श्रीः अध्यायः 129 भीमेन कर्णपराजयो दुःशलवधश्च ॥ 1 ॥ धृतराष्ट्र उवाच 001
निनदन्तं तथा तं तु भीमसेनं महाबलम् । 001a
मेघस्तनितनिर्घोषं के वीराः पर्यवारयन् ॥ 001c
न हि पश्याम्यहं तं वै त्रिषु लोकेषु कञ्चन । 002a
क्रुद्धस्य भीमसेनस्य यस्तिष्ठेदग्रतो रणे ॥ 002c
गदां युयुत्समानस्य कालस्येवेह सञ्जय । 003a
न हि पश्याम्यहं युद्धे यस्तिष्ठेदग्रतः पुमान् ॥ 003c
रथं रथेन यो हन्यात्कुञ्जरं कुञ्जरेण च । 004a
कस्तस्य समरे स्थाता साक्षादपि पुरन्दरः ॥ 004c
क्रुद्धस्य भीमसेनस्य मम पुत्राञ्जिघांसतः । 005a
दुर्योधनहिते युक्ताः समतिष्ठन्त केऽग्रतः ॥ 005c
भीमसेनदवाग्नेस्तु मम पुत्रांस्तृणोलपम् । 006a
प्रधक्ष्यतो रणमुखे केऽतिष्ठन्नग्रतो नराः ॥ 006c
काल्यमानांस्तु पुत्रान्मे दृष्ट्वा भीमस्य संयुगे । 007a
कालेनेव प्रजाः सर्वाः के भीमं पर्यवारयन् ॥ 007c
न मेऽर्जुनाद्भयं तादृक्कृष्णान्नापि च सात्वतात् । 008a
हुतभुग्जन्मनो नैव यादृग्भीमाद्भयं मम ॥ 008c
भीमवह्नेः प्रदीप्तस्य मम पुत्रान्दिधक्षतः । 009a
के शूराः पर्यवर्तन्त तन्ममाचक्ष्व सञ्जय ॥ 009c
सञ्जय उवाच 010
तथा तु नर्दमानं तं भीमसेनं महाबलम् । 010a
तुमुलेनैव शब्देन कर्णोऽप्यभ्यद्रवद्बली ॥ 010c
व्याक्षिपन्सुमहच्चापमतिमात्रममर्षणः । 011a
कर्णः सुयुद्धमाकाङ्क्षन्दर्शयिष्यन्बलं मृधे ॥ 011c
रुरोध मार्गं भीमस्य वातस्येव महीरुहः । 012a
भीमोऽपि दृष्ट्वा सावेगं पुरो वैकर्तनं स्थितम् ॥ 012c
चुकोप बलवद्वीरश्चिक्षेपास्य शिलाशितान् । 013a
तान्प्रत्यगृह्णात्कर्णोऽपि प्रतीपं प्रापयच्छरान् ॥ 013c
ततस्तु सर्वयोधानां यततां प्रेक्षतां तदा । 014a
प्रावेपन्निव गात्राणि कर्णभीमसमागमे ॥ 014c
रथिनां सादिनां चैव तयोः श्रुत्वा तलस्वनम् । 015a
भीमसेनस्य निनदं श्रुत्वा घोरं रणाजिरे ॥ 015c
खं च भूमिं च संरुद्धां मेनिरे क्षत्रियर्षभाः । 016a
पुनर्घोरेण नादेन पाण्डवस्य महात्मनः ॥ 016c
समरे सर्वयोधानां धनूंष्यभ्यपतन्क्षितौ । 017a
शस्त्राणि न्यपतन्दोर्भ्यः केषाञ्चिच्चासवोऽद्रवन् ॥ 017c
वित्रस्तानि च सर्वाणि शकृन्मूत्रं प्रसुस्रुवुः । 018a
वाहनानि च सर्वाणि बभूवुर्विमनांसि च ॥ 018c
प्रादुरासन्निमित्तानि घोराणि सुबहून्युत । 019a
गृध्रकङ्कबलैश्चासीदन्तरिक्षं समावृतम् ॥ 019c
तस्मिन्सुतुमुले राजन्कर्णभीमसमागमे । 020a
ततः कर्णस्तु विंशत्या शराणां भीममार्दयत् ॥ 020c
विव्याध चास्य त्वरितः सूतं पञ्चभिराशुगैः । 021a
प्रहस्य भीमसेनोऽपि कर्णं प्रत्याद्रवद्रणे ॥ 021c
सायकानां चतुःषष्ट्या क्षिप्रकारी महायशाः । 022a
तस्य कर्णो महेष्वासः सायकांश्चतुरोऽक्षिपत् ॥ 022c
असम्प्राप्तांश्च तान्भीमः सायकैर्नतपर्वभिः । 023a
चिच्छेद बहुधा राजन्दर्शयन्पाणिलाघवम् ॥ 023c
तं कर्णश्छादयामास शरव्रातैरनेकशः । 024a
सञ्छाद्यमानः कर्णेन बहुधा पाण्डुनन्दनः ॥ 024c
चिच्छेद चापं कर्णस्य मुष्टिदेशे महारथः । 025a
विव्याध चैनं बहुभिः सायकैर्नतपर्वभिः ॥ 025c
अथान्यद्धनुरादाय सञ्यं कृत्वा च सूतजः । 026a
विव्याध समरे भीमं भीमकर्मा महारथः ॥ 026c
तस्य भीमो भृशं क्रुद्धस्त्रीञ्शरान्नतपर्वणः । 027a
निचखानोरसि क्रुद्धः सूतपुत्रस्य वेगतः ॥ 027c
तैः कर्णोऽराजत शरैरुरोमध्यगतैः सदा । 028a
महीधर इवोदग्रस्त्रिशृङ्गो भरतर्षभ ॥ 028c
सुस्राव चास्य रुधिरं विद्धस्य परमेषुभिः । 029a
धातुप्रस्यन्दिनः शैलाद्यथा गैरिकधातवः ॥ 029c
किञ्चिद्विचलितः कर्णः सुप्रहाराभिपीडितः । 030a
आकर्णपूर्णमाकृष्य भीमं विव्याध सायकैः ॥ 030c
चिक्षेप च पुनर्बाणाञ्शतशोऽथ सहस्रशः । 031a
स शरैरर्दितस्तेन कर्णेन दृढधन्विना । 031c
धनुर्ज्यामच्छिनत्तूर्णं भीमस्तस्य क्षुरेण ह ॥ 031e
सारथिं चास्य भल्लेन रथनीडादपातयत् । 032a
वाहांश्च चतुरस्तस्य व्यसूंश्चक्रे महारथः ॥ 032c
हताश्वात्तु रथात्कर्णः समाप्लुत्य विशाम्पते । 033a
स्यन्दनं वृषसेनस्य तूर्णमापुप्लुवे भयात् ॥ 033c
निर्जित्य तु रणे कर्णं भीमसेनः प्रतापवान् । 034a
ननाद बलवान्नादं पर्जन्यनिनदोपमम् ॥ 034c
तस्य तं निनदं श्रुत्वा प्रहृष्टोऽभूद्युधिष्ठिरः । 035a
कर्णं पराजितं मत्वा भीमसेनेन संयुगे ॥ 035c
समन्ताच्छङ्खनिनदं पाण्डुसेनाऽकरोत्तदा । 036a
शत्रुसेनाध्वनिं श्रुत्वा तावका ह्यनदन्भृशम् ॥ 036c
स शङ्खबाणनिनदैर्हर्षाद्राजा स्ववाहिनीम् । 037a
चक्रे युधिष्ठिरः सङ्ख्ये हर्षनादैश्च सङ्कुलाम् ॥ 037c
गाण्डीवं व्याक्षिपत्पार्थः कृष्णोऽप्यब्जमवादयत् | 038a
तमन्तर्धाय निनदं भीमस्य नदतो ध्वनिः । 038c
अश्रूयत तदा राजन्सर्वसैन्येषु दारुणः ॥ 038e
ततो व्यायच्छतामस्त्रैः पृथक्पृथगजिह्मगैः । 039a
मृदुपूर्वं तु राधेयो दृढपूर्वं तु पाण्डवः ॥ 039c
'भीमोऽपि च महाराज वैकर्तनमुपाद्रवत् । 040a
आसुरे तु महासैन्ये तारकं पावकिर्यथा ॥ 040c
तयोरेवं महद्युद्धमभवद्भीमकर्णयोः । 041a
तं भीमसेनो महता शरवर्षेण वारयन् ॥ 041c
विव्याध सारथिं चास्य हयांश्च चतुरः शरैः । 042a
ध्वजं चास्य पताकां च भल्लैः सन्नतपर्वभिः । 042c
रथं च चक्ररक्षौ च भीमश्चिच्छेद मारिष ॥ 042e
कर्णोऽपि रथिनां श्रेष्ठो भीमसेनेन कम्पितः । 043a
खड्गचर्मधरो राजन्भीममभ्यद्रवद्बली ॥ 043c
भीमश्चिच्छेद खड्गं च चर्मणा सह मारिष ॥ 044ac
दृष्ट्वा कर्णं च पार्थेन बाधितं बहुभिः शरैः । 045a
दुर्योधनो महाराज दुश्शलं प्रत्यभाषत । 045c
कर्णं कृच्छ्रगतं पश्य शीघ्रं यानं प्रयच्छ ह ॥ 045e
सञ्जय उवाच 046
एवमुक्तस्ततो राज्ञा दुश्शलः समुपाद्रवत् । 046a
दुश्शलस्य रथं कर्णश्चारुरोह महारथः ॥ 046c
तौ पार्थः सहसा गत्वा विव्याध दशभिः शरैः । 047a
पुनश्च कर्णं विद्ध्वाऽपि दुश्शलस्य शिरोऽहरत् ॥ 047c
दुश्शलं निहतं दृष्ट्वा भीमसेनेन मारिष । 048a
तस्यैव धनुरादाय कर्णो विव्याध पाण्डवम् ॥ 048c
अन्योन्यं समरे वीरौ युयुधाते महाबलौ । 049a
शत्रुघ्नौ शत्रुमध्ये तु बलवज्रभृताविव ॥ 049c
भीमो विद्ध्वा हयांश्चैव सारथिं च पुनः पुनः । 050a
कर्णमभ्यद्रवत्पार्थः प्रहसंश्च महाबलः ॥ 050c
ततो व्यायच्छमानस्य भीमसेनस्य संयुगे । 051a
तत्सैन्यं कलिलीभूतं न प्राज्ञायत किञ्चन ॥ ॥ 051c

इति श्रीमन्महाभारते द्रोणपर्वणि जयद्रथवधपर्वणि चतुर्दशदिवसयुद्धे एकोनत्रिंशदधिकशततमोऽध्यायः ॥ 129 ॥

5-129-03 युयुत्समानस्य व्यापारयतः ॥ 5-129-12 सावेगं सत्वरम् ॥ 5-129-16 संरुद्धामेकतामापन्नाम् ॥ 5-129-39 व्यायच्छतां प्रहरताम् ॥ एकोनत्रिंशदधिकशततमोऽध्यायः ॥ 129 ॥