्तेन भीमसेनेन संयुगे । 046a
निपेतुः सर्वतो वीरे कूजन्त इव पक्षिणः ॥ 046c
हेमपुङ्खा महावेगा भीमसेनधनुश्च्युताः । 047a
प्राच्छादयंस्ते राधेयं शलभा इव पावकम् ॥ 047c
कर्णस्तु रथिनां श्रेष्ठश्छाद्यमानः समन्ततः । 048a
राजन्व्यसृजदुग्राणि शरवर्षाणि भारत ॥ 048c
तस्य तानशनिप्रख्यानिषून्समरशोभिनः । 049a
चिच्छेद बहुभिर्भल्लैरसम्प्राप्तान्वृकोदरः ॥ 049c
पुनश्च शरवर्षेण च्छादयामास भारत । 050a
कर्णो वैकर्तनो युद्धे भीमसेनमरिन्दमः ॥ 050c
तत्र भारत भीमं तु दृष्टवन्तः स्म सायकैः । 051a
समाचिततनुं सङ्ख्ये श्वाविधं शललैरिव ॥ 051c
हेमपुङ्खाञ्छिलाधौतान्कर्णचापच्युताञ्छरान् । 052a
दधार समरे वीरः स्वरश्मीनिव रश्मिमान् ॥' 052c
रुधिरोक्षितसर्वाङ्गो भीमसेनो व्यराजत । 053a
समृद्धकुसुमापीडो वसन्तेऽशोकवृक्षवत् ॥ 053c
तत्तु भीमो महाबाहोः कर्णस्य चरितं रणे । 054a
नामृष्यत महाबाहुः क्रोधादुद्वृत्तलोचनः ॥ 054c
स कर्णं पञ्चविंशत्या नाराचानां समार्पयत् । 055a
महीधरमिव श्वेतं गूढपादैर्विषोल्बणैः ॥ 055c
पुनरेव च विव्याध षड्भिरष्टाभिरेव च । 056a
मर्मस्वमरविक्रान्तः सूतपुत्रं तनुत्यजम् ॥ 056c
पुनरन्येन बाणेन भीमसेनः प्रतापवान् । 057a
चिच्छेद कार्मुकं तूर्णं कर्णस्य प्रहसन्निव ॥ 057c
जघान चतुरश्चाश्वान्सूतं च त्वरितः शरैः । 058a
नाराचैरर्करश्म्याभैः कर्णं विव्याध चोरसि ॥ 058c
ते जग्मुर्धरणीमाशु कर्णं निर्भिद्य पत्रिणः । 059a
यथा जलधरं भित्त्वा दिवाकरमरीचयः ॥ 059c
स वैक्लव्यं महत्प्राप्य च्छिन्नधन्वा शराहतः । 060a
तथा पुरुषमानी स लज्जामुत्सृज्य भारत । 060c
भीमसेनभयात्कर्णः प्रत्यपायाद्रथान्तरम् ॥ ॥ 060e
इति श्रीमन्महाभारते द्रोणपर्वणि जयद्रथवधपर्वणि चतुर्दशदिवसयुद्धे एकत्रिंशदधिकशततमोऽध्यायः ॥ 131 ॥
5-131-11 पूर्वमुद्योगे दर्शितमुद्भावितं भ्रातृत्वं कुन्त्या वाक्यं च चतुर्णामवध्यत्वलक्षणं चानुस्मरन्नित्यन्वयः ॥ 5-131-25 अभितः सम्मुखे ॥ 5-131-131 एकत्रिंशदधिकशततमोऽध्यायः ॥