श्रीः
अध्यायः 127
कतिचन धार्तराष्ट्रान्निहत्य निर्गच्छता भीमेन स्वपथं निरुन्धानस्य द्रोणस्य रथभञ्जनम् ॥ 1 ॥
भीमसेन उवाच 001
ब्रह्मेशानेन्द्रवरुणानवहद्यः पुरा रथः । 001a
तमास्थाय गतौ कृष्णौ न तयोर्विद्यते भयम् ॥ 001c
तवाज्ञां शिरसा बिभ्रदेष गच्छामि मा शुचः । 002a
समेत्य तान्नरव्याघ्रांस्तव दास्यामि संविदम् ॥ 002c
सञ्जय उवाच 003
एतावदुक्त्वा प्रययौ परिदाय युधिष्ठिरम् । 003a
धृष्टद्युम्नाय बलवान्सुहृद्भ्यश्च पुनःपुनः । 003c
धृष्टद्युम्नं चेदमाह भीमसेनो महाबलः ॥ 003e
विदितं ते महाबाहो यथा द्रोणो महारथः । 004a
ग्रहणे धर्मराजस्य सर्वोपायेन वर्तते ॥ 004c
न च मे गमने कृत्यं तादृक्पार्षत विद्यते । 005a
यादृशं रक्षणे राज्ञः कार्यमात्ययिकं हि नः ॥ 005c
एवमुक्तोऽस्मि पार्थेन प्रतिवक्तुं न चोत्सहे । 006a
प्रयास्ये तत्र यत्रासौ मुमूर्षुः सैन्धवः स्थितः ॥ 006c
धर्मराजस्य वचने स्थातव्यमविशङ्कया । 007a
यास्यामि पदवीं भ्रातुः सात्वतस्य च धीमतः ॥ 007c
सोऽद्य यत्तो रणे पार्थं परिरक्ष युधिष्ठिरम् । 008a
एतद्धि सर्वकार्याणां परमं कृत्यमाहवे ॥ 008c
तमब्रवीन्महाराज धृष्टद्युम्नो वृकोदरम् । 009a
ईप्सितं ते करिष्यामि गच्छ पार्थाविचारयन् ॥ 009c
नाहत्वा समरे द्रोणो धृष्टद्युम्नं कथञ्चन । 010a
निग्रहं धर्मराजस्य प्रकरिष्यति संयुगे ॥ 010c
सञ्जय उवाच 011
ततो निक्षिप्य राजानं धृष्टद्युम्ने च पाण्डवम् । 011a
अभिवाद्य गुरुं ज्येष्ठं प्रययौ येन फल्गुनः ॥ 011c
परिष्वक्तश्च कौन्तेयो धर्मराजेन मारुतिः । 012a
आघ्रातश्च तथा मूर्ध्नि श्रावितश्चाशिषः शुभाः ॥ 012c
[कृत्वा प्रदक्षिणान्विप्रानर्चितांस्तुष्टमानसान् । 013a
आलभ्य मङ्गलान्यष्टौ पीत्वा कैरातकं मधु ॥ 013c
द्विगुणद्रविणो वीरो मदरक्तान्तलोचनः । 014a
विप्रैः कृतस्वस्त्ययनो विजयोत्पादसूचितः ॥ 014c
पश्यन्नेवात्मनो बुद्धिं विजयानन्दकारिणीम् । 015a
अनुलोमानिलैश्चाशु प्रदर्शितजयोदयः ॥] 015c
भीमसेनो महाबाहुः कवची शुभकुण्डली । 016a
सगदः सतलत्राणः सशरी रथिनां वरः । 016c
रथमारुह्य निर्युक्तं सर्वोपकरणान्वितम् ॥' 016e
तस्य कार्ष्णायसं वर्म हेमचित्रं महर्द्धिमत् । 017a
विबभौ सर्वतः श्लिष्टं सविद्युदिव तोयदः ॥ 017c
पीतरक्तासितसितैर्वासोभिश्च सुवेष्टितः । 018a
कण्ठसूत्रेण विबभौ सेन्द्रायुध इवाम्बुदः ॥ 018c
प्रयाते भीमसेने तु तव सैन्यं युयुत्सया । 019a
पाञ्चजन्यरवो घोरः पुनरासीद्विशाम्पते ॥ 019c
तं श्रुत्वा निनदं घोरं त्रैलोक्यत्रासनं महत् । 020a
पुनर्भीमं महाबाहुं धर्मपुत्रोऽभ्यभाषत ॥ 020c
एष वृष्णिप्रवीरेण ध्मातः सलिलजो भृशम् । 021a
पृथिवीं चान्तरिक्षं च विनादयति शङ्खराट् ॥ 021c
नूनं व्यसनमापन्ने सुमहत्सव्यसाचिनि । 022a
कुरुभिर्युध्यते सार्धं सर्वैश्चक्रगदाधरः ॥ 022c
नूनमार्या महत्कुन्ती पापं व्यसनमीदृशम् । 023a
द्रौपदी च सुभद्रा च पश्यन्ति सह बन्धुभिः । 023c
तद्भीम त्वरया युक्तो याहि यत्र धनञ्जयः ॥ 023e
मुह्यतीव हि मे चित्तं धनञ्जयदिदृक्षया । 024a
दिशश्च प्रदिशः पार्थ सात्वतस्य च कारणात् ॥ 024c
गच्छगच्छेति गुरुणा सोऽनुज्ञातो वृकोदरः । 025a
ततः पाण्डुसुतो राजन्भीमसेनः प्रतापवान् ॥ 025c
बद्धगोधाङ्गुलित्राणः प्रगृहीतशरासनः । 026a
ज्येष्ठेन प्रहितो भ्रात्रा भ्राता भ्रातुः प्रियङ्करः ॥ 026c
आहत्य दुन्दुभिं भीमः शङ्खं प्रध्माप्य चासकृत् । 027a
विनद्य सिंहनादेन ज्यां विकर्षन्पुनःपुनः ॥ 027c
तेन शब्देन वीराणां पातयित्वा मनांस्युत । 028a
दर्शयन्घोरमात्मानममित्रान्सहसाऽभ्ययात् ॥ 028c
तमूहुर्जवना दान्ता विरुवन्तो हयोत्तमाः । 029a
विशोकेन सुसंयत्ता मनोमारुतरंहसः ॥ 029c
आरुजन्विरुजन्पार्थो ज्यां विकर्षंश्च पाणिना । 030a
सम्प्रकर्षन्विकर्षंश्च सेनाग्रं समलोडयत् ॥ 030c
तं प्रयान्तं महाबाहुं पाञ्चालाः सहसोमकाः । 031a
पृष्ठतोऽनुययुः शूरा मघवन्तमिवामराः ॥ 031c
तं समेत्य महाराज तावकाः पर्यवारयन् । 032a
दुःशासनश्चित्रसेनः कुण्डभेदी विविंशतिः ॥ 032c
दुर्मुखो दुःसहश्चैव विकर्णश्च शलस्तथा । 033a
विन्दानुविन्दौ सुमुखो दीर्घबाहुः सुदर्शनः ॥ 033c
वृन्दारकः सुहस्तश्च सुषेणो दीर्घलोचनः । 034a
अभयो रौद्रकर्मा च सुवर्मा दुर्विमोचनः ॥ 034c
शोभन्तो रथिनां श्रेष्ठाः सहसैन्यपदानुगाः । 035a
संयत्ताः समरे वीरा भीमसेनमुपाद्रवन् ॥ 035c
तैः समन्ताद्वृतः शूरैः समरेषु महारथः । 036a
तान्समीक्ष्य तु कौन्तेयो भीमसेनः पराक्रमी । 036c
अभ्यवर्तत वेगेन सिंहः क्षुद्रमृगानिव ॥ 036e
ते महास्त्राणि दिव्यानि तत्र वीरा अदर्शयन् । 037a
छादयन्तः शरैर्भीमं मेघाः सूर्यमिवोदितम् ॥ 037c
ततः क्रुद्धो महाराज भीमसेनः पराक्रमी । 038a
अग्रतः स्यन्दनानीकं शरवर्षैरवाकिरत् ॥ 038c
ते वध्यमानाः समरे तव पुत्रा महारथाः । 039a
भीमं भीमबला युद्धे योधयन्ति जयैषिणः ॥ 039c
ततो दुःशासनः क्रुद्धो रथशक्तिं समाक्षिपत् । 040a
सर्वपारसवीं तीक्ष्णां जिघांसुः पाण्डुनन्दनम् ॥ 040c
आपतन्तीं महाशक्तिं तव पुत्रप्रणोदिताम् । 041a
द्विधा चिच्छेद तां भीमस्तदद्भुतमिवाभवत् ॥ 041c
अथान्यैर्विशिखैस्तीक्ष्णैः सङ्क्रुद्धः कुण्डभेदिनम् । 042a
सुषेणं दीर्घनेत्रं च त्रिभिस्त्रीनवधीद्बली ॥ 042c
ततो वृन्दारकं वीरं कुरूणां कीर्तिवर्धनम् । 043a
पुत्राणां तव वीराणां युध्यतामवधीत्पुनः ॥ 043c
अभयं रौद्रकर्माणं दुर्विमोचनमेव च । 044a
त्रिभिस्त्रीनवधीद्भीमः पुनरेव सुतांस्तव ॥ 044c
वध्यमाना महाराज पुत्रास्तव बलीयसा । 045a
भीमं प्रहरतां श्रेष्ठं समन्तात्पर्यवारयन् ॥ 045c
ते शरैर्भीमकर्माणं ववर्षुः पाण्डवं युधि । 046a
मेघा इवातपापाये धाराभिर्धरणीधरम् ॥ 046c
स तद्बाणमयं वर्षमश्मवर्षमिवाचलः । 047a
प्रतीच्छन्पाण्डुदायादो न प्राव्यथत शत्रुहा ॥ 047c
विन्दानुविन्दौ सहितौ सुवर्माणं च ते सुतम् । 048a
प्रहसन्नेव कौन्तेयः शरैर्निन्ये यमक्षयम् ॥ 048c
ततः सुदर्शनं वीरं पुत्रं ते भरतर्षभ । 049a
विव्याध समरे तूर्णं स पपात ममार च ॥ 049c
सोऽचिरेणैव कालेन तद्रथानीकमाशुगैः । 050a
दिशः सर्वाः समालोक्य व्यधमत्पाण्डुनन्दनः ॥ 050c
ततो वै रथघोषेण गर्जितेन मृगा इव । 051a
भज्यमानाश्च समरे तव पुत्रा विशाम्पते । 051c
प्राद्रवन्सहसा सर्वे भीमसेनभयार्दिताः ॥ 051e
अनुयायाच्च कौन्तेयः पुत्राणां ते महद्बलम् । 052a
विव्याध समरे राजन्कौरवेयान्समन्ततः ॥ 052c
वध्यमाना महाराज भीमसेनेन तावकाः । 053a
त्यक्त्वा भीमं रणाज्जग्मुश्चोदयन्तो हयोत्तमान् || 053c
तांस्तु निर्जित्य समरे भीमसेनो महाबलः । 054a
सिंहनादरवं चक्रे बाहुशब्दं च पाण्डवः ॥ 054c
*महान्तं तलशब्दं च कृत्वा द्रोणान्तिकं ययौ । 055a
तमावारयदाचार्यो वेलेवोद्वृत्तमर्णवम् ॥ 055c
तस्य द्रोणो रथं राजञ्छादयामास संयुगे । 056a
साश्वसूतध्वजं तूर्णं तदद्भुतमिवाभवत् ॥ 056c
ललाटेऽताडयच्चैनं नाराचेन स्मयन्निव । 057a
ऊर्ध्वरश्मिरिवादित्यो विबभौ तत्र पाण्डवः ॥ 057c
स मन्यमानस्त्वाचार्यो ममायं फल्गुनो यथा । 058a
भीमः करिष्यते पूजामित्युवाच वृकोदरम् ॥ 058c
भीमसेन न ते शक्यं प्रवेष्टुमरिवाहिनीम् । 059a
मामनिर्जित्य समरे शत्रुमद्य महाबल ॥ 059c
यदि ते सानुजः कृष्णः प्रविष्टोऽनुमते मम । 060a
अनीकं न तु शक्यं मे प्रवेष्टुमिह वै त्वया ॥ 060c
सञ्जय उवाच 061
अथ भीमस्तु तच्छ्रुत्वा गुरोर्वाक्यमशेषतः । 061a
क्रुद्धः प्रोवाच वै द्रोणं रक्तताम्रेक्षणः श्वसन् ॥ 061c
तवार्जुनो नानुमते ब्रह्मबन्धो रणाजिरम् । 062a
प्रविष्टः स हि दुर्धर्षः शक्रस्यापि विशेद्बलम् ॥ 062c
येन त्वं परमां पूजां कुर्वता मानितो ह्यसि । 063a
नार्जुनोऽहं घृणी विप्र भीमसेनोऽस्मि ते रिपुः ॥ 063c
पिता नस्त्वं गुरुर्बन्धुस्तदा पुत्रा हि ते वयम् । 064a
इति मन्यामहे सर्वे भवन्तं प्रणताः स्थिताः ॥ 064c
तदद्य विपरीतं ते वदतोऽस्मासु दृश्यते । 065a
यदि शत्रुं त्वमात्मानं मन्यसे तत्तथाऽस्त्विह । 065c
एष ते सदृशं कर्म शत्रोर्भीमः करिष्यति ॥ 065e
सञ्जय उवाच 066
अथोद्धाम्य गदां वीरः कालदण्डमिवान्तकः । 066a
द्रोणायावासृजद्राजन्स रथादवपुप्लुवे ॥ 066c
साश्वसूतध्वजं यानं द्रोणस्यापोथयत्तदा । 067a
तदद्भुतमपश्याम पाण्डवेयस्य विक्रमम् ॥ 067c
द्रोणं तु विरथं कृत्वा भीमसेनो महाबलः । 068a
अभ्यवर्तत सैन्यानि तावकानि समन्ततः ॥ 068c
स मृद्नंस्तरसा योधान्वायुर्वृक्षानिवौजसा । 069a
विचचार रणे राजन्वायुतुल्यपराक्रमः ॥ 069c
निर्जितस्तु तदा तेन पाण्डवेन महात्मना । 070a
अन्यं तु रथमातिष्ठद्द्रोणः प्रहरतां वरः ॥ ॥ 070c
इति श्रीमन्महाभारते द्रोणपर्वणि जयद्रथवधपर्वणि चतुर्दशदिवसयुद्धे सप्तविंशत्यधिकशततमोऽध्यायः ॥ 127 ॥
5-127-1 संविदं ज्ञापनम् ॥ 5-127- आत्ययिकम् अतिशयितम् ॥ 5-127- इदं श्लोकत्रयं झ. पुस्तक एव वर्तते । अनलो गोहिरण्यं च दूर्वागोरोचनामृतम् । अक्षतं दधि चेत्यष्टौ मङ्गलानि प्रचक्षते ॥ 5-127-14 विजयोत्पादसूचितः सूचितविजयोत्पादः ॥ 5-127-16 रथमारुह्य प्रययाविति पूर्वेणान्वयः ॥ 5-127-23 आह कुन्ती नूनमार्या पापमद्य निदर्शनम् । द्रोपद्री च सुभद्रा च पश्यन्त्यौ सह बन्धुभिः । इति झ. पाठः ॥ 5-127-30 आरुजन् कृन्तन् । विरुजन्विध्यन् । विकर्षन् अत्यर्थं कर्षन् । सम्प्रकर्षन् सम्यक्प्रकर्षेण विलिखन् । विकर्षन् विक्षिपन् ॥ 5-127-55* इयं कथा झ. पाठे पूर्वाध्याये 37 तमश्लोकादनन्तरं कथितास्ति ।