श्रीः
अध्यायः 128
पुनर्द्रोणरथान्भङ्क्त्वा गच्छतो भीमस्यार्जुनदर्शनेन सिंहनादः ॥ 1 ॥ तच्छ्रवणेन युधिष्ठिरस्य हर्षोदयः ॥ 2 ॥
सञ्जय उवाच 001
समुत्तीर्णं रथानीकं पाण्डवं विहसन्रणे । 001a
विवारयिषुराचार्यः शरवर्षैरवाकिरत् ॥ 001c
पिबन्निव शरौघांस्तान्द्रोणचापपरिच्युतान् । 002a
सोऽभ्यद्रवत सोदर्यान्मोहयन्बलमायया ॥ 002c
तं मृधे वेगमास्थाय परं परमधन्विनः । 003a
चोदितास्तव पुत्रैश्च सर्वतः पर्यवारयन् ॥ 003c
स तैस्तु संवृतो भीमः क्रोधेन प्रदहन्निव । 004a
उद्यच्छन्स गदां तेभ्यः सुघोरां सिंहवन्नदन् । 004c
अवासृजच्च वेगेन शत्रुपक्षविनाशिनीम् ॥ 004e
इन्द्राशनिरिवेन्द्रेण प्रविद्धा संहतात्मना । 005a
प्रामथ्नात्सा महाराज सैनिकांस्तव संयुगे ॥ 005c
घोषेण महता राजन्पूरयन्तीव मेदिनीम् । 006a
ज्वलन्ती तेजसा भीमा त्रासयामास ते सुतान् ॥ 006c
तां पतन्तीं महावेगां दृष्ट्वा तेजोभिसंवृताम् । 007a
प्राद्रवंस्तावकाः सर्वे नदन्तो भैरवान्रवान् ॥ 007c
सिंहनादमसह्यं हि श्रुत्वा भीमस्य संयुगे । 008a
प्रापतन्मनुजास्त्रस्ता रथेभ्यो रथिनस्तदा ॥ 008c
ते हन्यमाना भीमेन गदाहस्तेन तावकाः । 009a
प्राद्रवन्त रणे भीता व्याघ्रघ्राता मृगा इव ॥ 009c
स तान्विद्राव्य कौन्तेयः सङ्ख्येऽमित्रान्दुरासदान् । 010a
सुपर्ण इव वेगेन पक्षिराडत्यगाच्चमूम् ॥ 010c
तथा तु विप्रकुर्वाणं रथयूथपयूथपम् । 011a
भारद्वाजो महाराज भीमसेनं समभ्ययात् ॥ 011c
भीमं तु समरे द्रोणो वारयित्वा शरोर्मिभिः । 012a
अकरोत्सहसा नादं पाण्डूनां भयमादधत् ॥ 012c
तद्युद्धमासीत्सुमहद्धोरं देवासुरोपमम् । 013a
द्रोणस्य च महाराज भीमस्य च महात्मनः ॥ 013c
यदा तु विशिखैस्तीक्ष्णैर्द्रोणचापविनिःसृतैः । 014a
वध्यन्ते समरे वीराः शतशोऽथ सहस्रशः ॥ 014c
ततो रथादवप्लुत्य वेगमास्थाय पाण्डवः । 015a
निमील्य नयने राजन्पदातिर्द्रोणमभ्ययात् ॥ 015c
अंसे शिरो भीमसेनः करौ कृत्वोरसि स्थिरौ । 016a
वेगमास्थाय बलवान्मनोनिलगरुत्मताम् ॥ 016c
यथा हि गोवृषो वर्षं प्रतिगृह्णाति लीलया । 017a
तथा भीमो नरव्याघ्रः शरवर्षं समग्रहीत् ॥ 017c
स वध्यमानः समरे रथं द्रोणस्य मारिष । 018a
ईषायां पाणिना गृह्य प्रचिक्षेप महाबलः ॥ 018c
द्रोणस्तु सत्वरो राजन्क्षिप्तो भीमेन संयुगे । 019a
'ददृशे तावकैर्योधैर्विस्मयोत्फुल्ललोचनैः । 019c
परिहृत्य रथं द्रोणश्चूर्णितं तं महीतले ॥' 019e
रथमन्यं समारुह्य व्यूहद्वारं ययौ पुनः । 020a
तमायान्तं तथा दृष्ट्वा भग्नोत्साहं गुरुं तदा ॥ 020c
गत्वा वेगात्पुनर्भीमो धुरं गृह्य रथस्य तु । 021a
तमप्यतिरथं भीमश्चिक्षेप भृशरोषितः ॥ 021c
एवमष्टौ रथाः क्षिप्ता भीमसेनेन लीलया ॥ 022ac
व्यदृश्यत निमेषेण पुनः स्वरथमास्थितः । 023a
दृश्यते तावकैर्योधैर्विस्मयोत्फुल्ललोचनैः ॥ 023c
तस्मिन्क्षणे तस्य यन्ता तूर्णमश्वानचोदयत् । 024a
भीमसेनस्य कौरव्य तदद्भुतमिवाभवत् ॥ 024c
ततः स्वरथमास्थाय भीमसेनो महाबलः । 025a
अभ्यद्रवत वेगेन तव पुत्रस्य वाहिनीम् ॥ 025c
स मृद्नन्क्षत्रियानाजौ वातो वृक्षानिवोद्धतः । 026a
अगच्छद्दारयन्सेनां सिन्धुवेगो नगानिव ॥ 026c
भोजानीकं समासाद्य हार्दिक्येनाभिरक्षितम् । 027a
प्रमथ्य तरसा वीरस्तदप्यतिबलोऽभ्ययात् ॥ 027c
सन्त्रासयन्ननीकानि तलशब्देन पाण्डवः । 028a
अजयत्सर्वसैन्यानि शार्दूल इव गोवृषान् ॥ 028c
भोजानीकमतिक्रम्य दरदानां च वाहिनीम् । 029a
तथा म्लेच्छगणानन्यान्बहून्युद्धविशारदान् ॥ 029c
सात्यकिं चैव सम्प्रेक्ष्य युध्यमानं महारथम् । 030a
रथेन यत्तः कौन्तेयो वेगेन प्रययौ तदा ॥ 030c
भीमसेनो महाराज द्रष्टुकामो धनञ्जयम् । 031a
अतीत्य समरे योधांस्तावकान्पाण्डुनन्दनः ॥ 031c
सोऽपश्यदर्जुनं तत्र युध्यमानं महारथम् । 032a
सैन्धवस्य वधार्थं हि पराक्रान्तं पराक्रमी ॥ 032c
तं दृष्ट्वा पुरुषव्याघ्रश्चुक्रोश महतो रवान् । 033a
प्रावृट्काले महाराज नर्दन्निव बलाहकः ॥ 033c
तं तस्य निनदं घोरं पार्थः शुश्राव नर्दतः । 034a
वासुदेवश्च कौरव्य भीमसेनस्य संयुगे ॥ 034c
तौ श्रुत्वा युगपद्वीरौ निनदं तस्य शुष्मिणः । 035a
पुनः पुनः प्राणदतां दिदृक्षन्तौ वृकोदरम् ॥ 035c
ततः पार्थो महानादं मुञ्चन्वै माधवश्च ह । 036a
अभ्ययातां महाराज नर्दन्तौ गोवृषाविव ॥ 036c
भीमसेनरवं श्रुत्वा फल्गुनस्य च धन्विनः । 037a
अप्रीयत महाराज धर्मपुत्रो युधिष्ठिरः ॥ 037c
विशोकश्चाभवद्राजा श्रुत्वा तं निनदं तयोः । 038a
धनञ्जयस्य समरे जयमाशास्तवान्विभुः ॥ 038c
तथा तु नर्दमाने वै भीमसेने मदोत्कटे । 039a
स्मितं कृत्वा महाबाहुर्धर्मपुत्रो युधिष्ठिरः ॥ 039c
हृद्गतं मनसा प्राह ध्यात्वा धर्मभृतां वरः । 040a
दत्ता भीम त्वया संवित्कृतं गुरुवचस्तथा ॥ 040c
न हि तेषां जयो युद्धे येषां द्वेष्टाऽसि पाण्डव । 041a
दिष्ट्या जीवति सङ्ग्रामे सव्यसाची धनञ्जयः ॥ 041c
दिष्ट्या च कुशली वीरः सात्यकिः सत्यविक्रमः । 042a
दिष्ट्या शृणोमि गर्जन्तौ वासुदेवधनञ्जयौ ॥ 042c
येन शक्रं रणे जित्वा तर्पितो हव्यवाहनः । 043a
स हन्ता द्विषतां सङ्ख्ये दिष्ट्या जीवति फल्गुनः ॥ 043c
यस्य बाहुबलं सर्वे वयमाश्रित्य जीविताः । 044a
स हन्ता रिपुसैन्यानां दिष्ट्या जीवति फल्गुनः ॥ 044c
निवातकवचा येन देवैरपि सुदुर्जयाः । 045a
निर्जिता धनुषैकेन दिष्ट्या पार्थः स जीवति ॥ 045c
कौरवान्सहितान्सर्वान्गोग्रहार्थे समागतान् । 046a
योऽजयन्मत्स्यनगरे दिष्ट्या पार्थः स जीवति ॥ 046c
कालकेयसहस्राणि चतुर्दश महारणे । 047a
योऽवधीद्भुजवीर्येण दिष्ट्या पार्थः स जीवति ॥ 047c
गन्धर्वराजं बलिनं दुर्योधनकृते च वै । 048a
जितवान्योऽस्त्रवीर्येण दिष्ट्या पार्थः स जीवति ॥ 048c
किरीटमाली बलवाञ्छ्वेताश्वः कृष्णसारथिः । 049a
मम प्रियश्च सततं दिष्ट्या पार्थः स जीवति ॥ 049c
पुत्रशोकाभिसन्तप्तश्चिकीर्षन्कर्म दुष्करम् । 050a
जयद्रथवधान्वेषी प्रतिज्ञां कृतवान्हि यः । 050c
कच्चित्स सैन्धवं सङ्ख्ये हनिष्यति धनञ्जयः ॥ 050e
कच्चित्तीर्णप्रतिज्ञं हि वासुदेवेन रक्षितम् । 051a
अनस्तमित आदित्ये समेष्याम्यहमर्जुनम् ॥ 051c
कच्चित्सैन्धवको राजा दुर्योधनहिते रतः । 052a
नन्दयिष्यत्यमित्रान्हि फल्गुनेन निपातितः ॥ 052c
कच्चिद्दुर्योधनो राजा फल्गुनेन निपातितम् । 053a
दृष्ट्वा सैन्धवकं सङ्ख्ये शममस्मासु धास्यति ॥ 053c
दृष्ट्वा विनिहतान्भ्रातॄन्भीमसेनेन संयुगे । 054a
कच्चिद्दुर्योधनो मन्दः शममस्मासु यास्यति ॥ 054c
दृष्ट्वा चान्यान्महायोधान्पातितान्धरणीतले । 055a
कच्चिद्दुर्योधनो मन्दः पश्चात्तापं गमिष्यति ॥ 055c
कच्चिद्भीष्मेण नो वैरं शममेकेन यास्यति | 056a
शेषस्य रक्षणार्थं च सन्धास्यति सुयोधनः ॥ 056c
एवं बहुविधं तस्य राज्ञश्चिन्तयतस्तदा । 057a
कृपयाऽभिपरीतस्य घोरं युद्धमवर्तत ॥ ॥ 057c
इति श्रीमन्महाभारते द्रोणपर्वणि जयद्रथवधपर्वणि चतुर्दशदिवसयुद्धे अष्टाविंशत्यधिकशततमोऽध्यायः ॥ 128 ॥
5-128-2 बलमायया बलाविष्करणेन || 5-128-24 भीमसेनस्य कर्मेति शेषः ॥ 5-128-128 अष्टाविंशत्यधिकशततमोऽध्यायः ॥