श्रीः
अध्यायः 130
द्रोणदुर्योधनसंवादो दुर्योधनयुद्धं च ॥ 1 ॥
सञ्जय उवाच 001
तस्मिन्विलुलिते सैन्ये सैन्धवायार्जुने गते । 001a
सात्वते भीमसेने च पुत्रस्ते द्रोणमभ्ययात् । 001c
त्वरन्नेकरथेनैव बहु कृत्यं विचिन्तयन् ॥ 001e
स रथस्तव पुत्रस्य त्वरया परया युतः । 002a
तूर्णमभ्यद्रवद्द्रोणं मनोमारुतवेगवान् ॥ 002c
'इह दृष्ट इतो नष्टः सरथः प्राद्रवन्नृपः । 003a
मुहूर्तादिव पुत्रस्ते द्रोणमासाद्य मारिष ।' 003c
ससम्भ्रमामिदं वाक्यमब्रवीत्कुरनन्दनः ॥ 003e
अर्जुनो भीमसेनश्च सात्यकिश्चापराजितः । 004a
विजित्य सर्वसैन्यानि सुमहान्ति महारथाः ॥ 004c
सम्प्राप्ताः सिन्धुराजस्य समीपमनिवारिताः । 005a
व्यायच्छन्ति च तत्रापि सर्व एवापराजिताः ॥ 005c
यदि तावद्रणे पार्थो व्यतिक्रान्तो महारथः । 006a
कथं सात्यकिभीमाभ्यां व्यतिक्रान्तोऽसि मानद ॥ 006c
आश्चर्यभूतो लोकेऽस्मिन्समुद्रस्येव शोषणम् । 007a
निर्जयस्तव विप्राग्र्य सात्वतेनार्जुनेन च । 007c
तथैव भीमसेनेन लोकः संवदते भृशम् ॥ 007e
कथं द्रोणो जितः सङ्ख्ये धनुर्वेदस्य पारगः । 008a
इत्येवं ब्रुवते योधा अश्रद्धेयमिदं तव ॥ 008c
नाश एव तु मे नूनं मन्दभाग्यस्य संयुगे । 009a
यत्र त्वां पुरुषव्याघ्रं व्यतिक्रान्तास्त्रयो रथाः ॥ 009c
द्रोण उवाच 010
एवं गते तु कृत्येऽस्मिन्ब्रूहि यत्ते विवक्षितम् । 010a
यद्गतं गतमेवेदं शेषं चिन्तय मानद ॥ 010c
दुर्योधन उवाच 011
यत्कृत्यं सिन्धुराजस्य प्राप्तकालमनन्तरम् । 011a
तत्संविधीयतां क्षिप्रं साधु सञ्चिन्त्य नो द्विज ॥ 011c
द्रोण उवाच 012
चिन्त्यं बहुविधं तात यत्कृत्यं तच्छृणुष्व मे । 012a
त्रयो हि समतिक्रान्ताः पाण्डवानां महारथाः ॥ 012c
यावत्तेषां भयं पश्चात्तावदेषां पुरःसरम् । 013a
तद्गरीयस्तरं मन्ये यत्र कृष्णधनञ्जयौ ॥ 013c
सा पुरस्ताच्च पश्चाच्च गृहीता भारती चमूः । 014a
तत्र कृत्यमहं मन्ये सैन्धवस्याभिरक्षणम् ॥ 014c
स नो रक्ष्यतमस्तात क्रुद्धाद्भीतो धनञ्जयात् । 015a
गतौ च सैन्धवं भीमौ युयुधानवृकोदरौ ॥ 015c
सम्प्राप्तं तदिदं द्यूतं यत्तच्छकुनिबुद्धिजम् । 016a
न सभायां जयो वृत्तो नापि तत्र पराजयः । 016c
इह नो ग्लहमानानामद्य तावज्जयाजयौ ॥ 016e
यान्स्म तान्ग्लहते घोराञ्छकुनिः कुरुसंसदि । 017a
अक्षान्स मन्यमानः प्राक्शरास्ते हि दुरासदाः ॥ 017c
यत्र ते बहवस्तात कौरवेया व्यवस्थिताः । 018a
सेनां दुरोदरं विद्धि शरानक्षान्विशाम्पते । 018c
ग्लहं च सैन्धवं राजंस्तत्र द्यूतस्य निश्चयः ॥ 018e
सैन्धवे तु महद्द्यूतं समासक्तं परैः सह । 019a
अत्र ते ध्रुवमायत्तो जयो वाऽजय एव वा ॥ 019c
अत्र सर्वे महाराज त्यक्त्वा जीवितमात्मनः । 020a
सैन्धवस्य रणे रक्षां विधिवत्कर्तुमर्हथ । 020c
तत्र नो ग्लहमानानां ध्रुवौ जयपराजयौ ॥ 020e
यत्र ते परमेष्वासा यत्ता रक्षन्ति सैन्धवम् । 021a
तत्र गच्छ स्वयं शीघ्रं तांश्च रक्षस्व रक्षिणः ॥ 021c
इहैव त्वहमासिष्ये प्रेषयिष्यामि चापरान् । 022a
निरोत्स्यामि च पाञ्चालान्सहितान्पाण्डुसृञ्जयैः ॥ 022c
सञ्जय उवाच 023
ततो दुर्योधनोऽगच्छत्तूर्णमाचार्यशासनात् । 023a
उद्यम्यात्मानमुग्राय कर्मणे स पदानुगः ॥ 023c
चक्ररक्षौ तु पाञ्चाल्यौ युधामन्यूत्तमौजसौ । 024a
बाह्येन सेनामभ्येत्य जग्मतुः सव्यसाचिनम् ॥ 024c
यौ तु पूर्वं महाराज वारितौ कृतवर्मणा । 025a
प्रविष्टे त्वर्जुने राजंस्तव सैन्यं युयुत्सया ॥ 025c
पार्श्वे भित्त्वा चमूं वीरौ प्रविष्टौ तव वाहिनीम् । 026a
पार्श्वेन सैन्यमायान्तौ कुरुराजो ददर्श ह ॥ 026c
ताभ्यां दुर्योधनः सार्धमकरोत्सङ्ख्यमुत्तमम् । 027a
त्वरितस्त्वरमाणाभ्यां भ्रातृभ्यां भारतो बली ॥ 027c
तावेनमभ्यद्रवतामुभावुद्यतकार्मुकौ । 028a
महारथसमाख्यातौ क्षत्रियप्रवरौ युधि ॥ 028c
तमविध्यद्युधामन्युस्त्रिंशता कङ्कपत्रिभिः । 029a
विंशत्या सारथिं चास्य चतुर्भिश्चतुरो हयान् ॥ 029c
दुर्योधनो युधामन्योर्ध्वजमेकेषुणाऽच्छिनत् । 030a
एकेन कार्मुकं चास्य चकर्त तनयस्तव ॥ 030c
सारथिं चास्य भल्लेन रथनीडादपाहरत् । 031a
ततोऽविध्यच्छरैस्तीक्ष्णैश्चतुर्भिश्चतुरो हयान् ॥ 031c
युधामन्युश्च सङ्क्रुद्धः शरांस्त्रिंशतमाहवे । 032a
व्यसृजत्तव पुत्रस्य त्वरमाणः स्तनान्तरे ॥ 032c
तथोत्तमौजाः सङ्क्रुद्धः शरैर्हेमविभूषितैः । 033a
अविध्यत्सारथिं चास्य प्राहिणोद्यमसादनम् ॥ 033c
दुर्योधनोऽपि राजेन्द्र पाञ्चाल्यस्यौत्तमौजसः । 034a
जघान चतुरोऽस्याश्वानुभौ तौ पार्ष्णिसारथी ॥ 034c
उत्तमौजा हताश्वस्तु हतसूतश्च संयुगे । 035a
आरुरोह रथं भ्रातुर्युधामन्योरभित्वरन् ॥ 035c
स रथं प्राप्य तं भ्रातुर्दुर्योधनहयाञ्शरैः । 036a
बहुभिस्ताडयामास ते हताः प्रापतन्भुवि ॥ 036c
हयेषु पतितेष्वस्य चिच्छेद परमेषुणा । 037a
युधामन्युर्धनुः शीघ्रं शरावापं च संयुगे । 037c
'अविध्यत्सारथिं चास्य प्राहिणोद्यमसादनम् ॥' 037e
हताश्वसूतात्सरथादवतीर्य नराधिपः । 038a
गदामादाय ते पुत्रः पाञ्चल्यावभ्यधावत ॥ 038c
तमापतन्तं सम्प्रेक्ष्य क्रुद्धं कुरुपतिं तदा । 039a
अवप्लुतौ रथोपस्थाद्युधामन्यूत्तमौजसौ ॥ 039c
ततः स हेमचित्रं तं गदया स्यन्दनं गदी । 040a
सङ्क्रुद्धः पोथयामास साश्वसूतध्वजं नृप ॥ 040c
'एतदीदृशकं पुत्रस्तवाकार्षीज्जनाधिप । 041a
गदया गदिनां श्रेष्ठः सर्वलोकमहारथः ॥' 041c
भङ्क्त्वा रथं स पुत्रस्ते हताश्वो हतसारथिः । 042a
मद्रराजरथं तूर्णमारुरोह परन्तपः ॥ 042c
पाञ्चालानां ततो मुख्यौ राजपुत्रौ महारथौ । 043a
रथावन्यौ समारुह्य बीभत्सुमभिजग्मतुः ॥ ॥ 043c
इति श्रीमन्महाभारते द्रोणपर्वणि जयद्रथवधपर्वणि चतुर्दशदिवसयुद्धे त्रिंशदधिकशततमोऽध्यायः ॥ 130 ॥
5-130-17 तान्प्रसिद्धान् यानक्षान् । अक्षान् मन्यमानः प्राग् ग्लहतेस्म इत्यन्वयः ॥ 5-130-18 यत्र सभायाम् । दूरोदरं द्यूतकारिणम् ॥ 5-130-20 जयपराजयौ जयः पराजयो वेत्यर्थः ॥ 5-130-130 त्रिंशदधिकशततमोऽध्यायः ॥