श्रीः अध्यायः 124 सङ्कुलयुद्धवर्णनम् ॥ 1 ॥ धृतराष्ट्र उवाच 001
किं तस्यां मम सेनायां नासन्केचिन्महारथाः । 001a
ये तथा सात्यकिं यान्तं नैवाघ्नन्नाप्यवारयन् ॥ 001c
एको हि समरे कर्म कृतवान्सत्यविक्रमः । 002a
शक्रतुल्यबलो युद्धे महेन्द्रो दानवेष्विव ॥ 002c
अथवा शून्यमासीत्तद्येन यातः स सात्यकिः । 003a
हतभूयिष्ठमथवा येन यातः स सात्यकिः ॥ 003c
यत्कृतं वृष्णिवीरेण कर्म शंससि मे रणे । 004a
नैतदुत्सहते कर्तुं कर्म शक्रोऽपि सञ्जय ॥ 004c
अश्रद्धेयमचिन्त्यं च कर्म तस्य महात्मनः । 005a
वृष्ण्यन्धकप्रवीरस्य श्रुत्वा मे व्यथितं मनः ॥ 005c
न सन्ति तस्मात्पुत्रा मे यथा सञ्जय भाषसे । 006a
एको वै बहुलाः सेनाः प्रामृद्नात्सत्यविक्रमः ॥ 006c
कथं च युध्यमानानामपक्रान्तो महात्मनाम् । 007a
एको बहूनां शैनेयस्तन्ममाचक्ष्व सञ्जय ॥ 007c
सञ्जय उवाच 008
राजन्सेनासमुद्योगो रथनागाश्वपत्तिमान् । 008a
अतुल्यस्तव सेनायां युगान्तसदृशोऽभवत् ॥ 008c
आहूतेषु समूहेषु तव सैन्यस्य मानद । 009a
नास्ति लोके समः कश्चित्समूह इति मे मतिः ॥ 009c
तत्र देवास्त्वभाषन्त चारणाश्च समागताः । 010a
एतदन्ताः समूहा वै भविष्यन्ति महीतले ॥ 010c
न च वै तादृशो व्यूह आसीत्कश्चिद्विशाम्पते । 011a
यादृग्जयद्रथवधे द्रोणेन विहितोऽभवत् ॥ 011c
'उद्धृता पृथिवी नूनं युद्धहेतोः समागतैः । 012a
इति तत्र जनाश्चाहुर्दृष्ट्वा तां जनसंसदम् ॥' 012c
चण्डवातविभिन्नानां समुद्राणामिव स्वनः । 013a
रणेऽभवद्बलौघानामन्योन्यमभिधावताम् ॥ 013c
पार्थिवानां समेतानां बहून्यासन्नरोत्तम । 014a
त्वद्बले पाण्डवानां च सहस्राणि शतानि च ॥ 014c
संरब्धानां प्रवीराणां समरे दृढकर्मणाम् । 015a
तत्रासीत्सुमहाशब्दस्तुमुलो रोमहर्षणः ॥ 015c
'पाण्डवानां कुरूणां च गर्जतामितरेतरम् । 016a
क्ष्वेलाः किलकिलाशब्दास्तत्रासन्वै सहस्रशः ॥ 016c
भेरीशब्दाश्च तुमुला बाणशब्दाश्च भारत । 017a
अन्योन्यं निघ्नतां चैव नराणां शुश्रुवे स्वनः ॥' 017c
अथाक्रन्दन्भीमसेनो धृष्टद्युम्नश्च मारिष । 018a
नकुलः सहदेवश्च धर्मराजश्च पाण्डवः ॥ 018c
आगच्छत प्रहरत द्रुतं विपरिधावत । 019a
प्रविष्टावरिसेनां हि वीरौ माधवपाण्डवौ ॥ 019c
यथा सुखेन गच्छेतां जयद्रथवधं प्रति । 020a
तथा प्रकुरुत क्षिप्रमिति सैन्यान्यचोदयन् ॥ 020c
तयोरभावे कुरवः कृतार्थाः स्युर्वयं जिताः ॥ 021ac
'यत्र यातौ महात्मानौ तूर्णं परपुरञ्जयौ ।' 022a
ते यूयं सहिता भूत्वा तूर्णमेव बलार्णवम् । 022c
क्षोभयध्वं महावेगाः पवनः सागरं यथा ॥ 022e
भीमसेनेन ते राजन्पाञ्चाल्येन च नोदिताः । 023a
आजघ्नुः कौरवान्सङ्ख्ये त्यक्त्वाऽसूनात्मनःप्रियान् ॥ 023c
इच्छन्तो निधनं युद्धे शस्त्रैरुत्तमतेजसः । 024a
स्वर्गेप्सवो मित्रकार्ये नाभ्यनन्दन्त जीवितम् ॥ 024c
तथैव तावका राजन्प्रार्थयन्तो महद्यशः । 025a
आर्यां युद्धे मतिं कृत्वा युद्धायैवावतस्थिरे ॥ 025c
तस्मिन्सुतुमुले युद्धे वर्तमाने भयावहे । 026a
जित्वा सर्वाणि सैन्यानि प्रायात्सात्यकिरर्जुनम् ॥ 026c
कवचानां प्रभास्तत्र सूर्यरश्मिविराजिताः । 027a
दृष्टीः सङ्ख्ये सैनिकानां प्रतिजघ्नुः समन्ततः । 027c
'ध्वजशस्त्रप्रतिहता लोकान्समवदीपयन् ॥ 027e
चण्डवातोद्धतान्मेघान्विकिरन्रश्मिमानिव । 028a
तथा तव महत्सैन्यं तद्व्यरोचत तापयन् ॥ 028c
सम्प्रहृष्टः स सहसा तव सैन्यार्णवं प्रति । 029a
लोलयन्सर्वतो गत्वा समुद्रं मकरो यथा ॥ 029c
तत्र राजन्महानासीत्सङ्ग्रामो भीतिवर्धनः । 030a
पाण्डवस्य महाबाहो तावकानां च दारुणः ॥ 030c
रुद्रस्याक्रीडसङ्काशः संहारः सर्वदेहिनाम् । 031a
ततः शब्दो महानासीत्प्रायाद्यत्र धनञ्जयः ॥ 031c
तत्र स्म कदनं घोरं वर्तते पाण्डुपूर्वज । 032a
अर्जुनस्य महाबाहोस्तावकानां च धन्विनाम् ॥ 032c
मध्ये भारतसैन्यस्य माधवस्य महारणे । 033a
द्रोणस्यापि परैः सार्धं व्यूहद्वारे सुदारुणम् ॥ 033c
एवमेष क्षयो वृत्तः पृथिव्यां पृथिवीपते । 034a
क्रुद्धेऽर्जुने तथा द्रोणे सात्वते च महारथे ॥' 034c
तथा प्रयतमानानां पाण्डवानां महात्मनाम् । 035a
दुर्योधनो महाराजन्व्यगाहत महद्बलम् ॥ 035c
स सन्निपातस्तुमुलस्तेषां तस्य च भारत । 036a
अभवत्सर्वभूतानामभावकरणो महान् ॥ 036c
धृतराष्ट्र उवाच 037
तथा यातेषु सैन्येषु तथा कृच्छ्रगतः स्वयम् । 037a
कच्चिद्दुर्योधनः सूत नाकार्षीत्पृष्ठतो रणम् ॥ 037c
एकस्य च बहूनां च सन्निपातो महाहवे । 038a
विशेषतो नरपतेर्विषमः प्रतिभाति मे ॥ 038c
सोऽत्यन्तसुखसंवृद्धो लक्ष्म्या लोकस्य चेश्वरः । 039a
एको बहून्समासाद्य कच्चिन्नासीत्पराङ्मुखः ॥ 039c
सञ्जय उवाच 040
राजन्सङ्ग्राममाश्चर्यं तव पुत्रस्य भारत । 040a
एकस्य बहुभिः सार्धं शृणुष्व गदतो मम ॥ 040c
दुर्योधनेन समरे पृतना पाण्डवी रणे । 041a
नलिनी द्विरदेनेव समन्तात्प्रतिलोडिता ॥ 041c
ततस्तां प्रहतां सेनां दृष्ट्वा पुत्रेण ते नृप । 042a
भीमसेनपुरोगास्तं पाञ्चालाः समुपाद्रवन् ॥ 042c
स भीमसेनं दशभिः शरैर्विव्याध पाण्डवम् । 043a
त्रिभिस्त्रिभिर्यमौ वीरौ धर्मराजं च सप्तभिः ॥ 043c
विराटद्रुपदौ षड्भिः शतेन च शिखण्डिनम् । 044a
धृष्टद्युम्नं च विंशत्या द्रौपदेयांस्त्रिभिस्त्रिभिः ॥ 044c
शतशश्चापरान्योधान्सद्विपांश्च रथान्रणे । 045a
शरैरवचकर्तोग्रैः क्रुद्धोऽन्तक इव प्रजाः ॥ 045c
न सन्दधद्विमुञ्चन्वा मण्डलीकृतकार्मुकः । 046a
अदृश्यत रिपून्निघ्नञ्छिक्षयाऽस्तबलेन च ॥ 046c
तस्य तान्निघ्नतः शत्रून्हेमपृष्ठं महद्धनुः । 047a
अजस्रं मण्डलीभूतं ददृशुः समरे जनाः ॥ 047c
ततो युधिष्ठिरो राजा भल्लाभ्यामच्छिनद्धनुः । 048a
तव पुत्रस्य कौरव्य यतमानस्य संयुगे ॥ 048c
विव्याध चैनं दशभिः सम्यगस्तैः शरोत्तमैः । 049a
वर्म चाशु समासाद्य ते भित्त्वा क्षितिमाविशन् ॥ 049c
ततः प्रमुदिताः पार्थाः परिवव्रुर्युधिष्ठिरम् । 050a
यथा वृत्रवधे देवाः पुरा शक्रं महर्षयः ॥ 050c
ततोऽन्यद्धनुरादाय तव पुत्रः प्रतापवान् । 051a
तिष्ठतिष्ठेति राजानं ब्रुवन्पाण्डवमभ्ययात् ॥ 051c
तमायान्तमभिप्रेक्ष्य तव पुत्रं महामृधे । 052a
प्रत्युद्ययुः समुदिताः पाञ्चाला जयगृद्धिनः ॥ 052c
तान्द्रोणः प्रतिजग्राह परीप्सन्युधि पाण्डवम् । 053a
चण्डवातोद्धुतान्मेघान्गिरिरम्बुमुचो यथा ॥ 053c
तत्र राजन्महानासीत्सङ्ग्रामो रोमहर्षणः । 054a
पाण्डवानां महाबाहो तावकानां च संयुगे ॥ 054c
रुद्रस्याक्रीडसदृशः संहारः सर्वदेहिनाम् ॥ 055ac
ततः शब्दो महानासीद्यातो येन धनञ्जयः । 056a
अतीव सर्वशब्देभ्यो रोमहर्षकरः प्रभो ॥ 056c
अर्जुनस्य महाबाहो तावकानां च धन्विनाम् । 057a
मध्ये भारतसैन्यस्य माधवस्य महारणे । 057c
द्रोणस्यापि परैः सार्धं व्यूहद्वारे महारणे ॥ 057e
एवमेष क्षयो वृत्तः पृथिव्यां पृथिवीपते । 058a
क्रुद्धेऽर्जुने तथा द्रोणे सात्वते च महारथे ॥ ॥ 058c

इति श्रीमन्महाभारते द्रोणपर्वणि जयद्रथवधपर्वणि चतुर्दशदिवसयुद्धे चतुर्विंशत्यधिकशततमोऽध्यायः ॥ 124 ॥

5-124-9 अनीकेषु समूहेषु इति क. ख. पाठः ॥ 5-124-39 लक्ष्म्येति विशेषणे तृतीया ॥ 5-124-125 चतुर्विंशत्यधिकशततमोऽध्यायः ॥