श्रीः अध्यायः 125 द्रोणपराक्रमवर्णनम् ॥ 1 ॥ सञ्जय उवाच 001
अपराह्णे महाराज सङ्ग्रामः सुमहानभूत् । 001a
पर्जन्यसमनिर्घोषः पुनर्द्रोणस्य सोमकैः ॥ 001c
शोणाश्वं रथमास्थाय नरवीरः समाहितः । 002a
समरेऽभ्यद्रवत्पाण्डूञ्जवमास्थाय मध्यमम् ॥ 002c
तव प्रियहिते युक्तो महेष्वासो महाबलः । 003a
चित्रपुङ्खैः शितैर्बाणैः कलशोत्तमसम्भवः । 003c
'जघान सोमकान्राजन्सृञ्जयान्केकयानपि ॥' 003e
वरान्वरान्हि योधानां विचिन्वन्निव भारत । 004a
आक्रीडत रणे राजन्भारद्वाजः प्रतापवान् ॥ 004c
तमभ्ययाद्बृहत्क्षत्रः केकयानां महारथः । 005a
भातॄणां नृप पञ्चानां श्रेष्ठः समरकर्कशः ॥ 005c
विमुञ्चन्विशिखांस्तीक्ष्णानाचार्यं भृशमार्दयत् । 006a
महामेघो यथा वर्षं विमुञ्चन्गन्धमादने ॥ 006c
तस्य द्रोणो महाराज स्वर्णपुङ्खाञ्शिलाशितान् । 007a
प्रेषयामास सङ्क्रुद्धः सायकान्दश पञ्च च ॥ 007c
तांस्तु द्रोणविनिर्मुक्तान्क्रुद्धाशीविषसन्निभान् । 008a
एकैकं पञ्चभिर्बाणैर्युधि चिच्छेद हृष्टवत् ॥ 008c
तदस्य लाघवं दृष्ट्वा प्रहस्य द्विजपुङ्गवः । 009a
प्रेषयामास विशिखानष्टौ सन्नतपर्वणः ॥ 009c
तान्दृष्ट्वा पततस्तूर्णं द्रोणचापच्युताञ्शरान् । 010a
अवारयच्छरैरेव तावद्भिर्निशितैर्मृधे ॥ 010c
ततोऽभवन्महाराज तव सैन्यस्य विस्मयः । 011a
बृहत्क्षत्रेण तत्कर्म कृतं दृष्ट्वा सुदुष्करम् ॥ 011c
ततो द्रोणो महाराज बृहत्क्षत्रं विशेषयन् । 012a
प्रादुश्चक्रे रणे दिव्यं ब्राह्ममस्त्रं सुदुर्जयम् ॥ 012c
कैकेयोऽस्त्रं समालोक्य मुक्तं द्रोणेन संयुगे । 013a
ब्रह्मास्त्रेणैव राजेन्द्र ब्राह्ममस्त्रमशातयत् ॥ 013c
ततोऽस्त्रे निहते ब्राह्मे बृहत्क्षत्रस्तु भारत । 014a
विव्याध ब्राह्मणं षष्ट्या स्वर्णपुङ्खैः शिलाशितैः ॥ 014c
तं द्रोणो द्विपदां श्रेष्ठो नाराचेन समार्पयत् । 015a
स तस्य कवचं भित्त्वा प्राविशद्धरणीतलम् ॥ 015c
कृष्णसर्पो यथा मुक्तो वल्मीकं नृपसत्तम । 016a
तथाऽत्यगान्महीं बाणो भित्त्वा कैकेयमाहवे ॥ 016c
सोऽतिविद्धो महाराज कैकेयो द्रोणसायकैः । 017a
क्रोधेन महताऽऽविष्टो व्यावृत्य नयने शुभे ॥ 017c
द्रोणं विव्याध सप्तत्या स्वर्णपुङ्खैः शिलाशितैः । 018a
सारथिं चास्य बाणेन भृशं मर्मस्वताडयत् ॥ 018c
द्रोणस्तु बहुभिर्विद्धो बृहत्क्षत्रेण मारिष । 019a
असृजद्विशिखांस्तीक्ष्णान्कैकेयस्य रथं प्रति ॥ 019c
व्याकुलीकृत्य तं द्रोणो बृहत्क्षत्रं महारथम् । 020a
अश्वांश्चतुर्भिर्न्यवधीच्चतुरोऽस्य पतत्त्रिभिः ॥ 020c
सूतं चैकेन बाणेन रथनीडादपातयत् । 021a
द्वाभ्यां ध्वजं च च्छत्रं च च्छित्त्वा भूमावपातयत् ॥ 021c
ततः साधुविसृष्टेन नाराचेन द्विजर्षभः । 022a
हृद्यविध्यद्बृहत्क्षत्रं स च्छिन्नहृदयोऽपतत् ॥ 022c
बृहत्क्षत्रे हते राजन्केकयानां महारथे । 023a
शैशुपालिरभिक्रुद्धो यन्तारमिदमब्रवीत् ॥ 023c
सारथे याहि यत्रैष द्रोणस्तिष्ठति दंशितः । 024a
विनिघ्नन्केकयान्सर्वान्पाञ्चालानां च वाहिनीम् ॥ 024c
तस्य तद्वचनं श्रुत्वा सारथी रथिनां वरम् । 025a
द्रोणाय प्रापयामास काम्भोजैर्जवनैर्हयैः ॥ 025c
धृष्टकेतुश्च चेदीनामृषभोऽतिबलोदितः । 026a
वधायाभ्यद्रवद्द्रोणं पतङ्ग इव पावकम् ॥ 026c
सोऽविध्यत तदा द्रोणं षष्ट्या साश्वरथध्वजम् । 027a
पुनश्चान्यैः सरैस्तीक्ष्णैः सुप्तं व्याघ्रं तुदन्निव ॥ 027c
तस्य द्रोणो धनुर्मध्ये क्षुरप्रेण शितेन च | 028a
चकर्त गार्ध्रपत्रेण यतमानस्य शुष्मिणः ॥ 028c
अथान्यद्धनुरादाय शैशुपालिर्महारथः । 029a
विव्याध सायकैर्द्रोणं कङ्कबर्हिणवाजितैः ॥ 029c
तस्य द्रोणो हयान्हत्वा चतुर्भिश्चतुरः शरैः । 030a
सारथेश्च शिरः कायाच्चकर्त प्रहसन्निव ॥ 030c
अथैनं पञ्चविंशत्या सायकानां समार्पयत् ॥ 031ac
अवप्लुत्य रथाच्चैद्यो गदामादाय सत्वरः । 032a
भारद्वाजाय चिक्षेप रुषितामिव पन्नगीम् ॥ 032c
तामापतन्तीमालोक्य कालरात्रिमिवोद्यताम् । 033a
अश्मसारमयीं गुर्वीं तपनीयविभूषिताम् । 033c
शरैरनेकसाहस्रैर्भारद्वाजोऽच्छिनच्छितैः ॥ 033e
सा छिन्ना बहुभिर्बाणैभारद्वाजेन मारिष । 034a
गदा पपात कौरव्य नादयन्ती धरातलम् ॥ 034c
गदां विनिहतां दृष्ट्वा धृष्टकेतुरमर्षणः । 035a
तोमरं व्यसृजद्वीरः शक्तिं च कनकोज्ज्वलाम् ॥ 035c
तोमरं पञ्चभिर्भित्त्वा शक्तिं चिच्छेद पञ्चभिः । 036a
तौ जग्मतुर्महीं छिन्नौ सर्पाविव गरुत्मता ॥ 036c
ततोऽस्य विशिखं तीक्ष्णं वधाय वधकाङ्क्षिणः । 037a
प्रेषयामास समरे भारद्वाजः प्रतापवान् ॥ 037c
स तस्य कवचं भित्त्वा हृदयं चामितौजसः । 038a
अभ्यगाद्धरणीं बाणो हंसः पद्मवनं यथा ॥ 038c
पतङ्गं हि ग्रसेच्चाषो यथा क्षुद्रं बुभुक्षितः । 039a
तथा द्रोणोऽग्रसच्छूरो धृष्टकेतुं महाहवे ॥ 039c
निहते चेदिराजे तु तत्खण्डं पित्र्यमाविशत् । 040a
अमर्षवशमापन्नः पुत्रोऽस्य परमास्त्रवित् ॥ 040c
तमपि प्रहसन्द्रोणः शरैर्निन्ये यमक्षयम् । 041a
महाव्याघ्रो महारण्ये मृगशावं यथा बली ॥ 041c
तेषु प्रक्षीयमाणेषु पाण्डवेयेषु भारत । 042a
जरासन्धसुतो वीरः स्वयं द्रोणमुपाद्रवत् ॥ 042c
स तु द्रोणं महाबाहुः शरधाराभिराहवे । 043a
अदृश्यमकरोत्तूर्णं जलदो भास्करं यथा ॥ 043c
तस्य तल्लाघवं दृष्ट्वा द्रोणः क्षत्रियमर्दनः । 044a
व्यसृजत्सायकांस्तूर्णं शतशोऽथ सहस्रशः ॥ 044c
छादयित्वा रणे द्रोणं रथस्थं रथिनां वरम् । 045a
जारासन्धिं जघानाशु मिषतां सर्वधन्विनाम् ॥ 045c
योयो विधीयते खण्डस्तन्तं द्रोणोऽन्तकोपमः । 046a
आदत्त सर्वभूतानि प्राप्ते काले यथान्तकः ॥ 046c
ततो द्रोणो महाराज नाम विश्राव्य संयुगे । 047a
शरैरनेकसाहस्रैः पाण्डवेयान्समावृणोत् ॥ 047c
ते तु नामाङ्किता बाणा द्रोणेनास्ताः शिलाशिताः । 048a
नरान्नागान्हयांश्चैव निजघ्नुः शतशो मृधे ॥ 048c
ते वध्यमाना द्रोणेन शक्रेणेव महासुराः । 049a
समकम्पन्त पाञ्चाला गावः शीतार्दिता इव ॥ 049c
ततो निष्टानको घोरः पाण्डवानामजायत । 050a
द्रोणेन वध्यमानेषु सैन्येषु भरतर्षभ ॥ 050c
प्रताप्यमानाः सूर्येण हन्यमानाश्च सायकैः । 051a
अन्वपद्यन्त पाञ्चालास्तदा सन्त्रस्तचेतसः ॥ 051c
मोहिता बाणजालेन भारद्वाजेन संयुगे । 052a
ऊरुग्राहगृहीतानां पाञ्चालानां महारथाः ॥ 052c
चेदयश्च महाराज सृञ्जयाः काशिकोसलाः । 053a
अभ्यद्रवन्त संहृष्टा भारद्वाजं युयुत्सया ॥ 053c
ब्रुवन्तश्च रणेऽन्योन्यं चेदिपाञ्चालसृञ्जयाः । 054a
हत द्रोणं हत द्रोणमिति ते द्रोणमभ्ययुः ॥ 054c
यतन्तः पुरुषव्याघ्राः सर्वशक्त्या महाद्युतिम् । 055a
निनीषवो रणे द्रोणं यमस्य सदनं प्रति ॥ 055c
यतमानांस्तु तान्वीरान्भारद्वाजः शिलीमुखैः । 056a
यमाय प्रेषयामास चेदिमुख्यान्विशेषतः ॥ 056c
तेषु प्रक्षीयमाणेषु चेदिमुख्येषु सर्वशः । 057a
पाञ्चालाः समकम्पन्त द्रोणसायकपीडिताः ॥ 057c
प्राक्रोशन्भीमसेनं ते धृष्टद्युम्नं च भारत । 058a
दृष्ट्वा द्रोणस्य कर्माणि तथारूपाणि मारिष ॥ 058c
भीम उवाच 059
ब्राह्मणेन तपो नूनं चरितं दुश्चरं महत् । 059a
तथा हि युधि सङ्क्रुद्धो दहति क्षत्रियर्षभान् ॥ 059c
धर्मो युद्धं क्षत्रियस्य ब्राह्मणस्य परं तपः । 060a
तपस्वी कृतविद्यश्च प्रेक्षितेनापि निर्दहेत् ॥ 060c
द्रोणाग्निमस्त्रसंस्पर्शं प्रविष्टाः क्षत्रियर्षभाः । 061a
बहवो दुस्तरं घोरं यत्रादह्यन्त भारत ॥ 061c
यथाबलं यथोत्साहं यथासत्वं महाद्युतिः । 062a
मोहयन्सर्वभूतानि द्रोणो हन्ति बलानि नः ॥ 062c
सञ्जय उवाच 063
तस्य तद्वचनं श्रुत्वा क्षत्रधर्मा व्यवस्थितः । 063a
अर्धचन्द्रेण चिच्छेद द्रोणस्य सशरं धनुः ॥ 063c
स संरब्धतरो भूत्वा द्रोणः क्षत्रियमर्दनः ॥ 064ac
अन्यत्कार्मुकमादाय भास्वरं वेगवत्तरम् । 065a
तत्राधाय शरं तीक्ष्णं परानीकविशातनम् ॥ 065c
आकर्णपूर्णमाचार्यो बलवानभ्यवासृजत् । 066a
स हत्वा क्षत्रधर्माणं जगाम धरणीतलम् ॥ 066c
स भिन्नहृदयो वाहान्न्यपतन्मेदिनीतले । 067a
ततः सैन्यान्यकम्पन्त धृष्टद्युम्नसुते हते ॥ 067c
अथ द्रोणं समारोहच्चेकितानो महाबलः । 068a
स द्रोणं दशभिर्विद्ध्वा प्रत्यविद्ध्यत्स्तनान्तरे ॥ 068c
चतुर्भिः सारथिं चास्य चतुर्भिश्चतुरो हयान् । 069a
तमाचार्यस्त्रिभिर्बाणैर्बाह्वोरुरसि चार्दयत् ॥ 069c
ध्वजं सप्तभिरुन्मथ्य यन्तारमवधीत्त्रिभिः । 070a
तस्य सूते हते तेऽश्वा रथमादाय विद्रुताः ॥ 070c
समरे शरसंवीता भारद्वाजेन मारिष । 071a
चेकितानरथं दृष्ट्वा हताश्वं हतसारथिम् ॥ 071c
तान्समेतान्रणे शूरांश्चेदिपाञ्चालसृञ्जयान् । 072a
समन्ताद्द्रावयन्द्रोणो बह्वशोभत मारिष ॥ 072c
आकर्णपलितः श्यामो वयसाऽशीतिपञ्चकः । 073a
रणे पर्यचरद्द्रोणो वृद्धः षोडशवर्षवत् ॥ 073c
अथ द्रोणं महाराज विचरन्तमभीतवत् । 074a
वज्रहस्तममन्यन्त शत्रवः शत्रुसूदनम् ॥ 074c
ततोऽब्रवीन्महाबाहुर्द्रुपदो बुद्धिमान्नृप । 075a
लुब्धोऽयं क्षत्रियान्हन्ति व्याघ्रः क्षुद्रमृगानिव ॥ 075c
कृच्छ्रान्दुर्योधनो लोकान्पापः प्राप्स्यति दुर्मतिः । 076a
यस्य लोभाद्विनिहताः समरे क्षत्रियर्षभाः ॥ 076c
शतशः शेरते भूमौ निकृत्ता गोवृषा इव । 077a
रुधिरेण परीताङ्गाः श्वशृगालादनीकृताः ॥ 077c
सञ्जय उवाच 078
एवमुक्त्वा महाराज द्रुपदोऽक्षौहिणीपतिः । 078a
पुरस्कृत्य रणे पार्थान्द्रोणमभ्यद्रवद्द्रुतम् ॥ ॥ 078c

इति श्रीमन्महाभारते द्रोणपर्वणि जयद्रथवधपर्वमि चतुर्दशदिवसयुद्धे पञ्चविंशत्यधिकशततमोऽध्यायः ॥ 125 ॥

5-125-50 निष्टानकः कष्टस्वनः ॥ 5-125-52 ऊरुग्राहः ऊरुस्तम्भः ॥ 5-125-73 आकर्णमुपागतं पलितं केशादेः शौक्ल्यं यस्य । वयसा कालपिण्डसंयोगेन । अशीतिपञ्चकः चतुःशताब्दः ॥ 5-125-125 पञ्चविंशत्यधिकशततमोऽध्यायः ॥