श्रीः अध्यायः 123 सात्यकिना दुःशासनपराजयः ॥ 1 ॥ सञ्जय उवाच 001
ततो दुःशासनो राजञ्शैनेयं समुपाद्रवत् । 001a
किरञ्शरसहस्राणि पर्जन्य इव वृष्टिमान् ॥ 001c
स विद्ध्वा सात्यकिं षष्ट्या तथा षोडशभिः शरैः । 002a
नाकम्पयत्स्थितं युद्धे मैनाकमिव पर्वतम् ॥ 002c
तं तु दुःशासनः शूरः सायकैरावृणोद्भृशम् । 003a
रथव्रातेन महता नानादेशोद्भवेन च ॥ 003c
सर्वतो भरतश्रेष्ठ विसृजन्सायकान्बहून् । 004a
पर्जन्य इव घोषेण नादयन्वै दिशो दश ॥ 004c
तमापतन्तमालोक्य सात्यकिः कौरवं रणे । 005a
अभिद्रुत्य महाबाहुश्छादयामास सायकैः ॥ 005c
ते छाद्यमाना बाणौघैर्दुःशासनपुरोगमाः । 006a
प्राद्रवन्समरे भीतास्तव सैन्यस्य पश्यतः ॥ 006c
तेषु द्रवत्सु राजेन्द्र पुत्रो दुःशासनस्तव । 007a
तस्थौ व्यपेतभी राजन्सात्यकिं चार्दयच्छरैः ॥ 007c
चतुर्भिर्वाजिनस्तस्य सारथिं च त्रिभिः शरैः । 008a
सात्यकिं च शतेनाजौ विद्ध्वा नादं मुमोच सः ॥ 008c
ततः क्रुद्धो महाराज माधवस्तस्य संयुगे । 009a
रथं सूतं ध्वजं तं च चक्रेऽदृश्यमजिह्मगैः ॥ 009c
स तु दुःशासनं शूरं सायकैरावृणोद्भृशम् । 010a
मशकं समनुप्राप्तमूर्णनाभिरिवोर्णया ॥ 010c
त्वरन्समावृणोद्बाणैर्दुःशासनममित्रजित् ॥ 011ac
दृष्ट्वा दुःशासनं राजा तथा शरशताचितम् । 012a
त्रिगर्तांश्चोदयामास युयुधानरथं प्रति ॥ 012c
तेऽगच्छन्युयुधानस्य समीपं क्रूरकर्मणः । 013a
त्रिगर्तानां त्रिसाहस्रा रथा युद्धविशारदाः ॥ 013c
ते तु तं रथवंशेन महता पर्यवारयन् । 014a
स्थिरां कृत्वा मतिं युद्धे भूत्वा संशप्तका मिथः ॥ 014c
तेषां प्रयतमानानां शरवर्षाणि मुञ्चताम् । 015a
योधान्पञ्चशतान्मुख्यानग्र्यानीके व्यपोथयत् ॥ 015c
तेऽपतन्निहतास्तूर्णं शिनिप्रवरसायकैः । 016a
महामारुतवेगेन भग्ना इव नगाद्द्रुमाः ॥ 016c
नागैश्च बहुधा च्छिन्नैर्ध्वजैश्चैव विशाम्पते । 017a
हयैश्च कनकापीडैः पतितैस्तत्र मेदिनी ॥ 017c
शैनेयशरसङ्कृत्तैः शोणितौघपरिप्लुतैः । 018a
अशोभत महाराज किंशुकैरिव पुष्पितैः ॥ 018c
ते वध्यमानाः समरे युयुधानेन तावकाः । 019a
त्रातारं नाध्यगच्छन्त पङ्कमग्ना इव द्विपाः ॥ 019c
ततस्ते पर्यवर्तन्त सर्वे द्रोणरथं प्रति । 020a
भयात्पतगराजस्य गर्तानीव महोरगाः ॥ 020c
हत्वा पञ्चशतान्योधाञ्छरैराशीविषोपमैः । 021a
प्रायात्स शनकैर्वीरो धनञ्जयरथं प्रति ॥ 021c
तं प्रयान्तं नरश्रेष्ठं पुत्रो दुःशासनस्तव । 022a
विव्याध नवभिस्तूर्णं शरैः सन्नतपर्वभिः ॥ 022c
स तु तं प्रतिविव्याध पञ्चभिर्निशितैः शरैः । 023a
रुक्मपुङ्खैर्महेष्वासो गार्ध्रपत्रैरजिह्मगैः ॥ 023c
सात्यकिं तु महाराज प्रहसन्निव भारत । 024a
दुःशासनस्त्रिभिर्विद्ध्वा पुनर्विव्याध पञ्चभिः ॥ 024c
शैनेयस्तव पुत्रं तु हत्वा पञ्चभिराशुगैः । 025a
धनुश्चास्य रणे छित्त्वा विस्मयन्नर्जुनं ययौ ॥ 025c
ततो दुःशासनः क्रुद्धो वृष्णिवीराय गच्छते । 026a
सर्वपारशवीं शक्तिं विससर्ज जिघांसया ॥ 026c
तां तु शक्तिं तदा घोरां तव पुत्रस्य सात्यकिः । 027a
चिच्छेद शतधा राजन्निशितैः कङ्कपत्रिभिः ॥ 027c
अथान्यद्धनुरादाय पुत्रस्तव जनेश्वर । 028a
सात्यकिं च शरैर्विद्ध्वा सिंहनादं ननाद च ॥ 028c
सात्यकिस्तु रणे क्रुद्धो मोहयित्वा सुतं तव । 029a
शरैरग्निशिखाकारैराजघान स्तनान्तरे ॥ 029c
त्रिभिरेव महाभागः शरैः सन्नतपर्वभिः । 030a
सर्वायसैस्तीक्ष्णवक्त्रैः पुनर्विव्याध चाष्टभिः ॥ 030c
दुःशासनस्तु विंशत्या सात्यकिं प्रत्यविध्यत । 031a
सात्वतोऽपि महाराज तं विव्याध स्तनान्तरे ॥ 031c
त्रिभिरेव महाभागः शरैः सन्नतपर्वभिः । 032a
ततोऽस्य वाहान्निशितैः शरैर्जघ्ने महारथः ॥ 032c
सारथिं च सुसङ्क्रुद्धः शरैः सन्नतपर्वभिः । 033a
धनुरेकेन भल्लेन हस्तावापं च पञ्चभिः ॥ 033c
ध्वजं च रथशक्तिं च भल्लाभ्यां परमास्त्रवित् । 034a
चिच्छेद विशिखैस्तीक्ष्णैस्तथोभौ पार्ष्णिसारथी ॥ 034c
स च्छिन्नधन्वा विरथो हताश्वो हतसारथिः । 035a
त्रिगर्तसेनापतिना स्वरथेनापवाहितः ॥ 035c
तमभिद्रुत्य शैनेयो मुहूर्तमिव भारत । 036a
न जघान महाबाहुर्भीमसेनवचः स्मरन् ॥ 036c
भीमसेनेन तु वधः सुतानां तव भारत । 037a
प्रतिज्ञातः सभामध्ये सर्वेषामेव संयुगे ॥ 037c
ततो दुःशासनं जित्वा सात्यकिः संयुगे प्रभो । 038a
जगाम त्वरितो राजन्येन यातो धनञ्जयः ॥ ॥ 038c

इति श्रीमन्महाभारते द्रोणपर्वणि जयद्रथवधपर्वणि चतुर्दशदिवसयुद्धे त्रयोविंशत्यधिकशततमोऽध्यायः ॥ 123 ॥