श्रीः अध्यायः 126 अर्जुनवृत्तान्तपरिज्ञानाय सात्यकिं प्रेषितवता युधिष्ठिरेण पुनस्तयोर्वृत्तान्तपरिज्ञानाय भीमसेनस्य तत्र गमनचोदना ॥ 1 ॥ सञ्जय उवाच 001
व्यूहेष्वालोड्यमानेषु पाण्डवानां ततस्ततः । 001a
सुदूरमन्वयुः पार्थाः पाञ्चालाः सह सोमकैः ॥ 001c
वर्तमाने तथा रौद्रे सङ्ग्रामे रोमहर्षणे । 002a
सङ्क्षये जगतस्तीव्रे युगान्त इव भारत ॥ 002c
द्रोणे युधि पराक्रान्ते नर्दमाने मुहुर्मुहुः । 003a
पाञ्चालेषु च क्षीणेषु वध्यमानेषु पाण्डुषु ॥ 003c
नापश्यच्छरणं कञ्चिद्धर्मराजो युधिष्ठिरः । 004a
चिन्तयामास राजेन्द्र कथमेतद्भविष्यति ॥ 004c
ततो विक्ष्य दिशः सर्वाः सव्यसाचिदिदृक्षया । 005a
युधिष्ठिरो ददर्शाथ नैव पार्थं न माधवम् ॥ 005c
सोऽपश्यन्नरशार्दूलं वानरर्षभलक्षणम् । 006a
गाण्डीवस्य च निर्घोषमशृण्वन्व्यथितेन्द्रियः ॥ 006c
अपश्यन्सात्यकिं चापि वृष्णीनां प्रवरं रथम् । 007a
चिन्तयाभिपरीताङ्गो धर्मराजो युधिष्ठिरः । 007c
नाध्यगच्छत्तदा शान्तिं तावपश्यन्नरोत्तमौ ॥ 007e
लोकोपक्रोशभीरुत्वाद्धर्मराजो महामनाः । 008a
अचिन्तयन्महाबाहुः शैनेयस्य रथं प्रति ॥ 008c
पदवीं प्रेषितश्चैव फल्गुनस्य मया रणे । 009a
शैनेयः सात्यकिः सत्यो मित्राणामभयङ्करः ॥ 009c
तदिदं ह्येकमेवासीद्द्द्विधा जातं ममाऽद्य वै । 010a
सात्यकिश्च हि विज्ञेयः पाण्डवश्च धनञ्जयः ॥ 010c
सात्यकिं प्रेषयित्वा तु पाण्डवस्य पदानुगम् । 011a
सात्वतस्यापि कं युद्धे प्रेषयिष्ये पदानुगम् ॥ 011c
करिष्यामि प्रयत्नेन भ्रातुरन्वेषणं यदि । 012a
युयुधानमनन्विष्य लोको मां गर्हयिष्यति ॥ 012c
भ्रातुरन्वेषणं कृत्वा धर्मपुत्रो युधिष्ठिरः । 013a
परित्यजति वार्ष्णेयं सात्यकिं सत्यविक्रमम् ॥ 013c
लोकापवादभीरुत्वात्सोऽहं पार्थं वृकोदरम् । 014a
पदवीं प्रेषयिष्यामि माधवस्य महात्मनः ॥ 014c
यथैव च मम प्रीतिरर्जुने शत्रुसूदने । 015a
तथैव वृष्णिवीरेऽपि सात्वते युद्धदुर्मदे ॥ 015c
अतिभारे नियुक्तश्च मया शैनेयनन्दनः । 016a
स तु मित्रोपरोधेन गौरवात्तु महाबलः । 016c
प्रविष्टो भारतीं सेनां मकरः सागरं यथा ॥ 016e
असौ हि श्रूयते शब्दः शूराणामनिवर्तिनाम् । 017a
मिथः संयुध्यमानानां वृष्णिवीरेण धीमता ॥ 017c
प्राप्तकालं सुबलवन्निश्चितं बहुधा हि मे । 018a
तत्रैव पाण्डवेयस्य भीमसेनस्य धन्विनः । 018c
गमनं रोचते मह्यं यत्र यातौ महारथौ ॥ 018e
न चाप्यसह्यं भीमस्य विद्यते भुवि किञ्चन ॥ 019ac
शक्तो ह्येष रणे यत्तः पृथिव्यां सर्वधन्विनाम् । 020a
स्वबाहुबलमास्थाय प्रतिव्यूहितुमञ्जसा ॥ 020c
यस्य बाहुबलं सर्वे समाश्रित्य महात्मनः । 021a
वनवासान्निवृत्ताः स्म न च युद्धेषु निर्जिताः ॥ 021c
इतो गते भीमसेने सात्वतं प्रति पाण्डवे । 022a
सनाथौ भवितारौ हि युधि सात्वतफल्गुनौ ॥ 022c
कामं त्वशोचनीयौ तौ रणे सात्वतफल्गुनौ । 023a
रक्षितौ वासुदेवेन स्वयं शस्त्रविशारदौ ॥ 023c
अवश्यं तु मया कार्यमात्मनः शोकनाशनम् । 024a
तस्माद्भीमं नियोक्ष्यामि सात्वतस्य पदानुगम् ॥ 024c
ततः प्रतिकृतं मन्ये विधानं सात्यकिं प्रति ॥ 025ac
एवं निश्चित्य मनसा धर्मपुत्रो युधिष्ठिरः । 026a
यन्तारमब्रवीद्राजा भीमं प्रति नयस्व माम् ॥ 026c
धर्मराजवचः श्रुत्वा सारथिर्हयकोविदः । 027a
रथं हेमपरिष्कारं भीमान्तिकमुपानयत् ॥ 027c
भीमसेनमनुज्ञाप्य प्राप्तकालमचिन्तयत् । 028a
कश्मलं प्राविशद्राजा बहु तत्र समादिशत् ॥ 028c
स कश्मलसमाविष्टो भीममाहूय पार्थिवः । 029a
अब्रवीद्वचनं राजन्कुन्तीपुत्रो युधिष्ठिरः || 029c
यः सदेवान्सगन्धर्वान्दैत्यांश्चैकरथोऽजयत् । 030a
तस्य लक्ष्म न पश्यामि भीमसेनानुजस्य ते ॥ 030c
सञ्जय उवाच 031
ततोऽब्रवीद्धर्मराजं भीमसेनस्तथागतम् । 031a
नैवाद्राक्षं नचाश्रौषं तव कश्मलमीदृशम् ॥ 031c
पुरातिदुःखदीर्णानां भवान्गतिरभूद्धि नः । 032a
उत्तिष्ठोत्तिष्ठ राजेन्द्र शाधि किं करवाणि ते ॥ 032c
न ह्यसाध्यमकार्यं वा विद्यते मम मानद । 033a
आज्ञापय कुरुश्रेष्ठ मा च शोके मनः कृथाः ॥ 033c
सञ्जय उवाच 034
तमब्रवीदश्रुपूर्णः कृष्णसर्प इव श्वसन् । 034a
भीमसेनमिदं वाक्यं प्रम्लानवदनो नृपः ॥ 034c
श्रूयते पाञ्चजन्यस्य यथा शङ्खस्य निस्वनः । 035a
पूरितो वासुदेवेन संरब्धेन यशस्विना ॥ 035c
नूनमद्य हतः शेते तव भ्राता धनञ्जयः । 036a
तस्मिन्विनिहते नूनं युध्यतेऽसौ जनार्दनः ॥ 036c
यस्य सत्ववतो वीर्यं ह्युपजीवन्ति पाण्डवाः । 037a
यं भयेष्वभिगच्छन्ति सहस्राक्षमिवामराः ॥ 037c
स शूरः सैन्धवप्रेप्सुरन्वयाद्भारतीं चमूम् । 038a
तस्य वै गमनं विद्मो भीम नावर्तनं पुनः ॥ 038c
श्यामो युवा गुडाकेशो दर्शनीयो महारथः । 039a
व्यूढोरस्को महाबाहुर्मत्तद्विरदविक्रमः ॥ 039c
चकोरनेत्रस्ताम्रास्यो द्विषतां भयवर्धनः । 040a
'मम प्रियहितार्थं च शक्रलोकादिहागतः ॥ 040c
वृद्धोपसेवी धृतिमान्कृतज्ञः सत्यसङ्गरः । 041a
प्रविष्टो महतीं सेनामपर्यन्तां धनञ्जयः ॥ 041c
प्रविष्टे च चमूं घोरामर्जुने शत्रुनाशने । 042a
प्रेषितः सात्वतो वीरः फल्गुनस्य पदानुगः ॥ 042c
तस्याभिगमनं जाने भीम नावर्तनं पुनः ।' 043a
तदिदं मम भद्रं ते शोकस्थानमरिन्दम ॥ 043c
अर्जुनार्थे महाबाहो सात्वतस्य च कारणात् । 044a
वर्धते हविषेवाग्निरिध्यमानः पुनः पुनः ॥ 044c
तस्य लक्ष्म न पश्यामि तेन विन्दामि कश्मलम् । 045a
तं विद्धि पुरुषव्याघ्रं सात्वतं च महारथम् ॥ 045c
स तं महारथं पश्चादनुयातस्तवानुजम् । 046a
तमपश्यन्महाबाहुमहं विन्दामि कश्मलम् ॥ 046c
'अथैनं पुनराचक्ष्व लोहिताक्षं सकेशवम् । 047a
दृष्ट्वा कुशलिनं पार्थं सैन्धवान्ते ससात्यकिम् ॥ 047c
संविदं मम कुर्यास्त्वं सिंहनादेन पाण्डव ॥ 048ac
नूनं विनिहतः शूरः सव्यासाची परन्तप ।' 049a
पार्थे तस्मिन्हते चैव युध्यते गरुडध्वजः ॥ 049c
सहयो नास्य वै कश्चित्तेन विन्दामि कश्मलम् । 050a
तस्मात्कृष्णो रणे नूनं युध्यते युद्धकोविदः ॥ 050c
न हि मे शुध्यते भावस्तयोरेव परन्तप । 051a
स तत्र गच्छ कौन्तेय यत्र यातो धनञ्जयः ॥ 051c
सात्यकिश्च महावीर्यः कर्तव्यं यदि मन्यसे । 052a
वचनं मम धर्मज्ञ भ्राता ज्येष्ठो भवामि ते ॥ 052c
न मेऽर्जुनस्तथा ज्ञेयो ज्ञातव्यः सात्यकिर्यथा ॥ 053ac
चिकीर्षुर्मत्प्रियं पार्थ स यातः सव्यसाचिनः । 054a
पदवीं दुर्गमां घोरामगम्यामकृतात्मभिः ॥ 054c
दृष्ट्वा कुशलिनौ कृष्णौ सात्वतं चैव सात्यकिम् । 055a
संविदं चैव कुर्यास्त्वं सिंहनादेन पाण्डव ॥ ॥ 055c

इति श्रीमन्महाभारते द्रोणपर्वणि जयद्रथवधपर्वणि चतुर्दशदिवसयुद्धे षड्विंशत्यधिकशततमोऽध्यायः ॥ 126 ॥

5-126-6 वानरर्षभलक्षणं वानरप्रधानध्वजम् । वरवानरकेतनमिति पाठो वा ॥ 5-126-9 सत्यो दृढप्रतिज्ञः ॥ 5-126-25 सात्यकिम् प्रति प्रतिविधानं कृतमित्यन्वयः ॥ 5-126-40 चकोरनेत्रो रक्तान्तायतनयनः । ताम्रास्यो रक्तगौरमुखः ॥ 5-126-126 षड्विंशत्यधिकशततमोऽध्यायः ॥ 126 ॥