श्रीः अध्यायः 122 सात्यकिभयात्पलायमानस्य दुश्शासनस्य द्रोणेनोपालम्भः ॥ 1 ॥ द्रोणधृष्टद्युम्नयोर्युद्धम् ॥ 2 ॥ सञ्जय उवाच 001
दुःशासनरथं दृष्ट्वा समीपे पर्यवस्थितम् । 001a
भारद्वाजस्ततो वाक्यं दुःशासनमथाब्रवीत् ॥ 001c
दुःशासन रथाः सर्वे कस्माच्चैते प्रविद्रुताः । 002a
कच्चित्क्षेमं तु नृपतेः कच्चिज्जीवति सैन्धवः ॥ 002c
राजपुत्रो भवानत्र राजभ्राता महारथः । 003a
किमर्थं द्रवते युद्धे यौवराज्यमवाप्य च ॥ 003c
दासी जिताऽसि द्यूते त्वं यथा कामचरी भव । 004a
वाससां वाहिका राज्ञो भ्रातुर्ज्येष्ठस्य मे भव ॥ 004c
न सन्ति पतयः सर्वे तेऽद्य षण्ढतिलैः समाः । 005a
दुःशासनैवं कस्मात्त्वं पूर्वमुक्त्वा पलायसे ॥ 005c
स्वयं वैरं महत्कृत्वा पाञ्चालैः पाण्डवैः सह । 006a
एकं सात्यकिमासाद्य कथं भीतोऽसि संयुगे ॥ 006c
न जानीषे पुरा त्वं तु गृह्णन्नक्षान्दुरोदरे । 007a
शरा ह्येते भविष्यन्ति दारुणाशीविषोपमाः ॥ 007c
अप्रियाणां हि वचनं पाण्डवस्य विशेषतः । 008a
द्रौपद्याश्च परिक्लेशस्त्वन्मूलो ह्यभवत्पुरा ॥ 008c
क्व ते मानश्च दर्पश्च क्व ते वीर्यं क्व गर्जितम् । 009a
आशीविषसमान्पार्थान्कोपयित्वा क्व यास्यसि ॥ 009c
शोच्येयं भारती सेना राज्यं चैव सुयोधनः । 010a
यस्य त्वं कर्कशो भ्राता पलायनपरायणः ॥ 010c
ननु नाम त्वया वीर दार्यमाणा भयार्दिता । 011a
स्वबाहुबलमास्थाय रक्षितव्या ह्यनीकिनी ॥ 011c
स त्वमद्य रणं हित्वा भीतो हर्षयसे परान् । 012a
विद्रुते त्वयि सैन्यस्य नायके शत्रुसूदन । 012c
कोऽन्यः स्थास्यति सङ्ग्रामे भीतो भीते व्यपाश्रये ॥ 012e
एकेन सात्वतेनाद्य युध्यमानस्य तेन वै । 013a
पलायने तव मतिः सङ्ग्रामाद्धि प्रवर्तते ॥ 013c
यदा गाण्डीवधन्वानं भीमसेनं च कौरव । 014a
यमौ च द्रक्ष्यसि रणे तदा वै किं करिष्यसि ॥ 014c
युधि फल्गुनबाणानां सूर्याग्निसमवर्चसाम् । 015a
न तुल्याः सात्यकिशरा येभ्यो भीतः पलायसे ॥ 015c
त्वरितो वीर गच्छ त्वं गान्धार्युदरमाविश । 016a
पृथिव्यां धावमानस्य नान्यत्पश्यामि जीवनम् ॥ 016c
यदि तावत्कृता बुद्धिः पलायनपरायणा । 017a
पृथिवी धर्मराजाय शमेनैव प्रदीयताम् ॥ 017c
यावत्फल्गुननाराचा निर्मुक्तोरगसन्निभाः । 018a
नाविशन्ति शरीरं ते तावत्संशाम्य पाण्डवैः ॥ 018c
यावत्ते पृथिवीं पार्था हत्वा भ्रातृशतं रणे । 019a
नाक्षिपन्ति महात्मानस्तावत्संशाम्य पाण्डवैः ॥ 019c
यावन्न क्रुध्यते राजा धर्मपुत्रो युधिष्ठिरः । 020a
कृष्णश्च समरश्लाघी तावत्संशाम्य पाण्डवैः ॥ 020c
यावद्भीमो महाबाहुर्विगाह्य महतीं चमूम् । 021a
सोदरांस्ते न मृद्नाति तावत्संशाम्य पाण्डवैः ॥ 021c
पूर्वमुक्तश्च ते भ्राता भीष्मेणासौ सुयोधनः । 022a
अजेयाः पाण्डवाः सङ्ख्ये सौम्य संशाम्य तैः सह ॥ 022c
'मया शमवता चोक्तो रक्ष शेषं सुयोधन । 023a
संशाम्य पार्थैस्त्वं रक्ष वीर सर्वान्महीक्षितः ॥' 023c
न च तत्कृतवान्मन्दस्तव भ्राता सुयोधनः । 024a
स युद्धे धृतिमास्थाय यत्तो युध्यस्व पाण्डवैः ॥ 024c
तवापि शोणितं भीमः पास्यतीति मया श्रुतम् । 025a
तच्चाप्यवितथं तस्य तत्तथैव भविष्यति ॥ 025c
किं भीमस्य न जानासि विक्रमं त्वं सुबालिश । 026a
यत्त्वया वैरमारब्धं संयुगे प्रपलायिना ॥ 026c
गच्छ तूर्णं रथेनैव यत्र तिष्ठति सात्यकिः । 027a
त्वया हीनं बलं ह्येतद्विद्रविष्यति भारत | 027c
आत्मार्थं योधय रणे सात्यकिं सत्यविक्रमम् ॥ 027e
सञ्जय उवाच 028
एवमुक्तस्तव सुतो नाब्रवीत्किञ्चिदप्यसौ । 028a
श्रुतं चाश्रुतवत्कृत्वा प्रायाद्येन स सात्यकिः ॥ 028c
सैन्येन महता युक्तो म्लेच्छानामनिवर्तिनाम् । 029a
आसाद्य च रणे यत्तो युयुधानमयोधयत् ॥ 029c
द्रोणोऽपि रथिनां श्रेष्ठः पाञ्चालान्पाण्डवांस्तथा । 030a
अभ्यद्रवत सङ्क्रुद्धो जवमास्थाय मध्यमम् ॥ 030c
प्रविश्य च रणे द्रोणः पाण्डवानां वरूथिनीम् । 031a
द्रावयामास योधान्वै शतशोऽथ सहस्रशः ॥ 031c
ततो द्रोणो महाराज नाम विश्राव्य संयुगे । 032a
पाण्डुपाञ्चालमत्स्यानां प्रचक्रे कदनं महत् ॥ 032c
तं जयन्तमनीकानि भारद्वाजं ततस्ततः । 033a
पाञ्चालपुत्रो द्युतिमान्वीरकेतुः समभ्ययात् ॥ 033c
स द्रोणं पञ्चभिर्विद्ध्वा शरैः सन्नतपर्वभिः । 034a
ध्वजमेकेन विव्याध सारथिं चास्य सप्तभिः ॥ 034c
तत्राद्भुतं महाराज दृष्टवानस्मि संयुगे । 035a
यद्द्रोणो रभसं युद्धे पाञ्चाल्यं नात्यवर्तत ॥ 035c
सन्निरुद्धं रणे द्रोणं पाञ्चला वीक्ष्य मारिष । 036a
आवव्रुः सर्वतो राजन्धर्मपुत्रजयैषिणः ॥ 036c
ते शरैरग्निसङ्काशैस्तोमरैश्च महाधनैः । 037a
शस्त्रैश्च विविधै राजन्द्रोणमेकमवाकिरन् ॥ 037c
निवार्य तान्बाणगणान्द्रोणो राजन्समन्ततः । 038a
महाजलधरान्व्योम्नि मातरिश्वेव चाबभौ ॥ 038c
ततः शरं महाघोरं सूर्यपावकसन्निभम् । 039a
सन्दधे परवीरघ्नो वीरकेतो रथं प्रति ॥ 039c
स भित्त्वा तु शरो राजन्पाञ्चालकुलनन्दनम् । 040a
अभ्यगाद्धरणीं तूर्णं लोहितार्द्रो ज्वलन्निव ॥ 040c
ततोऽपतद्रथात्तूर्णं पाञ्चालकुलनन्दनः । 041a
पर्वताग्रादिव महांश्चम्पको वायुपीडितः ॥ 041c
तस्मिन्हते महेष्वासे राजपुत्रे महाबले । 042a
पाञ्चालास्त्वरिता द्रोणं समन्तात्पर्यवारयन् ॥ 042c
चित्रकेतुः सुधन्वा च चित्रवर्मा च भारत । 043a
तथा चित्ररथश्चैव भ्रातृव्यसनकर्शिताः ॥ 043c
अभ्यद्रवन्त सहिता भारद्वाजं युयुत्सवः । 044a
मुञ्चन्तः शरवर्षाणि तपान्ते जलदा इव | 044c
'अदृश्यं समरे चक्रुर्भारद्वाजं सुधन्विनः ॥' 044e
स वध्यमानो बहुधा राजपुत्रैर्महारथैः । 045a
क्रोधमाहारयत्तेषामभावाय द्विजर्षभः ॥ 045c
ततः शरमयं जालं द्रोणस्तेषामवासृजत् । 046a
ते हन्यमाना द्रोणस्य शरैराकर्णचोदितैः । 046c
कर्तव्यं नाभ्यजानन्वै कुमारा राजसत्तम ॥ 046e
तान्विमूढान्रणे द्रोणः प्रहसन्निव भारत । 047a
व्यश्वसूतरथांश्चक्रे कुमारान्कुपितो रणे ॥ 047c
अथापरैः सुनिशितैर्भल्लैस्तेषां महायशाः । 048a
पुष्पाणीव विवान्वायुः सोत्तमाङ्गान्यपातयत् ॥ 048c
ते रथेभ्यो हताः पेतुः क्षितौ राजन्सुवर्चसः । 049a
देवासुरे पुरा युद्धे यथा दैतेयदानवाः ॥ 049c
तान्निहत्य रणे राजन्भारद्वाजः प्रतापवान् । 050a
कार्मुकं भ्रामयामास हेमपृष्ठं दुरासदम् ॥ 050c
'तदस्य भ्राजते राजन्मेघमध्ये तडिद्यथा ॥' 051ac
पाञ्चालान्निहतान्दृष्ट्वा देवकल्पान्महारथान् । 052a
धृष्टद्युम्नो भृशोद्विग्नो नेत्राभ्यां पातयञ्जलम् । 052c
अभ्यवर्तत सङ्ग्रामे क्रुद्धो द्रोणरथं प्रति ॥ 052e
ततो हाहेति सहसा नादः समभवन्नृप । 053a
पाञ्चाल्येन रणे दृष्ट्वा द्रोणमावारितं शरैः ॥ 053c
स च्छाद्यमानो बहुधा पार्षतेन महात्मना । 054a
न विव्यथे ततो द्रोणः स्मयन्नेवान्वयुध्यत ॥ 054c
ततो द्रोणं महाराज पाञ्चाल्यः क्रोधमूर्च्छितः । 055a
आजघानोरसि क्रुद्धो नवत्या नतपर्वणाम् ॥ 055c
स गाढविद्धो बलिना भारद्वाजो महायशाः । 056a
निषसाद रथोपस्थे कश्मलं च जगाम ह ॥ 056c
तं वै तथागतं दृष्ट्वा धृष्टद्युम्नः पराक्रमी । 057a
चापमुत्सृज्य शीघ्रं तु असिं जग्राह वीर्यवान् ॥ 057c
अवप्लुत्य रथाच्चापि त्वरितः स महारथः । 058a
आरुरोह रथं तूर्णं भारद्वाजस्य मारिष । 058c
हर्तुमिच्छञ्शिरः कायात्क्रोधसंरक्तलोचनः ॥ 058e
प्रत्याश्वस्तस्ततो द्रोणो धनुर्गृह्य महारवम् । 059a
आसन्नमागतं दृष्ट्वा धृष्टद्युम्नं जिघांसया ॥ 059c
शरैर्वैतस्तिकै राजन्विव्याधासन्नवेधिभिः । 060a
योधयामास समरे धृष्टद्युम्नं महारथम् ॥ 060c
ते हि वैतस्तिका नाम शरा आसन्नयोधिनः । 061a
द्रोणस्य विहिता राजन्यैर्धृष्टद्युम्नमाक्षिणोत् ॥ 061c
स वध्यमानो बहुभिः सायकैस्तैर्महाबलः । 062a
अवप्लुत्य रथात्तूर्णं भग्नवेगः पराक्रमी ॥ 062c
आरुह्य स्वरथं वीरः प्रगृह्य च महद्धनुः । 063a
विव्याध समरे द्रोणं धृष्टद्युम्नो महारथः ॥ 063c
द्रोणश्चापि महाराज शरैर्विव्याध पार्षतम् ॥ 064ac
तदद्भुतमभूद्युद्धं द्रोणपाञ्चालयोस्तदा । 065a
त्रैलोक्यकाङ्क्षिणोरासीच्छक्रप्रह्लादयोरिव ॥ 065c
मण्डलानि विचित्राणि यमकानीतराणि च । 066a
चरन्तौ युद्धमार्गज्ञौ ततक्षतुरथेषुभिः ॥ 066c
मोहयन्तौ मनांस्याजौ योधानां द्रोणपार्षतौ । 067a
सृजन्तौ शरवर्षाणि वर्षास्विव बलाहकौ । 067c
छादयन्तौ महात्मानौ शरैर्व्योम दिशो महीम् ॥ 067e
तदद्भुतं तयोर्युद्धं भूतसङ्घा ह्यपूजयन् । 068a
क्षत्रियाश्च महाराज ये चान्ये तव सैनिकाः ॥ 068c
अवश्यं समरे द्रोणो दृष्टद्युम्नेन सङ्गतः । 069a
वशमेष्यति नो राजन्पाञ्चाला इति चुक्रुशुः ॥ 069c
द्रोणस्तु त्वरितो युद्धे धृष्टद्युम्नस्य सारथेः । 070a
शिरः प्रच्यावयामास फलं पक्वं तरोरिव ॥ 070c
ततस्तु प्रद्रुता वाहा राजंस्तस्य महात्मनः ॥ 071ac
तेषु प्रद्रवमाणेषु पाञ्चालान्सृञ्जयांस्तथा । 072a
अयोधयद्रणे द्रोणस्तत्रतत्र पराक्रमी ॥ 072c
विजित्य पाण्डुपाञ्चालान्भारद्वाजः प्रतापवान् । 073a
स्वं व्यूहं पुनरास्थाय स्थितोऽभवदरिन्दमः । 073c
न चैनं पाण्डवा युद्धे जेतुमुत्सेहिरे प्रभो ॥ ॥ 073e

इति श्रीमन्महाभारते द्रोणपर्वणि जयद्रथवधपर्वणि चतुर्दशदिवसयुद्धे द्वाविंशत्यधिकशततमोऽध्यायः ॥ 122 ॥

5-122-48 विशेषेण वातीति विवान् । पुष्पाणीव वनाद्वायुः इति ट. पाठः । पुष्पाणीव विचन्वन्हि इति झ. ञ. पाठः ॥ 5-122-61 द्रोणस्य विविधा राजन् इति ट. पाठः । द्रोणस्य विदिता इति क. पाठः ॥ 5-122-122 द्वाविंशत्यधिकशततमोऽध्यायः ॥ 122 ॥